भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 266, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 266

९४ जगद्धरकृता । [अं० १ पृ० पं० २३ १ ०अहवा मुहुत्तं वि० ४ ०काञ्चनारपा० । ६ ०माधव, अद्य किल स० । ७ ०रा ममदनोद्य० ८ ०अपि नाम मनागवति० । ०गोचरम् । १० तत्किमवनतमु० । १२ ०जन्तुषु रजस्तम० १३ ०परमेश्वरे च । २४ २ ०यतनम् । तत्र चैतस्त० । ०परिक्रम्यावलोक्य च प० । प्रियासङ्गे सुखं तद्वियोगे दुःखमिति दृष्टचरमेव तत्कथमाश्चर्यमिति वाच्यम् । अन- नुभूतरसस्य तस्य शिशुत्वेन किमिदं यदकाण्ड एव व्यथेति तत्संभवात् ॥ २२ ॥ मकरन्दः। इतः। इहागच्छेत्यर्थः । आद्यादित्वात्तसिः। एतेन माधवस्य बाह्यार्थो- प्रहन्निन्द्रियादर्शनं सूचितम् ॥ मकरन्दः। ललाटं तपति ललाटंतपः । 'असूर्यल्ल- लाटयोः' इति खश्प्रत्ययः । खितान्मुम् । माधवीयमनमथोन्मादमपहोतुकामस्येदं वचनम् ॥ माधवः । वयस्यायेति । 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानता । कलहंसः । अत्र मकरन्देन पुष्परसेन सहचरो माधवो वसन्तो बालबकुलमलं- करोतीति ध्वनिरप्युन्मिषति । मुहूर्तं चेत्यत्र सुस्थिते चित्ते वक्तुं युक्तमिति भावः ॥ मकरन्दः । उत्फुल्लपुष्पाणां ये केसराः किञ्जल्कास्तैः कषायो लोहितः शीत- ळश्च य आमोदस्तेन वासितं सुगन्धीकृतमुद्यानं येन तस्य । 'कषायः सुरभौ लो- हितेऽन्यवत्' इति मेदिनीकारः । कषायादिसंबन्धेन सौरभस्यातिगभीरतोक्ता । आमुद्यतेऽनेनेत्यामोद इति । कषायादिसंपदे काञ्चनारेत्युक्तम् ॥ प्रवर्तितः कृतः । अभिरामेति यात्रान्वयि । इह मकरन्दवचनेन नर्मरूपा प्रतिमुखसंधिरुक्ता । यदाह—'शृङ्गारार्थं त्रपाकारि वाक्यं गोष्ठिषु नर्म तत्' इति । अपिः समुच्चये । नाम संभावनायाम् । इदं संभाव्येतापीत्यर्थः । मनागल्पम् । रतिरमणः कामः ॥ मकरन्दः । मुग्धं किंकर्तव्यताशून्यम् । पुण्डरीकं सितपद्मम् । विरहधूसरत्वेन मुखस्य पुण्डरीकसाम्यम् । तस्य लज्जयाकथनमाशङ्क्याह—अन्येष्वित्यादि । माधव, तवापह्नुतिर्लज्जया कथंचिदपि मा भूत् । लज्जयापह्नवं मा कृथाः। एवमप्र- तीकारः स्यादिति भावः । खलु यतः सोऽयं चित्तजन्मा कामः प्रख्यातपौरुषः । चित्तोन्माथविषय इति भावः । कीदृशः । विश्वस्य धातरि जगत्स्रष्टरि परमेश्वरे हरेऽन्येषु जन्तुषु मानुषादिषु च रजस्तमोगुणप्रधानेषु समस्तुल्यव्यापारः । यद्वा अन्येषु मानुषादिषु रजस्तमसावृतेषु च तिर्यग्योनिषु विश्वस्य धातरि ब्रह्मणि पर- मेश्वरे हरे च सम इति भिन्नमेव योज्यम् । अतो लज्जां त्यक्त्वा कथयेति भावः ॥ २३ ॥ माधवः । परिश्रममास्थित इत्यन्वयः। परिश्रममास्थितोऽहं न तु साका- ङ्क्षादिति भावः । मदिरामोदवन्मनोहरो यः परिमलः शुभगन्धः । 'स्याच्छुभ्र- गन्धे परिमलः' इति विश्वः । मिलन्मीलितम् । संकुलेन व्यासाकुलिता या बकु- लमुकुलावली विकासाभिमुखकलिका राजिः सैव मनोहरमाभरणं तेन रमणीयस्य ।