मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
DevanagariHindipublished377 पृष्ठ
पृष्ठ 258, कुल 377 में से
संदर्भ में पढ़ेंपृष्ठ 258
१० जगद्धरकृत हि तन्नभोगादेवान्भवतः सामाजिकानुपासहे । सूत्रधारः—बाढम् । एषोऽस्मि कामन्दकी संवृत्तः । किरयमुत्प्रेक्षितवानित्यदोषः । माधव इति नाम्ना शृङ्गारमयतोक्ता । वसन्तस्य शृङ्गारमयत्वात् शृङ्गारमयत्वेन विष्णुदैवतत्वमपि कटाक्षितम् । यदाह भरतः— 'शृङ्गारो विष्णुदैवतः' इति । अत एव श्यामलमपि वक्ष्यति कुवलयदळश्यामो- ऽयमित्यादिना । 'श्यामो भवेत्तु शृङ्गारः' इत्यपि भरतः । अयममात्यत्वाद्धीरोदात्तो नायकः । यदाह भरतः—'सेनापतिरमात्यश्च धीरोदात्तौ प्रकीर्तितौ' इति ॥ मालती नायिका । तल्लक्षणं भरते—'स्वान्यसाधारणस्त्रीति तद्गुणा नायिका त्रिधा । स्वकीया तत्र वक्तव्या मुग्धा मध्या प्रगल्भिका ॥ शीलाजैवादिसंयुक्ता कुटिला च पतिव्रता । लज्जावती चापरुषा निपुणा च