मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 276, कुल 377 में से
संदर्भ में पढ़ें२८ जगद्धरकृता [ अङ्कः १ पृ० प० ४२ ५ (प्रविश्य सत्वरम् ।) । ६ कलहंसअ, अप्पा० । णेण उवल० । ४३ १ (माधवमकरन्दौ विलोक्य सत्व० ।) । ३ ष्कृत आस्यताम् । ४ (उपविश्य ।) कल० । १२ प्भाअ, अह इं । ४४ ८ ०वयस्य, खरतरकिरणोऽयं भगवान्सहस्रदीधितिरलंक- रोति मध्यमह्नः । त० । मेव गच्छावः । देशविशेषे च जयशालिन आनन्दसन्दोहदा इत्युक्तम् । भाव्यन्ते भावनामर्हन्ति सुन्दरतयेति भावः । मालतीमित्राः सहृदयाह्लादकाः । ते त इति वीप्सया चन्द्रादयो देवादयश्च प्रसिद्धा एवेति दर्शितम् । सर्वनाम्ना च ये यत्र चेतःप्रति- ष्ठास्ते तत्र गृह्यन्त इति ध्वनितम् । तुशब्देनान्येषां तथात्वं तत्संप्रतिपत्तिद्वारे- त्युक्तम् । कस्तर्हि मदहेतुरत आह-मम पुनरियं चित्रलिखिता मालती नयनयो- र्ज्योत्स्ना यन्नेत्रगोचरं प्राप्ता स एवैकोऽत्र जन्मनि महोत्सवः । अत्र किं पुनः संभोगादिकमित्यनुरागः । स एव महोत्सवः । अनुरागो भवतु मा वा भूदित्यु- पालम्भः । एतेनात्यन्तानुरागो मालत्यां दर्शितः । एकपदेनान्येषामविभोवेऽपि नानन्दकत्वम् । अत एव स एवैत्यनेन तत्पोषः । जन्मनीति सामान्यनिर्देशेन समस्तजन्मनि मालतीतुल्या नास्तीति व्यज्यते । वाचिकोऽयं रसः । यदाह- 'रसानुरूपैरालापैः श्लोकैर्वाक्यैः पदैस्तथा । नानालंकारसंयुक्तैर्वाचिको रस उ- च्यते ॥' इति । इह प्रकृतिमधुरत्वेऽपि मालत्या एव मदजननाद्व्यतिरेकालंकारः । प्रियाख्यानात्प्रियोऽलंकारः । विलोचनचन्द्रिकेति रूपकम् । न चात्र नवेन्दुकला प्रतिपच्चन्द्रकला, सा च न मदहेतुरिति वाच्यम् । यतो नूत इति नवः प्रश- स्तेन्दुरित्यर्थः । यद्वा नवं नूतनमिन्दुकलादिकं चेति द्वन्द्वः । यद्वा नवः सागरा- दुत्थितमात्रः । पूर्ण एवेत्यर्थः ॥ ३९ ॥ प्रविश्येति । यत्र पटीक्षेपेण प्रवेश- स्तत्र प्रविश्येत्युक्तिः । अनुसारोऽनुसरणम् । एतेऽपि ये चित्रफलके लिखिताः । इह गौरवादेकत्वे बहुवचनम् । द्वित्वे वा बहुवचनम् ॥ कलहंसः । अभिलि- खित इति शेषः । तथा च मालत्या विनोदाय माधवो लिखितस्तेनापि सा तदर्थं लिखितेत्यर्थः ॥ मन्दारिका । अत्र विज्ञानं शिल्पकौशलम् । अनुरूपानुरा- गादनयोरिति भावः । अवितथं सत्यम् । एवमेतन्मालत्यैव माधवप्रतिच्छन्दकं लिखितमित्यर्थः । दृष्टवतीत्यर्थः । लवङ्गिकया द्वारा माधवानुरागो मालत्याम- स्तीत्यर्थः ॥ मकरन्दः । संस्थायो गृहम् । 'संस्थायः संनिवेशे च संघातेऽपि च दृश्यते' इति मेदिनीकारः ॥ घर्मेत्यादि । मालत्याः परिजनवारसुन्दरीणां कपोलकुङ्कुमानि प्रातर्विरचितविचित्रपत्रावलीवैदग्ध्यं यत्तदधुना मध्याह्ने जहति त्यजन्ति । कैः । धर्माम्भसो विसरस्य समूहस्य विवर्तनैर्विविधजलकणैः करणैः ।