भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 263, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 263

[अङ्क १] मालतीमाधवटीका । ३५

पृ० ५० १९ ३ वरीयानन्यो० ।

स्तनेति शेषः ॥ अवलोकिता । 'कौतुकं तु कुतूहलम्' इत्यमरः । मदनसहोत्प- त्तेन वसन्तकालः सूचितः । तस्य च वैवाहिकत्वम् । यदाह—'शरत्सङ्क्रामविषये विवाहे ज्येष्ठमाधवौ' इति । किल प्रसिद्धौ । इति हेतौ । अनुप्रेषणे तत्र किल्बिषा- देर्हेतुत्वम् । अन्योन्यदर्शनेनोभयानुरागे विवाहनिर्वाहः । प्रिये प्रीतिविषये कार्येऽभि- योग आसङ्गः । अत्र कपालमतं महाव्रतम् । कुत इत्यादिना श्मशानाङ्गसूचनम् ॥ कामन्दकी । किल प्रसिद्धौ । विविधा नानारूपा जीवा मानुषादय उपहारा बलयः प्रिया यस्याः सा अनेन मालत्युपहारः सूचितः । आत्मनिरपेक्षं कर्म साहसम्, तेन वर्तन्ते ते साहसिक़ाः । प्रवादः प्रसिद्धिः । इह प्रियेत्यस्यानन्तरमिति पदं देयमन्यथा पूर्वापरानन्वयात् । तथा च प्रियेत्यनेनाकारेण साहसिकानां प्रवाद इत्यर्थः । अत एव वाक्यार्थकर्मादावितेरध्याहारः ॥ अवलोकिता । इह खलु प्रसिद्धौ । तस्याश्चामुण्डाया नातिदूरेणात्यासन्ने वस्तुं शीलं यस्य । तस्य एतेन देवकु- लस्य लोकसंकुलतया किंचिद्विप्रकृष्टं साधकसंस्थानमुक्तम् । साधकस्य योगिनः मुण्डधारिणः कापालिकस्य । अघोरघण्टेति । 'कापालिकास्तु घण्टान्तनामानः समुदाहृताः ।' भरतः । अघोरोऽविमृश्यकारीति नामव्युत्पत्तिः । अनुसंध्यं संध्यायाम् । प्रवृत्तिर्वार्ता । सर्वमघोरघण्टनाशनमाधवरक्षणादिकम् । अत्रैतेन कापालिकादेः कथनेनालं निष्फलमधुनानुपयोगात् ॥ अवलोकिता । बालमिति भावप्रधानम् । तेन बाल्यन्मित्रमित्यर्थः । समुद्रहति विवहति ॥ कामन्दकी । बु- द्धरक्षितेत्यनेन भिक्षुकीत्वं सूचितम् । अत एव दौत्ये नियुक्ता ॥ अवलोकिता । उत्तिष्ठेत्यत्रोध्वैंकर्मत्वान्न तद् ॥ कामन्दकी । अत्युदात्ता गभीरा प्रतिपन्नार्था संवादिनी प्रकृतिर्यस्याः सा तथा । निसृष्टार्थेति । नायिकाया नायकस्य वा मनो- रथं ज्ञात्वा स्वमत्या कार्यं साधयति सा निसृष्टार्था दूती तस्याः कल्पो व्यापारः । प्रस्तावनीय इत्यर्थः । दूती च विविधा । यदा—'निसृष्टार्था मितार्था च तथा शा- सनहारिका । सामर्थ्योत्पादिता हीना दूती तु विविधा मता ॥' इति । शरदि- त्यादि । सा मालती तं माधवं नन्दयतु प्रीणातु । यथा शरच्चन्द्रिका कुमुदं नन्द- यति । यथा चन्द्रिकाकुमुदयोर्नित्यं प्रीतिस्तथा तयोरप्यस्त्विति भावः । कीदृशम् । कान्तं रम्यम् । सुजातं शोभनजन्मानम् । शोभनता च गुणवत्त्वेन । यद्वा कान्त- मन्यस्त्रीभोगचिह्नशून्यम् । यदाह भरतः—'अन्यस्त्रीभोगसंभूतं चिह्नं यस्य न विद्यते । देहे वाप्यधरे वापि स कान्त इति कीर्तितः ॥' सा कीदृशी । कल्याणी निरवद्या । स च युवा कल्याणी विवाहकल्याणयोगी संख्यां प्राप्य कृतकृत्यः कृ- तार्थो भवतु । युवेत्यनेन कन्यायां मदनमदोद्दीपकतायोग्यत्वमुक्तम् । एवं सति वि- धातुः प्रयत्नः सफलो भवतु मनोहरश्च भूपनन्दनाविरोधेन सर्वावर्जकोऽस्त्वित्यर्थः । कीदृशः । अन्योन्यं कामिनोः प्रगुणा अनुरूपा ये गुणास्तेषां निर्माणे कुशलोऽत एव वरीयाञ्छेष्ठो गरीयान्गुरुर्वा । यद्वा अन्योयं प्रगुणा उत्कृष्टा ये गुणास्तेषां निर्माणे