भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 275, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 275

अङ्कः १ ] मालतीमाधवटीका । ३७ पृ० प० ४० ३ ॰केनैनन्माधवस्य प्रतिच्छन्दकमभि० । ७ ॰ते वितर्कः ८ ॰कलहंसक, कु० । १३ ॰विणोदो त्ति । १४ ॰स्य माधव, सर्वथा समा० । ४१ ४ ॰द्रष्टव्यस्वरूपा० । ॰लिख्यतां मालती । ५ ॰स्याय तदुपनेय चित्रफलकं चित्रवर्तिकाञ्च । (मकरन्द उपनयति ।) (लि०) । ६ ॰दृशोरुद्गमं वा० १० तथापि व्यवसितो० । ११ ॰तोऽभिष्वङ्गः । लिखितमित्यर्थः ॥ कलहंसः । अथ किं स्वीकारे ॥ माधवः । वितर्क ऊहः ॥ मकरन्दः । अधिगमः प्राप्तिः ॥ कलहंसः । उत्कण्ठाविनोद इति । माधवानुरक्ता मालती तमनुप्राप्तवती चित्रलिखितालोकनेनापि रमत इति भावः ॥ येत्यादि । हे सखे, तत्संगमं प्रति नैव संशयोऽस्ति । भवतो नयन- योर्या कौमुदी ज्योत्स्ना आनन्दकारित्वात् । तस्या मनोरथबन्धबन्धुरमिलाषनि- बन्धाय प्रियः शोभनजन्मा भवानपि । ननु परस्परानुरागेऽपि विधिकामवै- मुख्यान्न सिद्धिरत आह—यस्मिन्संगमे विधिमदनौ कृतप्रयत्नौ । चक्षुःप्रीत्या कामः, एतद्देशानयनाद्विधिः कृताभियोग इत्यर्थः । अभियोगाच्च कन्यालाभः । यदाह—'अभियोगाद्धि कन्याया लाभो निश्चित एव च' ॥ ३७ ॥ चित्रेण मा- धवचित्तानुरागमुद्दीपयति—द्रष्टव्येति । माधवः । वयस्यायेत्यत्र 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानता । अधुना मनःसङ्गे हर्षात्सात्त्विकभावमाह—वारं- वारमित्यादि । अयं मम पाणिर्लेखाविधिषु चित्रनिर्माणेषु नितरामसमर्थ वर्तत एव न तु लिखति । अत्र किं करोमि । यथा तथा लिखामीत्यर्थः । 'न तराम्' इति पाठे नैव वर्तत इत्यर्थः । यतो बाष्पपूरस्तदनुध्यानादानन्दाश्रुप्रवाहो वारं- वारं दृशोरुद्गमं प्रचारं तिरयति च्छादयति । तस्याः संकल्पेन चिन्तनेनोपहितो ज- डिमा सर्वकार्याप्रतिपत्तिर्यस्य तद्गात्रं शरीरं स्तम्भं निश्चलत्वमभ्येति । 'हर्षरोगभय- विस्मयविषादमददोषसंभवः स्तम्भः' इति भरतः । कीदृशः सद्यो लिखनोपक्रम- काल एव स्विद्यन्नार्द्रीभवन् । अविरतोत्कम्पेनाधिकचलनेन लोलाङ्गुली यत्र सः । अङ्गुल्या लिखनहेतुतया तच्चापल्यादलिखनं सूचितम् । तदिहाश्रुस्तम्भस्वेदकम्पा उक्ताः । रोमाञ्चादिकं च नोक्तम् । तेषां लिखनाप्रतिकूलत्वात् । सर्वमिदं सा- त्त्विकं हर्षात् । यदाह—'क्रोधभयहर्षलज्जादुःखभ्रमरोगतापपीडाभ्यः । व्याया- मसाध्वसादेः स्वेदः स्यात्पीडनेनापि ॥ शीतभयहर्षरोथस्पर्शजरारोगजः कम्पः ॥' इति ॥ ३८ ॥ अधुना मालती चित्रं द्रक्ष्यतीति सानुरागोपालम्भं श्लोकं लि- खति—जगतीत्यादि । ते ते नवेन्दुकलादयो भावाः पदार्था जयिनो मदज- नने सर्वत्राप्रतिहताः स्वभावतो मनोज्ञा अन्ये सन्त्येव ये मनो मदयन्ति । मम पुनर्न मदहेतवः प्रत्युत दाहहेतव एवेति भावः । अत्र जयिन इत्यनेन कालविशेषे