मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 277, कुल 377 में से
संदर्भ में पढ़ेंअनेन नायिकायाः सुकुमारतया निःसहत्वमुक्तम् । मालत्याः कन्यात्वेन पत्रा- वल्यभावात्परिजनेत्युक्तम् । माङ्गल्यतया प्रातरेव कुङ्कुमेन पत्रावलीलिखनम् । अत एव वसन्तकालस्य शीतत्वात्कुङ्कुमेन भूषाकरणमिति मतमपास्तम् । 'धारा- सिक्तवसुंधरासुरभयः' इत्यभिधानाद्वर्षाकालप्रस्तावात् । 'समूहे निवहव्यूहसंदोह- विसरव्राजाः' इत्यमरः । इहोन्मादावस्था । अत एवात्र तत्संबद्धा कथा । यदाह— 'तत्संबद्धां कथां युङ्गे सर्वावस्थागतामिह' इति ॥ ४० ॥ उन्मीलदिति । हे पवन, उन्मीलन्मुकुलेन विकचकोरकेण करालाद्विषमात्कुन्दगुच्छात्क्षरन्निबिडम- करन्दश्च तयोर्बन्धो । मकरन्दस्य यो गन्धस्तद्वन्धो । तत्सहचरेति वा । ईदृ- शोऽपि त्वं मे न सुखाय किंतु तापाय अतस्तां मालतीमीषदालिङ्ग्य ममाङ्गमङ्गं प्रत्यङ्गं स्पृश । अमृतमय तदङ्गसङ्गशीतस्त्वं मम तापशान्तये भविष्यसीति भावः । यद्वा तदीयतापशान्तिर्भवेदित्यनुरागात्तामालिङ्ग्येत्युक्तम् । तां कीदृ- शीम् । प्रचलनेत्रां विरहे पवनस्य दुःसहत्वेन भयादितस्ततः क्षिप्तनेत्राम् । अत एव नम्रीभवदङ्गां च । इह विषमकुन्दकोशसंचरणेन गतिप्रतिबन्धान्मान्- द्यम्, मकरन्दसङ्गाच्छैत्यम्, गन्धबन्धुतया सौगन्ध्यं च वायोरुक्तम् । ईषदा- लिङ्ग्य नयनेन सुरभिपदेनाभिघातनिःसहत्वं मालत्यामुक्तम् । 'करालो दन्तुरे तुङ्गे' इत्यमरः ॥ ४१ ॥ माधवस्स्वानङ्गदुःसहत्वमाह—अभिहन्तीत्यादि । एष स्मरोऽनवग्रहः प्रतिरोधशून्यः कोमलकायं माधवं कथमचिरेणैवाभिहन्ति । हन्तानुकम्पायाम् । 'हन्त हर्षेऽनुकम्पायाम्' इत्यमरः । कीदृशः । विकृतस्य भावो वैकृतम्, तस्य विवर्तोऽन्यथावसानं तेन दारुणो दुःखदः । यथा कलभं करिबालकं मृदुकायं कठोरो दुःसहः कूटपाकलो हस्तिवातज्वरोऽचिरेण हन्ति तथेत्यर्थः । सोऽप्यनवग्रहोऽप्रतिकरणीयो विकृतिविवर्तदारुणश्च भवति । 'गजं वातज्वरो हन्ति तथा वै कूटपाकलः' इति वैद्यके ॥ ४२ ॥ माधवः । इदं स्वगतम् । स्वयमनध्यवसायादाह—तदत्रेति । अत एव भगवती ज्ञानसंपन्नेह शरणं रक्षिका । द्वितीयाङ्कावतारोऽयम् । यदाह—'अङ्कावसाने यत्रैव भावि- नोऽङ्कस्य सूच्यते । वस्तुबीजमुपोद्घातैः सोऽङ्कावतर इष्यते ॥' इदानीमुन्मादा- वस्थोद्भावनावलात्तन्मयत्वमाह—पश्यामीत्यादि । तामेकामेव विवर्तमानां प्रपञ्चरूपां परितः सर्वत्र पश्यामीत्याश्चर्यम् । विवर्तमानत्वमेवाह । इत इत उभ- यपार्श्वे । पुरतोऽग्रे । पश्चात्पृष्ठे । अन्तर्मनसि । बहिस्त्वग्भागे । अनेन तदावेशा- त्सर्वत्र तन्मयत्वमुक्तम् । यदाह—'यो येन भावेनाविष्टः सुखदेनेतरेण वा । स तदाहितसंस्कारः सर्वं पश्यति तन्मयम् ॥' परित इत्यत्र 'पर्यभिभ्यां च' इति तसिः । कीदृशीम् । वक्त्रं वहन्तीम् । उद्बुद्धं विकसितं मुग्धं कान्तं यत्सुवर्णपद्मं ततो निरतिशया भा दीप्तिर्यस्य तत् । तन्निभं तत्तुल्यमिति वा । एतेन गौरीत्व- मुक्तम् । आसङ्गेन मय्यासक्त्या तिर्यगपवर्तिता दृष्टिर्यस्य तत् । यथा यान्त्या तयाहं दृष्टस्तथैव तां पश्यामीति भावः ॥ ४३ ॥ अधुना सर्वाकारेण पीडा- माह—प्रसरतीत्यादि । वयस्य, पश्य । संप्रति मम कोऽप्यनिर्वचनीयस्वरूपो देहदाहः प्रसरति व्याप्नोति । अत एव परिमाथी सर्वतो मथनशीलः । करणाना- मिन्द्रियाणामर्थग्राहकत्वं मे प्रमोहस्तिरयति पिदधाति । सर्वेन्द्रियसंमोहो ममे-