भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 273, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 273

अङ्कः १ ] मालतीमाधवटीका । २५

पृ० पं० ३५ १ अहो अभिषङ्गः । ५ ०प्येव यस्मात् । ३६ २ ०लम्ब्य बालबकुलकुसु० । ४ ०एष वः सुमनसां संनि० । ५ ०द्वारिका वर्तते । ०रण अमी० । ७ ०णीयता विधातुः स० । ३७ २ तथा च म० । ६ ०सिदं खु म० । ता जिदं० ।


नीयः परिच्छेदमेयत्तामतीतोऽतिक्रान्तो निर्वेतुमशक्यश्च । यः पुनरसिजन्म- न्यनुभवपथं न गतवान्त एव परिच्छेत्तुं निर्वेतुं चाशक्य इति भावः । सांप्रतं तदनुभवेन तद्वयं किमिति न क्रियत इत्याशङ्क्याह—विवेकप्रध्वंसात्प्रशस्तज्ञाना- भावादुपचितमहामोहेन गहनः संकटः । तदानीं विवेकाभाव इति भावः । अ- नेन जडता दर्शिता ॥ ३३ ॥ परिच्छेदव्यक्तिरित्यादि । संनिकृष्टेऽपि घटादौ परिच्छेदव्यक्तिर्निर्णयाभिव्यक्तिर्न भवति । घटादिकमपि निर्णोतुं न शक्नो- मीत्यर्थः । अनेन बाह्येन्द्रियाणां विषयव्यावृत्तिरुक्ता । अभ्यस्तेऽपि वारंवारमनु- भूतेऽपि स्मरणमतथाभावेन खण्डस्फुटिततया विरसं वैरस्यवत् । एतेन मन- सोऽपटुत्वमुक्तम् । इयमनुस्मृत्यवस्था । विषयवृत्त्या संतापः शीतलसेवनादपि नापैतीत्याह—हिमसरसि शीतलसरोवरे चन्द्रमस्यमृतकरकिरणे वा मनःसंताप- हानिः । चन्द्रमःपदं लक्षणया स्वकिरणमाह । इयमुद्वेगावस्था । यदाह—'आसने शयने वापि न तिष्ठति न तुष्यति । औत्सुक्यं च भवेन्नित्यमुद्वेगस्थान एव च ॥' निष्ठाशून्यं धैर्यहीनं मनो भ्रमति चपलत्वात् । किमपि मनोरथमालिखत्यालि- खति । अनेनोन्मादावस्थोक्ता ॥ ३४ ॥ कलहंसः । अपहृतो वशीकृतः । अपिः संभावनायाम् । नाम प्रकाशे ॥ स्वागतमिति । 'यत्तु श्राव्यं न सर्वस्य स्वगतं तदिहोच्यते ।' इति भरतः । अभिषङ्ग आसक्तिरूपो मनःपराभवः । 'आक्रोश- शापाभिभवेष्वभिष्वङ्गपदं विदुः' इति शाश्वतः ॥ मा मुमुहदिति । अनन्य- जन्मा कामः खल्वर्थे मा मुमुहत् । न चित्तविप्लवसहितमजीजनत् । एवं च ते मतिर्मलीमसविकारेण कामजेन घना निबिडा मा भूदित्यादिनिषेधवाक्यमि- हानर्थकमेव । ननुपदमन्वये । यतः कामो जृम्भितो वलयितो गुणो ज्या यस्य सः । जृम्भितगुण उपचितव्यापारो वा कामः । नवयौवनं च जृम्भितगुणम् । प्रकाशितरूपादिकमस्तीत्यर्थः । अतस्तत्पराधीनोऽयं न निषेधुं शक्य इत्यर्थः ॥ ३५ ॥ प्रकाशमिति । 'यत्तु सर्वजनश्राव्यं प्रकाशं तदिहेष्यते' इति भरतः । अन्वयो वंशः ॥ माधवः । करेणुका हस्तिनी । अन्यतमान्या । स्वार्थे तमप् । यद्वा एकपर्यायोऽयमव्युत्पन्न एवान्यतमशब्दः । वारयोषित्दूतिका । तस्या इहकलादुपादानमिह । विलम्ब्यैकाकिनी भूत्वा । नेदीयसी निकटस्था च भूत्वा । उभयत्र पुष्पत्रोटनक्रमेणेति योज्यम् । कुसुमापीडव्याजेन पुष्पद्दामच्छ- लेन । अभ्यर्थनाभङ्गभयेन च्छलेन मामाहेति भावः । अथ च कुसुमेनापीडयति कुसुमापीडः कामः । तद्व्याजेन मां प्रणम्येत्यर्थः । महाभाग महाभाग्य । 'भागो

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क) · पृष्ठ 273, कुल 377 में से · BharatKosha