मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 259, कुल 377 में से
संदर्भ में पढ़ेंअंकः १ ] मालतीमाधवटीका । १५ नटः—अहमप्यवलोकिता । (इति परिक्रम्य निष्क्रान्तौ ।) प्रस्तावना । पृ० प० १० ५ ०नेपथ्ये कामन्दक्यवलोकिते प्र० । ११ १ ०रभिमतः पाणिग्रहः स्यात्० । ५ ०चित्तविक्खेवी० । ७ ईरिसे आआसे० । ११ ८ तहिं उक्खणिड० । ९ णिउज्जिअदि । नीतिग्रन्थभेदस्तं वेत्तीति कामन्दकी । 'तदधीते' इत्यण्, ङीप् च । अनया ना- नभ्युत्पत्त्या नीतिवेदिताबोधनेन प्रकृतसिद्धेर्हेतुतोक्ता ॥ तदन्तेवासिनी अवलो- किता दृष्टिरिति कार्यसिद्धिदृष्टेरपि कार्यसिद्धिहेतुतोक्ता । तदुत्तेजनिकेति । निष्क्रा- न्तौ । सूत्रधारनटाविति शेषः ॥ प्रस्तावनेति । निवृत्तेति शेषः । एतल्लक्षणं भ- रते—'नटी विदूषको वापि पारिपार्श्विक एव वा । सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥ आमुखं नाम तस्यैव सैव प्रस्तावना मता' इति । परिवृत्य पुनरागत्य । रक्ता पट्टिका लोहितपट्टिका नेपथ्यमलंकारो ययोस्ते ॥ अधुना कामन्दकी समस्तप्र- करणोपयुक्तमुपक्षेपमाह—अपीत्यादि । यदाह—'काव्यार्थस्य समुत्पत्तिरुपक्षेप- स्मृतो बुधैः' । इह तु मालतीमाधवयोर्विवाहनिर्वाहः काव्यार्थः । अपि नामे- ति । नाम संभावनायाम् । तेन भवेदपीत्यर्थः । निश्चये वा नाम । तेन निश्चितमेव भवेदित्यर्थः । कल्याणिनोरित्यनेनाशंसनीयकुशलतयानुग्राह्यत्वमुक्तम् । भूरिवसुर्मा- लतीपिता । महाधनिककन्याया आवश्यकी वराकाङ्क्षेति नामतात्पर्यम् । देवरातो माधवपिता । देववद्राति दत्ते । 'रा दाने' कर्तरि कः देवरातः । तथा च जनो दातरि विवाह्यत इति महाधनिकवद्दान्यत्वप्रभुत्वाद्योगिनोऽनुरूप एव प्रायः पुत्र इति वरे कन्याकाङ्क्षासूचनं नामानुनयेन । एवं च योग्ययोर्योग्य एव संबन्ध इति भावः । पाणिग्रहो विवाहः । विवृण्वतेति । अपिरवधारणे । तेन वामकेनैव वा- मेनैव चक्षुषा दाक्षिण्यमवलम्ब्यते । कीदृशेन । स्फुरता स्पन्दवताऽत एव कल्याणं विवृण्वता सूचयता । स्त्रीणां वामाङ्गस्फुरणस्य शुभसूचकत्वात् । आन्तरङ्गेनेव मदी- यचित्तवृत्तिज्ञेनेव । इवोत्प्रेक्षायाम् । 'उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृ- शः' इति दण्डी । अथवापिविरोधे । वामेनापि प्रतिकूलेनापि दाक्षिण्यमानुकू- ल्यमवलम्ब्यत इति विरुद्धमिदम् । वामक इति स्वार्थे कन् ॥ ११ ॥ अवलो- किता । अत्र खलु निश्चये । चित्तविक्षेपोऽसदृश्याभिनिवेशः । चीरेण वस्त्र- खण्डेन चीवरं, सौगतपरिव्राजकवासस्तदेव परिच्छदः परिकरो यस्यास्ताम् । पिण्डपातो नाम बौद्धानां भिक्षाभ्रमणेन भोजनम् । तन्मात्रेण प्राणयात्रा जीवनं यस्यास्ताम् । ईदृशे विवाहकार्ये । इह पुरंध्रीणामेवाधिकारो न तु मवादृशी- नामिति भावः । उत्खण्डित उन्मूलितः संसाररूपोऽवग्रहो मोक्षप्रतिबन्धो यत्र, *