मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 261, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः १ ] मालतीमाधवटीका । १३ पृ० ५० १५ २ ॰कारप्रगुणरम॰ । ४ ॰म्भिसंधाय॰ । तेण तेण वअणोवण्णासेण॰ । १६ ३ बाढम् । जदो ताए वि अत्तणो विणोदणिमित्तं मा हव॰ । ४ ॰अज्ज णिहिदं॰ । ॰यतो माधवा॰ । ७ ॰तीर्थेन घटते । ८ ॰उपोद्धातेन । १७ २ ॰म्हूसवं मअरन्दुज्जाणं अज्ज पभादे अ॰ । यथा तावपि प्रकृतं न जानीतस्तथा कृतं तेनेति भावः । युक्तं चादः । 'नादेशे नाकाले नापरिपक्केन्द्रिये न गुणहीने । कथयति हि कथां स्वगतां न तथास्य कथा भवति वन्ध्या ॥' इति नीतेः ॥ १५ ॥ अनुरागेत्यादि । तयोरनुरागप्रवाहः सर्वलोकविदितः सन्नस्माकम् 'श्रेयानस्ति' इति वा पाठः । श्रेयो लक्ष्मी । यत एवं सति राजा नन्दनक्षोभौ वञ्चनीयौ तयोरन्योन्यानुरागादेव परिणयो वृत्तो न मया कारित इति वक्तव्यमेवेति भावः । सार्वलौकिक इत्यत्र सर्वलोकाट्ठञ् । अन्योन्यानुरागेण गान्धर्वविवाहोऽपि सूचितः ॥ १६ ॥ बहिरित्यादि । विद्वान्त्सुबुद्धिरेकः श्रे- ष्ठोऽद्वितीयो वा सकलं जनं कपटैरभिसंधाय वञ्चयित्वा स्वानर्थान्स्वप्रयोजनानि संपादयति । मौनमभाषणं भजते च । विधिनिषेधपरं वचो न वदतीत्यर्थः । अत एव तटस्थ उदासीन इवानभिव्यक्तव्यापार इत्यर्थः । कथम् । सर्वाकारेणेङ्गितादिना स्वभावसुन्दरं यथा भवति तथा बहिः प्रकटं व्यवहरन्नपि सूक्ष्माण्यपि पराभ्यूह्यस्था- नानि परस्य तर्कस्थानानि स्थगयति पिदधाति । अपिर्भिन्नक्रमः । 'अभिसंधिर्वञ्च- नार्थः' इति धातुसंग्रहः । 'केवलश्रेष्ठयोरेकः' इति धरणिः ॥ १७ ॥ अवलोकिता । अत्रोपन्यासो व्याजेन कार्योद्भेदः । राजमार्गगेत्यनेन सर्वसाधारण्यान्मा- धवस्यानौद्धत्यमद्वितीयवेद्यता च सूचिता । संचारणं च तद्दर्शनेन मालत्या अनुरागायेति भावः । अत्र कामन्दक्यावलोकितायामेवमुक्तत्वात्कथं तव वचना- दिति घटत इति न देश्यम् । प्राक्तैस्तपोभिरित्यादिना तदभिधानात् ॥ कामन्दकी । धात्रेय्युपमातृसुता । एतेन बाल्यात्प्रभृति सकलचेष्टावेदित्वं ध्वनितम् । तथा च लवङ्गिका मालतीगतं यत्कथयति तत्प्रमाणमेवेत्येवकारव्यङ्ग्यम् । अनेनास्याः स- खीत्वमप्युक्तम् । यदाह भरतः—'काष्ठदासी च धात्रेयी प्रतिवेश्या च शिल्पिका । बाला प्रव्रजिता चेति नायिकानां सखीजनः ॥' इति ॥ न इति बहुवचनेनात्मनि लवङ्गिकाहृदयजागरूकबहुमानेन वञ्चकतानिरासः सूचितः । भूय इत्यादि । मालत्यङ्गकैस्साम्यति खिद्यत इति कथितमेव लवङ्गिकयेत्यन्वयः । अङ्गकैरित्यत्रा- न्त्यार्थे कन् । कल्पता मृदुत्वेन । बहुवचनात्सर्वाङ्गमुक्तम् । तथा च मृदुभिः सर्वा- ङ्गैरित्यर्थः । कीदृशैः । तं माधवं दृष्ट्वा दृष्ट्वा पुनः पुनरवलोक्य । गाढोत्कण्ठया ह- ठाकाङ्क्षया लुलितलुलितैरतिम्लानकान्तिभिः। 'ललितलुलितैः' इति पाठे पूर्वं ललितै- *