भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 278, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 278

३० जगद्धरकृता [ अङ्कः १ पृ० प० ४६ ८ मासक्ति० । ४७ ६ इति बकुलवीथिनाम प्रथमोऽङ्कः । त्यर्थः । मम गात्रं शरीरम् कर्तृ । रणरणकस्य वियोगतरोर्वृद्धिमुपचयं बिभ्र- दावर्ति भ्राम्यदस्ति । यद्वा रणरणः कामस्तस्य विवृद्धिअधिकाधिकदशागामित्वम् । 'भारो रणरणः कामो विषयः' इत्युत्पलिनी । तथा मम हृदयम् । कर्तृ । अन्त- र्दहति । ज्वलतीत्यर्थः । तन्मयत्वं मालतीमयत्वं च धत्ते ॥ ईदृशी मम दशा सद्य एव विपत्तिमादधाति । तदत्र यथावत्त्वमाचरेति भावः । अत्रावर्तीति व्याधिः । ज्वलतीत्युद्वेगः । तन्मयत्वमित्युन्मादः । हृदयस्य तु तन्मयत्वधारणेन दुःसहदशायामपि जीवनाशा दर्शिता । 'करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि' इत्यमरः ॥ ४४ ॥ निष्क्रान्ता इति । बीजार्थं युक्तं कृत्वा निष्क्रमो भवति । यदाह—'बीजार्थं युक्तियुक्तं च कृत्वा कार्यं यथारसम् । निष्क्रमं तत्र कुर्वीत सर्वेषां रङ्गवर्तिनाम् ॥' इति ॥ बकुलवीथीति । 'नानारससमायुक्ता संधि- द्वयविभूषिता । अर्थप्रकृतिभिः पूर्णा स्यादेकाङ्का तु वीथिका ॥ त्रिभिः पात्रैः प्रयोज्येयमुत्तमाधममध्यमैः । कर्तव्या नायिका चात्र शृङ्गारद्वयसंयुता ॥' इति भरतः ॥ प्रासूत यं रत्नधरो गुणाढ्यो गुणाढ्यरूपा दमयन्तिका च । जगद्धरं तत्कृतटिप्पणेऽङ्को गतोऽयमाद्यो रसराजराजी ॥ इति प्रथमोऽङ्कः ।