भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 262, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 262

१४ मालतीमाधवम् [ अङ्कः १ पृ० प० १८ १ ॰दुराणणवासिणो॰ । ” ७ ॰पिअं किदं होदि । ” ११ ॰मालती । तन्नि॰ । १३ ॰रूपः सूत्रयितव्यः । रम्यैरधुना लुलितैर्म्लानैरित्यर्थः । कीदृशम् । सविधनगरीरथ्यया मालतीगृहनिकटरा- जमार्गेण भूयो भूयः पुनः पुनः पर्यटन्तं गच्छन्तम् । इह राजमार्गोपन्यासेन माधव- स्य निःशङ्कः संचारो मालत्याश्च तद्दर्शनेन परवितर्काभावः सूचितः । गमने पौनः- पुन्येन दर्शने प्रति दार्ढ्यमुक्तम् । दर्शनेन च पौनःपुन्येन तस्या उत्कण्ठातिशय उक्तः । यद्वा प्रथमवीप्सया दर्शनं दृष्टानुवृत्त्या प्रथमं रम्यवस्तुचमत्कारेण तत उद्भिद्यमानानुरोगनवाङ्कुरेण नेत्रप्रीतिर्युज्यते । द्वितीयवीप्सया सहचरीभिरप्यज्ञा