मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 269, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः १ ] मालतीमाधवटीका । २१ पृ० पं० २८ १ अन्योन्यभाव० । ५ ॰मञ्जीररसितानु० । कलापकलकिङ्किणी० । २९ १ मकरन्दः—( स्वगतम् । ) । ॰महतः प्रागनु० । ७ ॰विविभ्रममुत्पलाक्ष्याः । एव । निमित्तनिवृत्तौ तन्निवृत्तेरावश्यकत्वात् । अत आन्तरनिमित्तापेक्षैव स्नेह- स्येति भावः । विप्रतिषिद्धं विरुद्धम् । बाह्यनिमित्तापेक्षया विरोध इति भावः । खोक्ते युक्तिमाह—व्यतिषजतीत्यादि । आन्तरो हेतुः कोऽप्यनिर्वचनीयः पदार्थांन्नरनारीप्रभृतीन्व्यतिषजति विशेषतो मेलयति । यतः प्रीतयो बहिरुपाधी- न्बाह्यहेतून्सौन्दर्यादीन्न संश्रयन्ते प्रकर्षेणावलम्बन्ते । अत्र कोपीत्यनेन जन्मा- न्तरानुभवजनितसंस्कारताध्वनिः । न खल्वित्यनेन दृष्टश्रुतानुमितसकलैहिकोपा- धिनिषेधात्तथावसायः । अत एव विशेषप्रकर्षद्योतकाभ्यामुपसर्गाभ्यामासङ्गस्य जीवितावधित्वमुक्तम् । उक्तं द्रढयति—यतः पतङ्गस्य सूर्यस्योदये पुण्डरीकं विक- सति । चन्द्र उद्गत उदिते सति चन्द्रकान्तो द्रवति क्षरति च । तथा च तीक्ष्णकरो- दये कोमलकमलदलविकासादमृतकरोदये पाषाणदारणाच्च सहजसिद्ध एव हेतुः । इह किं बाह्यं कारणं दृश्यते । तद्वत्प्रकृतेऽपि स्वाभाविक एव स्नेह इति भावः । पुण्डरीकपदमिह पद्ममात्रपरम् । अर्थान्तरन्यासोऽयम् ॥ २७ ॥ ततस्तत इति कथोपक्रमरीतिः ॥ माधवः । तत्र स्थाने । सभ्रूविलास मित्यादि । अथ तस्याः सखीजनेन तदा सोऽयमित्युक्त्वा सप्रत्यभिज्ञमिव पूर्वदृष्टमिति मामवलोक्य सभ्रूविलासं सभ्रूभङ्गं यथा तथा कटाक्षाः क्षिप्ताः । एतेन कटाक्षाणां पूर्वदृष्टप्रत्य- भिज्ञाकारणत्वमुक्तम् । कीदृशेन अन्योन्याशयविदेन । अनेन नायिकाव्युत्प- त्त्यतिशय उक्तः । कीदृशाः । स्मितमीषद्धसितमेवामृतं तेन मनोज्ञाः ‘ईषत्प्रफु- ल्लितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः । अदृष्टदन्तकुसुमैरुत्तमानां स्मितं मतम् ॥’ इति भरतः । स्वस्यादृष्टचरत्वेन संभावनायामिहेवशब्दः । अवलोक्येति । ल- लिता दृष्टिरियम् । यदाह—‘मधुराकुञ्चिततारा च सभ्रूक्षेपा च सस्मिता । सम- न्मथविकारा च दृष्टिः सा ललिता मता ॥’ इह तु हर्षादियमन्विता । यदाह— ‘धृतौ हर्षे च ललिता’ । भ्रूविलासेल्यनेन मोट्टायितमपि कटाक्षितम् ॥ २८ ॥ मकरन्दः । प्रत्यभिज्ञैकस्य तत्तैदन्तावैच्छिद्यम् (?) । अस्या एवाकारः सोऽयमिति । नाम संभावनायाम् । अदृष्टचरत्वेन माधवप्रत्यभिज्ञाया असंभावदिति भावः । तामेव स्फोटयति—अथेति । अनन्तरं ताः सख्यो हे भर्तृदारिके स्वामिपुत्रि, हर्षेण वयं वर्धामहे, यतोऽत्रैव स्थाने कस्यापि कोऽपि तिष्ठतीत्युक्त्वा मामङ्गुली- खण्डलीलया कथितवत्यः । किं कृत्वा । सलीलं सविलासचेष्टितं यथा तथा प्रतिनिवृत्य । ‘स्त्रीणां विलासचेष्टितं लीला’ इति भरतः । उत्तालमुद्भटम् । वि- भ्रमो विलासो विचित्रभ्रमणं वा मधुरमनोज्ञः । मञ्जीरो नूपुरः । रसितानुविद्धः २४ माल०