मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 266, कुल 377 में से
संदर्भ में पढ़ें९४ जगद्धरकृता । [अं० १ पृ० पं० २३ १ ०अहवा मुहुत्तं वि० ४ ०काञ्चनारपा० । ६ ०माधव, अद्य किल स० । ७ ०रा ममदनोद्य० ८ ०अपि नाम मनागवति० । ०गोचरम् । १० तत्किमवनतमु० । १२ ०जन्तुषु रजस्तम० १३ ०परमेश्वरे च । २४ २ ०यतनम् । तत्र चैतस्त० । ०परिक्रम्यावलोक्य च प० । प्रियासङ्गे सुखं तद्वियोगे दुःखमिति दृष्टचरमेव तत्कथमाश्चर्यमिति वाच्यम् । अन- नुभूतरसस्य तस्य शिशुत्वेन किमिदं यदकाण्ड एव व्यथेति तत्संभवात् ॥ २२ ॥ मकरन्दः। इतः। इहागच्छेत्यर्थः । आद्यादित्वात्तसिः। एतेन माधवस्य बाह्यार्थो- प्रहन्निन्द्रियादर्शनं सूचितम् ॥ मकरन्दः। ललाटं तपति ललाटंतपः । 'असूर्यल्ल- लाटयोः' इति खश्प्रत्ययः । खितान्मुम् । माधवीयमनमथोन्मादमपहोतुकामस्येदं वचनम् ॥ माधवः । वयस्यायेति । 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानता । कलहंसः । अत्र मकरन्देन पुष्परसेन सहचरो माधवो वसन्तो बालबकुलमलं- करोतीति ध्वनिरप्युन्मिषति । मुहूर्तं चेत्यत्र सुस्थिते चित्ते वक्तुं युक्तमिति भावः ॥ मकरन्दः । उत्फुल्लपुष्पाणां ये केसराः किञ्जल्कास्तैः कषायो लोहितः शीत- ळश्च य आमोदस्तेन वासितं सुगन्धीकृतमुद्यानं येन तस्य । 'कषायः सुरभौ लो- हितेऽन्यवत्' इति मेदिनीकारः । कषायादिसंबन्धेन सौरभस्यातिगभीरतोक्ता । आमुद्यतेऽनेनेत्यामोद इति । कषायादिसंपदे काञ्चनारेत्युक्तम् ॥ प्रवर्तितः कृतः । अभिरामेति यात्रान्वयि । इह मकरन्दवचनेन नर्मरूपा प्रतिमुखसंधिरुक्ता । यदाह—'शृङ्गारार्थं त्रपाकारि वाक्यं गोष्ठिषु नर्म तत्' इति । अपिः समुच्चये । नाम संभावनायाम् । इदं संभाव्येतापीत्यर्थः । मनागल्पम् । रतिरमणः कामः ॥ मकरन्दः । मुग्धं किंकर्तव्यताशून्यम् । पुण्डरीकं सितपद्मम् । विरहधूसरत्वेन मुखस्य पुण्डरीकसाम्यम् । तस्य लज्जयाकथनमाशङ्क्याह—अन्येष्वित्यादि । माधव, तवापह्नुतिर्लज्जया कथंचिदपि मा भूत् । लज्जयापह्नवं मा कृथाः। एवमप्र- तीकारः स्यादिति भावः । खलु यतः सोऽयं चित्तजन्मा कामः प्रख्यातपौरुषः । चित्तोन्माथविषय इति भावः । कीदृशः । विश्वस्य धातरि जगत्स्रष्टरि परमेश्वरे हरेऽन्येषु जन्तुषु मानुषादिषु च रजस्तमोगुणप्रधानेषु समस्तुल्यव्यापारः । यद्वा अन्येषु मानुषादिषु रजस्तमसावृतेषु च तिर्यग्योनिषु विश्वस्य धातरि ब्रह्मणि पर- मेश्वरे हरे च सम इति भिन्नमेव योज्यम् । अतो लज्जां त्यक्त्वा कथयेति भावः ॥ २३ ॥ माधवः । परिश्रममास्थित इत्यन्वयः। परिश्रममास्थितोऽहं न तु साका- ङ्क्षादिति भावः । मदिरामोदवन्मनोहरो यः परिमलः शुभगन्धः । 'स्याच्छुभ्र- गन्धे परिमलः' इति विश्वः । मिलन्मीलितम् । संकुलेन व्यासाकुलिता या बकु- लमुकुलावली विकासाभिमुखकलिका राजिः सैव मनोहरमाभरणं तेन रमणीयस्य ।