मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 275, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः १ ] मालतीमाधवटीका । ३७ पृ० प० ४० ३ ॰केनैनन्माधवस्य प्रतिच्छन्दकमभि० । ७ ॰ते वितर्कः ८ ॰कलहंसक, कु० । १३ ॰विणोदो त्ति । १४ ॰स्य माधव, सर्वथा समा० । ४१ ४ ॰द्रष्टव्यस्वरूपा० । ॰लिख्यतां मालती । ५ ॰स्याय तदुपनेय चित्रफलकं चित्रवर्तिकाञ्च । (मकरन्द उपनयति ।) (लि०) । ६ ॰दृशोरुद्गमं वा० १० तथापि व्यवसितो० । ११ ॰तोऽभिष्वङ्गः । लिखितमित्यर्थः ॥ कलहंसः । अथ किं स्वीकारे ॥ माधवः । वितर्क ऊहः ॥ मकरन्दः । अधिगमः प्राप्तिः ॥ कलहंसः । उत्कण्ठाविनोद इति । माधवानुरक्ता मालती तमनुप्राप्तवती चित्रलिखितालोकनेनापि रमत इति भावः ॥ येत्यादि । हे सखे, तत्संगमं प्रति नैव संशयोऽस्ति । भवतो नयन- योर्या कौमुदी ज्योत्स्ना आनन्दकारित्वात् । तस्या मनोरथबन्धबन्धुरमिलाषनि- बन्धाय प्रियः शोभनजन्मा भवानपि । ननु परस्परानुरागेऽपि विधिकामवै- मुख्यान्न सिद्धिरत आह—यस्मिन्संगमे विधिमदनौ कृतप्रयत्नौ । चक्षुःप्रीत्या कामः, एतद्देशानयनाद्विधिः कृताभियोग इत्यर्थः । अभियोगाच्च कन्यालाभः । यदाह—'अभियोगाद्धि कन्याया लाभो निश्चित एव च' ॥ ३७ ॥ चित्रेण मा- धवचित्तानुरागमुद्दीपयति—द्रष्टव्येति । माधवः । वयस्यायेत्यत्र 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानता । अधुना मनःसङ्गे हर्षात्सात्त्विकभावमाह—वारं- वारमित्यादि । अयं मम पाणिर्लेखाविधिषु चित्रनिर्माणेषु नितरामसमर्थ वर्तत एव न तु लिखति । अत्र किं करोमि । यथा तथा लिखामीत्यर्थः । 'न तराम्' इति पाठे नैव वर्तत इत्यर्थः । यतो बाष्पपूरस्तदनुध्यानादानन्दाश्रुप्रवाहो वारं- वारं दृशोरुद्गमं प्रचारं तिरयति च्छादयति । तस्याः संकल्पेन चिन्तनेनोपहितो ज- डिमा सर्वकार्याप्रतिपत्तिर्यस्य तद्गात्रं शरीरं स्तम्भं निश्चलत्वमभ्येति । 'हर्षरोगभय- विस्मयविषादमददोषसंभवः स्तम्भः' इति भरतः । कीदृशः सद्यो लिखनोपक्रम- काल एव स्विद्यन्नार्द्रीभवन् । अविरतोत्कम्पेनाधिकचलनेन लोलाङ्गुली यत्र सः । अङ्गुल्या लिखनहेतुतया तच्चापल्यादलिखनं सूचितम् । तदिहाश्रुस्तम्भस्वेदकम्पा उक्ताः । रोमाञ्चादिकं च नोक्तम् । तेषां लिखनाप्रतिकूलत्वात् । सर्वमिदं सा- त्त्विकं हर्षात् । यदाह—'क्रोधभयहर्षलज्जादुःखभ्रमरोगतापपीडाभ्यः । व्याया- मसाध्वसादेः स्वेदः स्यात्पीडनेनापि ॥ शीतभयहर्षरोथस्पर्शजरारोगजः कम्पः ॥' इति ॥ ३८ ॥ अधुना मालती चित्रं द्रक्ष्यतीति सानुरागोपालम्भं श्लोकं लि- खति—जगतीत्यादि । ते ते नवेन्दुकलादयो भावाः पदार्था जयिनो मदज- नने सर्वत्राप्रतिहताः स्वभावतो मनोज्ञा अन्ये सन्त्येव ये मनो मदयन्ति । मम पुनर्न मदहेतवः प्रत्युत दाहहेतव एवेति भावः । अत्र जयिन इत्यनेन कालविशेषे