भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 274, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 274

३६ जगद्धरकृता [ अङ्कः १ पृ० ५० ३८ ३ तां च किल राजा० । ०नाय प्रार्थयते इ० । ४ ०तया चाहमनुरुध्यमा० । ८ ०पौरजनस्य० । ३९ २ ०कामाभिश्वङ्ग० । ४ ०भागधेयाः कुमार्योऽन्यत्रास० । भाग्यार्थयोरपि' इति विश्वः । सुश्लिष्टगुणतया सुलभसूत्रत्वेन । संनिवेशो रच- नाभेदः । कुतूहलिनी पुष्पदाम्रि कौतुकवती । भर्तृदारिकेत्यनेन कन्यालार्सनौ- त्सुक्यमुक्तम् । यद्वा भरतेन कन्याया विश्रम्भपात्रत्वस्वीकारादिह कन्यात्वेन तत्सूचनम् । अभिनवो लोकोत्तरो विचित्रो बहुप्रकारः । कुसुमेषु पुष्पेषु व्या- पारो रचनाप्रबन्धः । एतेन माल्यग्रथनकुशलाद्भुतकौशलकुतूहलिनी सेत्युक्तम् । वैदग्ध्यस्य ग्रथनचातुर्यस्य । कृतार्थता कृतप्रयोजनता । विदग्धप्रेयसीयं प्रशंस- येति भावः । फलतु सफलास्तु । विदग्धजनाय दानात् । सरस एवाम्लान एव सक्संनिवेशः । महार्घतां बहुमूल्यताम् पक्षे वो युष्माकं संनिवेशः संयोगः । परस्परानुरूपादिना रमणीयः क्रीडार्होऽर्हणीय एव । इह व इति युष्मदो 'गुरा- वेकेषाम्' इति गौरवे बहुवचनम् । कुतूहलिनी दूतसमाजे साकाङ्क्षा । अभिनवोऽ- भूतपूर्वः । तदेकासक्तत्वात् । विचित्रः साधुः । विविधविकारकारित्वेनाश्चर्यज- नको वा कुसुमेषोः कामस्य व्यापारो मोहनम् । वैदग्ध्यस्य सकलकलाभिज्ञतायाः सार्थकत्वम् । विदग्धप्रीतिजनकत्वात् । निर्माणरमणीयता घटनसौन्दर्यम् । फल- त्वमनुरूपजनसंसर्गात् ॥ नो चेदिदं सर्वं व्यर्थमिति भावः । सरसः शृङ्गारोऽनु- रागो वा । कण्ठावलम्बनमालिङ्गनम् । महार्घता दुर्लभत्वम् । तदिह श्लिष्टपदेन नायकव्युत्पत्तिमभिप्रायं च ज्ञात्वा दूतीव्यापारः प्रसरतीति ध्वनितम् ॥ मक- रन्दः । वैदग्ध्यं श्लिष्टपदप्रयोगादिति भावः ॥ माधवः । अनुयुक्त्या पृष्ट्या । प्रसूतिरपत्यम् । प्रसादभूमिर्विश्वासस्थानं तस्याः । तव च प्रसादभूमिरनुकम्पा- पात्रं मालादानात् ॥ कलहंसः । अत्र विलसितं विजृम्भितम् । अनयोरन्यो- न्यानुरागादिति भावः ॥ मकरन्दः । बहुमानस्य गौरवस्यापर्याप्तिरनवधिक- त्वम् ॥ अनभियोज्यत्वरक्षणत्वादियोगादिति भावः ॥ माधवः । अनुरुध्यमानो मुहुर्याच्यमानः । असौ लवङ्गिका । अभिनिविष्टयातिशयन्निविष्टितया । विहस्त- तया व्याकुलतया ॥ महानयं प्रसाद इति । यतो न वस्तुनि प्रेम किंतु गुणेष्विति भावः ॥ मकरन्दः । सुश्लिष्टं निश्चितम् । दृष्टपूर्वः पूर्वं दृष्टः । ता- दृशो महाकुलजाः । चक्षूरागानुरागायोरेकविषयत्वं भरतमतम् । अन्यदप्यनुरा- गचिह्नमाह - अन्योन्येत्यादि । त्वयि तस्याः प्रागनुरागचिह्नं व्यक्तमेवास्ति । कथम् । सखीनामन्त्योन्यसंगतदृशां कसापि कोऽपीति निवेदनमेकम् । कथम- न्यथा सखीजनस्त्वां वीक्ष्य कटाक्षयति तां कथं वा सखीजनो वदत्येवमिति भावः । अपरं लवङ्गिकाया व्युत्पन्नं वचनम् । कथमम्यथा कुतूहलिनीत्यादि वदतीममिति भावः । 'संगते दारिते भिन्नः' इति विश्वः ॥ ३६ ॥ कलहंसः । अत्र येन ज- नेनापहृतम् । यन्निबन्धनेोऽस्य कामविकार इति भावः ॥ मकरन्दः । मालत्या

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क) · पृष्ठ 274, कुल 377 में से · BharatKosha