मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 27, कुल 377 में से
संदर्भ में पढ़ेंशरज्ज्योत्स्ना कान्तं कुमुदमिव तं नन्दयतु सा सुजातं कल्याणी भवतु कृतकृत्यः स च युवा । गरीयानन्योन्यप्रगुणगुणनिर्माणनिपुणो विधातुर्व्यापारः फलतु च मनोज्ञश्च भवतु ॥ १९ ॥ (इति निष्क्रान्ते ।) मिश्रविष्कम्भः । (ततः प्रविशति गृहीतचित्रफलकोपकरणः कलहंसः ।) कलहंसः—केहिं दाणिं तुलिअमअरद्धआवलेवरूवविब्भमा- १. केदानीं तुलितमकरध्वजावलेपरूपविभ्रमाक्षिप्तमालतीहृदयमाहात्म्यं दूत्यमाचरणीयमिति । विमृश्य । निश्चिनोतीति शेषः । अत्युदारातिगम्भीरा प्रकृति- र्यस्याः सा । तथा गाम्भीर्यं च—'यस्य प्रभावादाकारा हर्षक्रोधभयादिषु । भावेषु नोपलक्ष्यन्ते तद्गाम्भीर्यं प्रकीर्तितम् ॥' इत्युक्तरूपम् । तेन मालत्यतिगम्भीरप्र- कृतित्वाच्चरमावस्थायामपि स्वाभिप्रायं स्वयं न निवेदयतीति हेतोर्निपुणं यथा स्यात्तथा निसृष्टार्था या दूती तस्याः कल्पो या व्यापारपद्धतिस्तन्मन्त्रयितव्यः प्रधा- नीकर्तव्यः । प्राधान्येनाश्रयणीय इत्यर्थः । निसृष्टो निक्षिप्तः 'त्वमेव वेत्सि सर्वं कृत्यम्' इति समर्पितोऽर्थः । कार्यभारो यस्यामिति व्युत्पत्त्या स्वतन्त्रकार्यनिर्वाहि- का दूती कथ्यते । तदुक्तम्—'रूढानुरागयोर्यूनोरभिलाषं मनोगतम् । ज्ञात्वा ताभ्यामनादिष्टा तदपेक्षितसिद्धये ॥ या प्रवर्तेत सा प्रोक्ता निसृष्टार्थेति कोविदैः । निसृष्टः कार्यभारोऽस्यामिति व्युत्पत्तिसंभवात् ॥' इति । अवाच्यकौटिल्यो यत्कृताः संध्यादयः प्रमाणं स निसृष्टार्थो दूतः। यथा भगवान्पाण्डवानामिति ॥ इदानीं स्वव्या- पारसाफल्यमाशास्ते—सरथेति । शरज्ज्योत्स्नेति । कल्याणी मनोहराकारानु- गुणशीलसंपन्ना सुजातं सुजन्मानं कान्तं स्वप्राणनायकं शारदचन्द्रिकाकुमुदमिव समानुरागसंघटने दृष्टान्तः । नन्दयतु निरतिशयानन्दसमृद्धं करोतु । तेन स च युवा कृतपुण्यश्चरितार्थो भवतु । उभयोः समानुरागत्त्वेन स च तां नन्दयतु । सा च कृतकृत्या भवतीत्ययमर्थोऽर्थाल्लभ्यते । तं चकारो द्योतयति । एवं च सति गरीयान्गुरुतरोऽन्योन्यस्य परस्परस्य प्रगुणा अनुगुणा ये गुणास्तेषां निर्माणे निपुणो विधातुर्व्यापारः फलतु तत्संघटनलक्षणेनैव फलेन फलवान्भवतु । मनोज्ञः सर्वजनश्लाघ्यो भवतु । तादृगन्योन्यानुरूपनिर्माणस्य तयोः संघटनमेव फलम् । अन्यथा व्यर्थमेव स्यात् । यदाह कालिदासः—'परस्परेण स्पृहणीयशोभम्' इत्यादिश्लोकेन । अत्रोपमोपस्तुत्यमन्योन्यमलंकारः । अत्र परस्परानुरागस्य बीज- स्यानुरूपेण स्तुतेर्विलोभनं नामाङ्गम् । यथा—'तद्गुणाख्या विलोभनम्'इति ॥१९॥ मिश्रविष्कम्भोऽयम् । नीचमध्यमपात्रप्रयोजितत्वादिति ॥ 'माधवानुचरः कलहंसो नाम' इति वाक्ये सूचितमुपदर्शयन्नङ्कमरभते—तत इत्यादि । अङ्कलक्षणं