मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 272, कुल 377 में से
संदर्भ में पढ़ें१४ / जगद्धरकृता [ अङ्कः १ पृ० प० ३२ १ रसेनाभिसंधिना० । २ ०त्मनोऽपनि० । ३ ०वेत्रश- रूपा० । ५ ०कृतवती तदाच० । संकल्प उक्तः । मानसव्यापारस्यात्मवशत्वादिति भावः । उन्मूलितमित्यनेन विषय- निवृत्तिः सूचिता । अशरणमित्यनेन चित्तापहरणादिनिवारकाभाव उक्तः । नायिकाया निरवद्यरूपता च सूचिता । अलसेत्यनेन निद्रोच्छेदः, वलित इत्यनेन त्रपानाशः, मुग्धत्वेन मधुरता, स्निग्धत्वेन साभिलाषत्वम्, अभिलष- णीयस्य स्नेहविषयलाभिष्पन्दतया निकोचवैमुख्यम्, मदत्वेन सहर्षत्वम्, अधि- केत्यादिनान्तर्विकासिनी स्मेरतारा चेत्युक्तम् । एवं चालसवलितैरपहृतम् । योऽपि हि चोरादिः किंचिदपहरति स मन्दं मन्दं वलत इति भावः । मुग्धैः सहजरूपदर्शनातिमोहवद्भिः स्निग्धैर्मद्विषयस्नेहसूचकचेष्टावद्भिरपविद्धं क्षिप्तम् । पराभूतमिति यावत् । ‘विद्धक्षिप्तेरिताः समाः’ इत्यमरः । अनेन चेतसोनायति- र्दर्शिता । ननु चित्तावक्षेपनिवारकं तदनुध्यानादिकं किमिति न कृतमत आह— निष्पन्दैर्विमुखैर्मन्दैर्मदेकविश्रान्तैश्च पीतं तदितरानुसंधानशून्यं कृतम् । तथा च नान्यविषयपरिशीलनकथेति भावः । अधिकेल्यादिनोन्मूलितम् । अनेन मनोनि- ग्रहाभावो मित्रोपदेशानवसरश्च सूचितः । इह पूर्वश्लोकेन नार्थपौनरुक्यम् । आलोकितावस्थाकटाक्षावस्थयोर्भेदात् । नायकस्य रसाक्षिप्तचित्तत्वाद्वा ॥ ३१ ॥ तथाविधभावदर्शनेन हृदयंगमत्वं संभाव्यते । अपदेशेपि प्रेम्णोऽनिष्ठाशङ्कित्वादिति भावः । अभिसंधिरभिप्रायः । यथाकथंचिदिति । चेतस्तदपहृतत्वादिति भावः । वर्षवराः क्लीबास्तत्प्रायास्तत्प्रधानाः । यद्वा ‘विनीताः सर्वसत्त्वासु क्ली- बाश्चैव स्वभावतः । जात्या न दोषिणश्चैव ते वै वर्षवरा मताः ॥’ इति परिभा- षिता वर्षवराः । हस्तिनीसमारोहणादिना महावंशजत्वेन मालत्या उत्तम- स्त्रीत्वं सूचितम् । यद्वा हस्तिनीसमारोहणेनात्युच्चयानतया दूरदर्शित्वं सूचितम् । तत्रापि मन्थरगतिसूचनाय हस्तिनीग्रहणम् । हस्तिजातावपि स्त्रिया मन्थरगति- मत्त्वात् । एतदुभयं चिरं माधवावलोकनायेति भावः ॥ यान्त्येत्यादि । तया पक्ष्मलाक्ष्या यान्त्या मम हृदये गाढं यथा तथा कटाक्षो निखात इव दत्त इव । तदा तदवलोकनं मम हृदये लग्नमित्यर्थः । निखात इत्यनेन कटाक्षस्य दुःसह- त्वमुक्तम् । कीदृश्या । तदाननं वहन्त्या । कीदृशम् ? मुहुर्वलिता चकिता कंधरा घाटा यत्र तत् । क्षणं क्षणं व्यावर्तमानं पश्यन्त्येत्यर्थः । आवृत्तवृन्तमाव- र्जितनालं यच्छतपत्रं पद्मं ततो निरतिशया भा दीप्तिर्यस्य तत् । तन्निभं तत्तु- ल्यमिति वा । वृन्तादारभ्यावर्तनेन पद्मविवर्तनसिद्धिः । कीदृशः प्रथममान- न्दहेतुतयामृतेन दिग्ध उपचितः पश्चाद्दर्शनानन्दविच्छेदाद्विषेण दिग्धः ॥ ३२ ॥ ततःप्रभृति तसादारभ्य ॥ परिच्छेदेत्यादि । विकारः कामजो भावोऽन्तर्ज- डयति मोहयति, तापं च कुरुते व्यथयति । यदा तत्प्राप्तिचिन्ता तदा जडतेतरका- र्याप्रतिपत्तिः । यदा च तद्व्यतिरेकचिन्ता तदा ताप इति कालभेदेन जाड्यताप- योर्न विरोधः । तदुभयजनकवस्तुनोऽभावमाशङ्क्याह—कोऽपि विचिन्त्यानिर्वच-