मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 270, कुल 377 में से
संदर्भ में पढ़ें२२ जगद्धरकृता [ अङ्कः १
शब्दानुगतः । मेखलायाः कलापो गुच्छः । यद्वा मेखला च कलापश्च तयोः किङ्किणी क्षुद्रघण्टिका । 'मेखला च कलापश्च भवेच्छ्रोणिभूषणम् । एकयष्टि- र्भवेत्काञ्ची मेखला त्वष्टयष्टिका ॥ रशना षोडश ज्ञेया कलापः पञ्चविंशतिः ॥' इति भरतः । इदं सर्वं निवर्तनक्रियाविशेषणम् । गतिरियं विकला । यदाह— 'आवेगे चैव हर्षे च कार्ये च त्वरयान्विते । एतेषु च गतिं प्राज्ञो विकलां संप्र- योजयेत् ॥' इति । 'राजा भट्टारको देवस्तत्सुता भर्तृदारिका' । राजपदमीश्वर- मात्रपरम् । तेनामात्यकन्यापि भर्तृदारिकेत्युच्यत इत्यवधेयम् । कोऽपि कस्या- पीत्यनेनानुद्घाटोद्भावनेन तासां चातुर्यमुक्तम् । अत एव कस्यापीति सामान्यनि- र्देशात्क्लीबत्वम् । अन्यथा स्त्रीलिङ्गनिर्देशः स्यात् । कोऽपीति पुंल्लिङ्गनिर्देशस्तु स्पष्टार्थः । अन्यथा किमपीति निर्देशे पुष्पादिप्रतिपत्त्या संशयः स्यादिति भावः । अङ्गुलीदलपदेन सविलासाख्यानमुक्तं संगुप्तमाख्यानं वा ध्वनितम् । इदमाख्यानं नर्मवाक्यम् । यदाह—'सहास्यवचनप्रायं नर्मेच्छन्ति मनीषिणः' ॥ मक- रन्दः । हन्त हर्षे । उद्भेदः प्रकाशः ॥ कलहंसः । अनुबन्धिनी प्रतीय- माना ॥ अत्रान्तर इत्यादि । सखीनां दर्शनावसर एव पद्माक्ष्याः संबन्धि तन्मान्मथं कामजमाचार्यकमुपदेशकमाविरासीत्प्रकटीभूतम् । कीदृशम् । किमप्य- निर्वचनीयमत एव वाग्विभावाद्वचनप्रपञ्चादतिक्रान्तमतिशयितं वैचित्र्यं यस्य तत् । उल्लसित उत्थितो विभ्रमो भावभेदो यत्र तत् । 'यच्चित्तवृत्तेरन्यवस्थितत्वं शृङ्गार- जो विभ्रम उच्यतेऽसौ । भेदाह्वयस्तस्य मदानुबन्धात्कार्यस्यसंज्ञाः कथिता वि- दग्धैः ॥' इति भरतः । भूरि प्रचुरः सात्त्विकविकारो यत्र तत् । सत्त्वं मानसं किमपि तेन निर्वृत्तः सात्त्विको भावः । यदाह—'सत्त्वोत्कटे मनसि ये प्रभवन्ति भावास्ते सात्त्विका निगदिताः कविभिः पुराणैः ।' ते च—'स्वेदः स्तम्भोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका मताः ॥' इति । अपास्तं क्षिप्तं धीरत्वं येन तत् । महाभिजनलायनपेक्षत्वादिति भावः । विजयी सर्वत्राप्रति- हतम् । कुमार्थ्या अपि शिशुत्वाद्विजय इति भावः । उत्पलाक्ष्या इत्यनेन बहुविधे ने- त्रविकारे प्रीतिगो हाव इहोक्तः । यदाह—'भूनेत्रादिविकाराद्यः शृङ्गाराकारसूचकः । स्थायिभावः स्थितो हाव ईर्ष्यातः प्रीतिगोऽपि च ॥' इह श्लोके विलास उक्तः । यदाह—'दयितावलोकनादौ विशेषोऽङ्गक्रियासु यः । शृङ्गारचेष्टासहितो विलासः समुदीरितः' ॥ २९ ॥ संप्रति 'हेला हावात्समुत्थिता' इति भरतानुसारेण हावा- नन्तरं हेलामाह—स्तिमितेत्यादि । 'नारीणां प्रियसंभोगलज्जासाध्वसकौतुकैः । स्वभावाविष्कृतो वेगो हेलेति परिकीर्तितः ॥' इति भरतः । श्लोकार्थस्तु तस्या आलोकितानां सहसा दर्शनानां पात्रं योग्योऽहमभूवं वृत्तोऽस्मि । 'सहसा दर्शनं यत्स्यात्तदालोकितमुच्यते' इति भरतः । कीदृशानाम् । मदीयरूपनिरूपणाश्चर्येण स्तिमितानि निश्चलानि हर्षेण विकसितानि प्रफुल्लानि च तेषाम् । दृष्टिरियमद्भुता । यदाह—'समाकुञ्चितपक्ष्मोग्रा विस्मयोद्भूततारका । सौम्या विकसितान्ता च दृष्टिः स्यादद्भुताभिधा ॥' यद्वा स्तिमितं मन्दं यथा तथा विकसितानां प्रकाशि- तानां प्रथमं नायकदर्शनेन शनैः शनैः प्रसारणमिति भावः । अनेनोत्तरोत्तरदर्शे-