भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 271, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 271

जाभिलाषः सूचितः। उल्लसन्ती चपला भ्रूलतेव येषु तेषाम् । दीर्घत्वेन भ्रूलतयो रूप- कम् । अनेन कान्तादृष्टिरुक्ता । यदाह—'हर्षप्रसादजनिता कान्ताल्यर्थं समन्मथा । सभ्रूक्षेपकटाक्षा च शृङ्गारे दृष्टिरिष्यते ॥' मसृणानि चिकणानि लज्जया मुकुलि- तानि च तेषाम् । दृष्टिरियं मुकुलिता—'मुग्धा निमीलितान्ता च मुकुला दृष्टिरि- ष्यते ॥' इति भरतः । यद्वा सुखभावनया मसृणं मन्दं यथा भवति तथा मुकुलि- तानाम्। एतेन दर्शनजनितानन्दसंपत्पर्यवसानं सूचितम् । पुनः पुनर्दर्शनाकाङ्क्षया तिर्यगायतत्त्वेन प्रान्ते निकटे च विस्तारवताम् । शङ्किता दृष्टिरियम् । यदाह— 'किंचिच्चलस्थिरा किंचिन्नम्रिता तिर्यगायता । गूढा चकिततारा च शङ्किता दृष्टि- रुच्यते ॥' अनेन कटाक्षपर्यवसानमुक्तम् । प्रतीपदिगायत मन्नेत्रपाते सति लज्जया दर्शनोत्सुकतया च किंचिदाकुञ्चितानां मुद्रितानाम् । आकुञ्चितेयं दृष्टिः । यदा- ह—'अनाकुञ्चितपक्ष्मोग्रा पुटैराकुञ्चितैस्तथा । संनिकुञ्चिततारा च कुञ्चिता दृष्टिरु- च्यते ॥' न च 'कुञ्चिना सूचिता नष्टदुष्प्रेक्षाक्षिण्यथासु या' इति भरते नियमा- दिह कुञ्चितदृष्टिकथनमयुक्तमिति वाच्यम् । लज्जया माधवे दुष्प्रेक्षत्वसंभवात् । पात्रं कीदृशम् । विविधं नानाप्रकारम् । स्तिमितदृष्टिप्रयोगेऽपि मयापि तथैव दृष्टि- प्रयोगः कृत इत्यर्थः । 'योग्यभाजनयोः पात्रम्' इत्यमरः । अभूवमिति भुवो लुङि सिचि रूपम् ॥ ३० ॥ अलसैरित्यादि । पक्ष्मलाक्ष्याः प्रशस्तपक्ष्मयुक्तायास्तैरव- लोकितैः कटाक्षतापन्नैर्मम हृदयमपहृतं स्ववशीकृतम् । इह रक्षकबाहुल्येन गम- नत्वरया शङ्कया वावलोकितानामेव कटाक्षत्वमुक्तम् । कटाक्षस्तिर्यग्विलोकना- त्मकः कर्णाभ्यर्णसंचारितारकः सर्वानङ्गरङ्गजनक इति भावः । तथा निष्कल- त्वेनापविद्धं मथितम् । मध्यमानतया द्रवरूपत्वेन पीतम् । अत एवोन्मूलितम् । तदा किमपि मया न ज्ञातमित्यर्थः । अत एवाशरणं रक्षकशून्यं जातम् । ततो यथार्हं कुर्विति भावः । कीदृशैः । लज्जयालसैर्मन्दैः कौतुकेन वलितैश्चलितैः । अथ मुकुलनेन मुग्धै रम्यैः । प्रीत्या स्निग्धैः रूपदर्शनाद्भुतचिन्ताभ्यां निष्पन्दैरनि- मेषैः । पुनः कोऽयं द्रष्टव्य इति विषादान्मन्दैरित्यर्थः । इयं विषादिनी दृष्टिः । यदाह—'विषादविस्तीर्णपुटा पर्यन्तान्ता निमेषिणी । किंचिन्निष्टब्धतारा च नार्या दृष्टिर्विषादिनी ॥' यद्वा अलसं मन्दं यथा तथा वलितैः । इयं निर्विकारा दृष्टिः । यदाह—'ललिताकुञ्चिता या च या च धीरावलोकिनी । निर्विकारा दृगिष्टा सा साछ्येवाकारगुप्तिषु ॥' तथा प्रथमदर्शनापेक्षयाधुना विशेषदर्शनादधिकं विकसता- न्तर्विस्मयेन स्मेरा मुग्धा तारा येषां तैः । इयं दृष्टिः स्निग्धा । यदाह—'किंचि- त्सहासेव सविस्मयेव सभ्रूसमुत्क्षेपकटाक्षयुक्ता । स्निग्धा निका मं प्रमदेव निष्ठा शृङ्गारजा दृष्टिरिह प्रदिष्टा ॥' यद्वा कटाक्षैर्मम हृदयमपहृतमित्यनेन प्रीतिरुक्ता । अन्यस्यापि चक्षुःप्रीतिहेतोर्मनोहरत्वं भवत्येव । अपविद्धमित्यनेन चित्तासङ्ग उक्तः । अपव्यथेरत्यन्तासङ्गवाचित्वादिति भावः । पीतमारामायत्ततां नीतम् । अनेन