मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 26, कुल 377 में से
संदर्भ में पढ़ें१८ मालतीमाधवे णादिदूरमसाणवासिणो साधअस्स मुण्डंधारिणो अघोरघण्टणामहेअस्स अन्तेवासिणी महापहावा कवालकुण्डला णाम अणुसंज्झं आगच्छइ । तदो इअं पउत्ति । कामन्दकी—सर्वं हि सौदामिन्यां संभाव्यते । अवलोकिता—१अलं दाव एदिणा । भअवदि, सो वि पासअरो माहवस्स बालमित्तं मअरन्दो णन्दणस्स भइणिं मदअन्तिअं जइ समुव्वहइ तं वि माहवस्स दुइअं पिअं होदि । कामन्दकी—नियुक्तैव तत्र मया प्रियसखी बुद्धरक्षिता । अवलोकिता—२सुविहिदं भअवदीए । कामन्दकी—तदुत्तिष्ठ । माधवप्रवृत्तिमुपलभ्य मालतीमेव पश्यावः। (इत्युत्तिष्ठतः ।) कामन्दकी—(विचिन्त्य ।) अत्युदारप्रकृतिर्मालती नाम । निपुणं निसृष्टार्थदूतीकल्पस्तन्त्रयितव्यः । सर्वथा मुण्डधारिणोऽघोरघण्टनामधेयस्यान्तेवासिनी महाप्रभावा कपालकुण्डला नामा- नुसंध्यमागच्छति । तत इयं प्रवृत्तिः । १. अलं तावदेतेन । भगवति, सोऽपि पार्श्वचरो माधवस्य बालमित्रं मकरन्दो नन्दनस्य भगिनीं मदयन्तिकां यदि समुद्वहति तदपि माधवस्य द्वितीयं प्रियं भवति । २. सुविहितं भगवत्या । नातिदूरश्मशानवासिनः साधकस्य मन्त्रसाधनोद्यतस्य मुण्डधारिणो नरशिरःकपा- लधारिणोऽघोरघण्टनामधेयस्यान्तेवासिनी महाप्रभावा कपालकुण्डला नामानुसं- ध्यमागच्छति । तत इयं प्रवृत्तिर्वार्ता । मया श्रुतेति शेषः ॥ कामन्दकी । सर्वमिति । संभाव्यत इति । अनेनोत्तरत्र सौदामिनीसाध्यान्यद्भुतानि सूचि- तानि ॥ अवलोकिता—अलं तावदेतेनालं तावदनुपयुक्तेनाघोरघण्टवृत्ता- न्तकथनेनेत्यर्थः । भगवति, सोऽपि पार्श्वचरो माधवस्य बालमित्रं मकरन्दो नन्दनस्य भगिनीं मदयन्तिकां यदि समुद्वहति तदपि माधवस्य द्वितीयं प्रियं भवति । अनेनोपनायकस्य मकरन्दस्य गर्भसंधौ पताकावृत्तान्तः सूचितो भवति ॥ कामन्दकी । नियुक्तेति । तदपि मया पूर्वमेवानुसंहितमित्यर्थः । अवलो- किता—सुविहितं भगवत्या ॥ कामन्दकी । तदिति । माधवप्रवृत्तिमुपलभ्य किं मदनोद्याने तयोरन्योन्यदर्शनमभून्न वेति वार्तां ज्ञात्वेत्यर्थः । मालतीमेव पश्यावः। कुलकुमारीजनानुचिते ह्यस्मदुपदिष्टे स्वयमात्मप्रदानसाहसे यथासौ नाशङ्कते तथा नैवातिपरिचयेन वशीकर्तव्येति भावः ॥ कामन्दकी । विचिन्त्येति । कीदृशं