मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 260, कुल 377 में से
संदर्भ में पढ़ें१२ जगद्धरकृता [ अङ्कः १ पृ० प० १२ १ ॰मैवं ब्रूहि । ६ अयि किं० यदेकत्र नो विद्या० । ॰भान्त- वासिनां सा० । ७ ॰तदैव चास्म० । १३ ३ ॰तदो किंति० । १४ २ ॰णिरवेक्खदाए ल० । ८ श्रेयोऽप्यसा० । सः । यद्वा, उन्मूलितः संसाररूपोऽपकृष्टो ग्रहो यत्र सः ॥ कामन्दकी । मा मैति । वीप्साऽत्यन्तनिषेधे । यन्मामित्यादि । स भवान्पूज्यो भूरिवसुर्यन्मां विधेयविषये नियोज्यगोचरे नियुङ्क्ते नियोजयति तत्स्नेहस्य प्रीतेः फलम् । स ह्यस्माकं प्रेमपात्रमिति भावः । असौ नियोगः प्रणयस्य प्रश्रयस्य सार उत्कर्षो निर्यासो वा । यदि मदीयैः प्राणैरथवा मदीयैस्तपोभिः सुहृदो मित्रस्याभिमतं वाञ्छितं कृत्यं कार्यं घटेत तदा तत्कार्यं कृतं स्यात् । मत्प्राणादिभिरपि भवेदित्यर्थः । यद्वा सुहृदो- ऽभिमतमिदं यदि घटेत निष्पद्येत तदा मदीयैः प्राणैस्तपोभिर्वा तत्कृत्यं कृतं स्या- त् । अघटने तु सर्वमिदं व्यर्थमित्यर्थः । एतेनावश्यकर्तव्यतोक्ता । 'प्रणयः प्रेम्णि विश्वासे याज्ञाप्रश्रययोरपि' इति विश्वः ॥ १२ ॥ भूरिवसोः स्वीकारबीजमेवंविध- प्रश्रयोपपत्तिं चाह—किं नेत्यादि । न इति बहुवचनेन स्वभूरिवसुदेवरातानामु- पादानम् । अस्मदिति । अस्माकं सौदामिन्याश्च प्रत्यक्षमित्यर्थः । अपत्यसं- बन्धो विवाहः । सौदामिनीसमक्षमित्यनेन तस्या देवरातबन्धुतया नवमाङ्के मा- धवप्राणत्राणकारणत्वमस्या नाम च सूचितम् । युक्तं चेदम् । 'नासूचितं विशे- त्पात्रम्' इति भरतः । एवमन्यत्रापि सूचितस्यैव प्रवेशः । आन्वीक्षिकी न्या- यशास्त्रम् । तत्र तर्कच्छलादिनिष्टङ्कनेन तदभ्यासान्माधवस्य चोरिकाविवाहे कौ- शलमुक्तम् । श्रवणं पाठः । कुण्डिनपुरं विदर्भनृपराजधानी । प्रहिण्वता प्र- स्थापयता । सुविहितं शोभनं कृतम् । अपत्येत्यादि । देवरातेन पुत्रं प्रहिण्व- तापत्यसंबन्धविधिप्रतिज्ञा विवाहप्रतिज्ञा प्रियस्य सुहृदः प्रीतिमित्रस्य भूरिवसोः । सुहृदः शोभनचित्तस्य वा स्मृतिं स्मरणं नीता प्रापिता । अलोकसामान्यगुणो लोकविलक्षणगुणः पुत्रः प्ररोचनार्थं प्रवृत्तिपाटवार्थं स्फुटीकृतश्च । प्ररोचनस्यैव सर्वकार्यसिद्धयङ्गत्वात्तत्करणम् ॥ १३ ॥ अवलोकिता । अत्रामात्यो भूरिवसुः । माधवस्य कृत इति शेषः । प्रतिपादयति ददाति । चोरिकया विवाहस्य धर्म- शास्त्रे निषेधादिति भावः ॥ तामित्यादि । नन्दननामा राज्ञोऽन्तःपुरसचिवो नृपद्वारा तां याचते । तत्र साक्षान्निषेधः कोपाय राज्ञः । अयं तु मन्द्वारा संयो- जनात्मक उपायः शिवः । परिणामसुख्स इत्यर्थः । आर्या छन्दः । स्यान्नर्मसचिवः सोऽयं कुपितस्त्रीप्रसाधकः । नन्दयतीति नन्दनः । एतेनानन्दजनकत्वादन्तः- पुरसचिवता युक्तेति नामतात्पर्यम् ॥ १४ ॥ कामन्दकी । संवरणं संगोपनम् । विशेषत इत्यादि । तेन भूरिवसुना तयोर्वत्सयोर्विशेषेण स्वमतिनिह्नवः कार्यो निजज्ञानगोपनं कर्तव्यम् । बालत्वाच्छिशुत्वेन । प्रकाशिताभिप्राययोः ।