भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 265, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 265

अङ्कः १ ] मालतीमाधवटीका । १७ पृ० प० २२ ५ ॰प्लवनादिवाभूत् । ८ 'इत इतः' इत्यस्याग्रे मा- धवः—(परिक्रम्य ।) कथं प्रियवयस्यो मम मकरन्दः । मकरन्दः—(उपसृत्य ।) सखे माधव, ळ०' इत्य- धिकम् । ८ ॰तपति तपनः । त० ९ माधवः— यदभिरुचितं वयस्याय । (इत्युभावुपविशतः ।)' इत्यधि- कम् । १० ॰बालवउलुज्जाणं० । शान्तरयोगो विकारस्तद्योगि यौवनम् । अयं तु युवेत्यर्थः । अत्र भ्रमतिपदेनाव- च्छिन्नक्रियता, तद्वारा सर्वकालता, भुवपदेन सर्वदेशता, आज्ञापदेन युक्तिजि- ज्ञासां विना स्वीकारः, विकारिपदेन माधवाङ्गीकारिता च ध्वनिता । ललिताः सुन्दरा मधुराः परिभाव्यमानास्ते ते प्रसिद्धा भावा रमणीवदनविभ्रमादयो धी- रतां धैर्यं क्षिपन्त्यपनयन्ति । तदनेन कामकृतमेतदुन्नीयत इति भावः । 'प्रकृ- तिमधुराः' इत्यपि पाठः । तत्र प्रकृत्या स्वभावत एव मधुरा मनोहराः ॥ २० ॥ माधवप्रवेश इह द्विपदिकया । यदाह—'शोकविभ्रमयुक्ते तु व्याधिचिन्तासमा- श्रिते । श्रुतवार्तादिवैरूप्ये योज्या द्विपदिका बुधैः ॥' इति । स्वगतमिति । 'यत्त श्रव्यं न सर्वस्य स्वगतं तदिहोच्यते' इति भरतः ॥ अनुस्मृतिमाह— तामित्यादि । तां नायिकामचिरमधुनैव विचिन्त्य कथं मम चेतः । कर्तृ । कथमपि महता कष्टेन व्यपवर्तते व्यावर्तते नागच्छति वा । तस्यां लग्नं तामेव धावतीत्यर्थः । किं कृत्वा । बालत्वेन कुलीनत्वेन च या लज्जा तामकाण्ड ए- वाप्रस्ताव एव विजित्य । रभसकाल एव हि लज्जाद्यभावप्रस्ताव इति भावः । विनयं मनोमलक्षालनोपदेशं दूरीकृत्य । महानायकताया सहजिकं धीरत्वमु- न्मूल्य । कीदृशम् । मन्थरो मन्दो विवेक इतिकर्तव्यता यत्र तत् । क्रिया- विशेषणं वा कीदृशम् । इन्दोश्चन्द्रात्सुन्दरं मुखं यस्यास्ताम् । वैयधि- करण्येऽपि गमकत्वात्समासः । इह तामित्यनुस्मृतिः, इन्दुसुन्दरेति गुणकीर्तनम्, विभाव्येति चक्षुःप्रीतिः, कथमपीत्युद्वेगः, लज्जां विजित्येत्युन्मादः, मन्थरविवेक- मिति जडतेत्यनेकावस्थोक्ता ॥ २१ ॥ यदित्यादि । तत्संनिधौ यन्मदीयं हृदयं विस्मयेनाद्भुतरसेन स्तिमितं निश्चलम् । एतेन स्तम्भ उक्तः । अत- एवास्तमितो नाशं प्रापितोऽन्यो भावो विस्मयातिरिक्तो धर्मो यत्र तत् । अ- नेन जडतोक्ता । यदाह—'इष्टं त्वनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् । तूष्णीकः परवशगः स भवति जडसंज्ञकः पुरुषः ॥' आनन्देन निरन्तरसुखेन मन्दं मन्थरं चाभूत् । अमृतप्लवनादिव सुधासेकादिव । अथ च योगाभ्या- सेन कुण्डलिन्याचरणेनामृतसेकादिवेत्यर्थः । तत्रापि परमानन्दसंदोहो भवत्येव एतेनाद्भुतनायिकादर्शनजातभावभरमन्थरता दर्शिता तद्धृदयमधुना तद्वियोगे- ऽङ्गारक्षुभितमिवाङ्गारावसृष्टमिव व्यथमानं पीडायुक्तमास्त इत्याश्चर्यम् । न च