भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 270, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 270

२२ जगद्धरकृता [ अङ्कः १

शब्दानुगतः । मेखलायाः कलापो गुच्छः । यद्वा मेखला च कलापश्च तयोः किङ्किणी क्षुद्रघण्टिका । 'मेखला च कलापश्च भवेच्छ्रोणिभूषणम् । एकयष्टि- र्भवेत्काञ्ची मेखला त्वष्टयष्टिका ॥ रशना षोडश ज्ञेया कलापः पञ्चविंशतिः ॥' इति भरतः । इदं सर्वं निवर्तनक्रियाविशेषणम् । गतिरियं विकला । यदाह— 'आवेगे चैव हर्षे च कार्ये च त्वरयान्विते । एतेषु च गतिं प्राज्ञो विकलां संप्र- योजयेत् ॥' इति । 'राजा भट्टारको देवस्तत्सुता भर्तृदारिका' । राजपदमीश्वर- मात्रपरम् । तेनामात्यकन्यापि भर्तृदारिकेत्युच्यत इत्यवधेयम् । कोऽपि कस्या- पीत्यनेनानुद्घाटोद्भावनेन तासां चातुर्यमुक्तम् । अत एव कस्यापीति सामान्यनि- र्देशात्क्लीबत्वम् । अन्यथा स्त्रीलिङ्गनिर्देशः स्यात् । कोऽपीति पुंल्लिङ्गनिर्देशस्तु स्पष्टार्थः । अन्यथा किमपीति निर्देशे पुष्पादिप्रतिपत्त्या संशयः स्यादिति भावः । अङ्गुलीदलपदेन सविलासाख्यानमुक्तं संगुप्तमाख्यानं वा ध्वनितम् । इदमाख्यानं नर्मवाक्यम् । यदाह—'सहास्यवचनप्रायं नर्मेच्छन्ति मनीषिणः' ॥ मक- रन्दः । हन्त हर्षे । उद्भेदः प्रकाशः ॥ कलहंसः । अनुबन्धिनी प्रतीय- माना ॥ अत्रान्तर इत्यादि । सखीनां दर्शनावसर एव पद्माक्ष्याः संबन्धि तन्मान्मथं कामजमाचार्यकमुपदेशकमाविरासीत्प्रकटीभूतम् । कीदृशम् । किमप्य- निर्वचनीयमत एव वाग्विभावाद्वचनप्रपञ्चादतिक्रान्तमतिशयितं वैचित्र्यं यस्य तत् । उल्लसित उत्थितो विभ्रमो भावभेदो यत्र तत् । 'यच्चित्तवृत्तेरन्यवस्थितत्वं शृङ्गार- जो विभ्रम उच्यतेऽसौ । भेदाह्वयस्तस्य मदानुबन्धात्कार्यस्यसंज्ञाः कथिता वि- दग्धैः ॥' इति भरतः । भूरि प्रचुरः सात्त्विकविकारो यत्र तत् । सत्त्वं मानसं किमपि तेन निर्वृत्तः सात्त्विको भावः । यदाह—'सत्त्वोत्कटे मनसि ये प्रभवन्ति भावास्ते सात्त्विका निगदिताः कविभिः पुराणैः ।' ते च—'स्वेदः स्तम्भोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥' इति । अपास्तं क्षिप्तं धीरत्वं येन तत् । महाभिजनलायनपेक्षत्वादिति भावः । विजयी सर्वत्राप्रति- हतम् । कुमार्थ्या अपि शिशुत्वाद्विजय इति भावः । उत्पलाक्ष्या इत्यनेन बहुविधे ने- त्रविकारे प्रीतिगो हाव इहोक्तः । यदाह—'भूनेत्रादिविकाराद्यः शृङ्गाराकारसूचकः । स्थायिभावः स्थितो हाव ईर्ष्यातः प्रीतिगोऽपि च ॥' इह श्लोके विलास उक्तः । यदाह—'दयितावलोकनादौ विशेषोऽङ्गक्रियासु यः । शृङ्गारचेष्टासहितो विलासः समुदीरितः' ॥ २९ ॥ संप्रति 'हेला हावात्समुत्थिता' इति भरतानुसारेण हावा- नन्तरं हेलामाह—स्तिमितेत्यादि । 'नारीणां प्रियसंभोगलज्जासाध्वसकौतुकैः । स्वभावाविष्कृतो वेगो हेलेति परिकीर्तितः ॥' इति भरतः । श्लोकार्थस्तु तस्या आलोकितानां सहसा दर्शनानां पात्रं योग्योऽहमभूवं वृत्तोऽस्मि । 'सहसा दर्शनं यत्स्यात्तदालोकितमुच्यते' इति भरतः । कीदृशानाम् । मदीयरूपनिरूपणाश्चर्येण स्तिमितानि निश्चलानि हर्षेण विकसितानि प्रफुल्लानि च तेषाम् । दृष्टिरियमद्भुता । यदाह—'समाकुञ्चितपक्ष्मोग्रा विस्मयोद्भूततारका । सौम्या विकसितान्ता च दृष्टिः स्यादद्भुताभिधा ॥' यद्वा स्तिमितं मन्दं यथा तथा विकसितानां प्रकाशि- तानां प्रथमं नायकदर्शनेन शनैः शनैः प्रसारणमिति भावः । अनेनोत्तरोत्तरदर्शे-