भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 269, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 269

अङ्कः १ ] मालतीमाधवटीका । २१ पृ० पं० २८ १ अन्योन्यभाव० । ५ ॰मञ्जीररसितानु० । कलापकलकिङ्किणी० । २९ १ मकरन्दः—( स्वगतम् । ) । ॰महतः प्रागनु० । ७ ॰विविभ्रममुत्पलाक्ष्याः । एव । निमित्तनिवृत्तौ तन्निवृत्तेरावश्यकत्वात् । अत आन्तरनिमित्तापेक्षैव स्नेह- स्येति भावः । विप्रतिषिद्धं विरुद्धम् । बाह्यनिमित्तापेक्षया विरोध इति भावः । खोक्ते युक्तिमाह—व्यतिषजतीत्यादि । आन्तरो हेतुः कोऽप्यनिर्वचनीयः पदार्थांन्नरनारीप्रभृतीन्व्यतिषजति विशेषतो मेलयति । यतः प्रीतयो बहिरुपाधी- न्बाह्यहेतून्सौन्दर्यादीन्न संश्रयन्ते प्रकर्षेणावलम्बन्ते । अत्र कोपीत्यनेन जन्मा- न्तरानुभवजनितसंस्कारताध्वनिः । न खल्वित्यनेन दृष्टश्रुतानुमितसकलैहिकोपा- धिनिषेधात्तथावसायः । अत एव विशेषप्रकर्षद्योतकाभ्यामुपसर्गाभ्यामासङ्गस्य जीवितावधित्वमुक्तम् । उक्तं द्रढयति—यतः पतङ्गस्य सूर्यस्योदये पुण्डरीकं विक- सति । चन्द्र उद्गत उदिते सति चन्द्रकान्तो द्रवति क्षरति च । तथा च तीक्ष्णकरो- दये कोमलकमलदलविकासादमृतकरोदये पाषाणदारणाच्च सहजसिद्ध एव हेतुः । इह किं बाह्यं कारणं दृश्यते । तद्वत्प्रकृतेऽपि स्वाभाविक एव स्नेह इति भावः । पुण्डरीकपदमिह पद्ममात्रपरम् । अर्थान्तरन्यासोऽयम् ॥ २७ ॥ ततस्तत इति कथोपक्रमरीतिः ॥ माधवः । तत्र स्थाने । सभ्रूविलास मित्यादि । अथ तस्याः सखीजनेन तदा सोऽयमित्युक्त्वा सप्रत्यभिज्ञमिव पूर्वदृष्टमिति मामवलोक्य सभ्रूविलासं सभ्रूभङ्गं यथा तथा कटाक्षाः क्षिप्ताः । एतेन कटाक्षाणां पूर्वदृष्टप्रत्य- भिज्ञाकारणत्वमुक्तम् । कीदृशेन अन्योन्याशयविदेन । अनेन नायिकाव्युत्प- त्त्यतिशय उक्तः । कीदृशाः । स्मितमीषद्धसितमेवामृतं तेन मनोज्ञाः ‘ईषत्प्रफु- ल्लितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अदृष्टदन्तकुसुमैरुत्तमानां स्मितं मतम् ॥’ इति भरतः । स्वस्यादृष्टचरत्वेन संभावनायामिहेवशब्दः । अवलोक्येति । ल- लिता दृष्टिरियम् । यदाह—‘मधुराकुञ्चिततारा च सभ्रूक्षेपा च सस्मिता । सम- न्मथविकारा च दृष्टिः सा ललिता मता ॥’ इह तु हर्षादियमन्विता । यदाह— ‘धृतौ हर्षे च ललिता’ । भ्रूविलासेल्यनेन मोट्टायितमपि कटाक्षितम् ॥ २८ ॥ मकरन्दः । प्रत्यभिज्ञैकस्य तत्तैदन्तावैच्छिद्यम् (?) । अस्या एवाकारः सोऽयमिति । नाम संभावनायाम् । अदृष्टचरत्वेन माधवप्रत्यभिज्ञाया असंभावदिति भावः । तामेव स्फोटयति—अथेति । अनन्तरं ताः सख्यो हे भर्तृदारिके स्वामिपुत्रि, हर्षेण वयं वर्धामहे, यतोऽत्रैव स्थाने कस्यापि कोऽपि तिष्ठतीत्युक्त्वा मामङ्गुली- खण्डलीलया कथितवत्यः । किं कृत्वा । सलीलं सविलासचेष्टितं यथा तथा प्रतिनिवृत्य । ‘स्त्रीणां विलासचेष्टितं लीला’ इति भरतः । उत्तालमुद्भटम् । वि- भ्रमो विलासो विचित्रभ्रमणं वा मधुरमनोज्ञः । मञ्जीरो नूपुरः । रसितानुविद्धः २४ माल०