भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 268, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 268

३० जगद्धरकृता [ अङ्कः १ पृ० पं० २५ ५ अथ सा प्रण० । ०अनुचरिभिरविरलकुसुमसंचयावच- यलीलादोहदिनीभिर्० । ,, ८ यतोऽस्याः । २६ २ छेदपाण्डुः क० । ४ ०अन्तःकरणमाकृष्टवती । किं० । २७ १ वयस्य माधव, स्ने० । ,, ९ ०सोऽयमितीरयित्वा । प्रणयिनी स्निग्धा । अनुचरी दासी । संचयः समूहः । अवचयत्रोटनम् । दो- हदोऽभिलाषः । सहर्षमाह—तमेवेति । खोद्देशेनाह—कस्मिन्नपीति । 'भा- गधेयं भाग्यम्' इत्यमरः । इह्यानुमानरूपो गर्भसंधिः कस्मिंश्चिदित्यनेनोक्तः । यदाह—'व्याप्येन व्यापकज्ञानमनुमानमुदीरितम्' इति ॥ विकारचिह्नमाह— परिमृदितेति । यधास्या अङ्गं परिमृदिता मर्दनविषयीकृता या मृणाली बि- सलता तद्वन्म्लानम् । क्रियासु ताम्बूलभक्षणादिषु परिजनयाचनाभिरस्याः कथ- मपि प्रवृत्तिः । इह मृणालीपदेन तनुता, ग्लान्या निद्राच्छेदः, कथमपीत्यादिना विष- यनिवृत्तिः कथिता । तनुत्वम्लानत्वमान्थैर्ग्नानिरुक्ता । यदाह—'ग्लानौ तनुत्ववैव- र्ण्यमन्दतादिनिदर्शनम्' । ननु तनुत्वादिना व्यभिचारिणा कथं कामविकारोन्नयन- मत आह । कलयतीति । तस्याः कपोलो हिमांशोः शोभां कलयति । अनेन पा- ण्डुता दर्शिता । कीदृशः । नूतनदन्तिदन्तखण्डगौरः । छिद्यत इति छेदः खण्डः । इहाभिनवपदेन सपुलकत्वं ध्वनितम् । तथा च कपोलपाण्डुलसपुलकलादिना का- मविकारव्यासेन तदुन्नयनमिति भावः । विरहे पाण्डुतापि । यदाह—'अङ्गस्याशौ- ष्ठवं तापः पाण्डुता कृशता रतिः' ॥ २५ ॥ वर्तिर्नेत्राञ्जनलेखा । अयस्कान्तो लोहाकर्षणो मणिः । लोहधातुर्लोहरूपं द्रव्यम् । अन्तःकरणं मनः । ममान्तःक- रणमाकृष्टवतीत्यर्थः । किं बहुनेत्यनेन सखेदनिःश्वाससूचनम् । संतापेत्यादि । ममैतच्चेतस्तस्यां विषय आसक्तम्, समन्ताल्लभमस्तीत्यर्थः । संतापपरंपरैव महाव्यसनं तदर्थम् । तादर्थ्ये चतुर्थी । संततिपदेन मालतीलाभमन्तरेण याव- ज्जीवमविच्छेदस्तदलाभे प्राणहानिश्चोक्ता । कीदृशम् । अनपेक्षितनिमित्तम् । एतेन विषयालाभेऽप्यस्य स्वाभाविकी प्रीतिरुक्ता । यदाह—'अभ्यासादभिमा- नाच्च तथा संप्रत्ययादपि । विषयेभ्यश्च तत्त्वज्ञा विदुः प्रीतिं चतुर्विधाम् ॥' अनेन निजमृच्छुलुङ्गलमपि निरस्तम् । अत एवाह—प्राय इति । बाहुल्येन भगवती भवितव्यतावश्यंभावि प्राक्तनकर्म जीवानां शुभमशुभं च विदधाति । अत एव सा सर्वकषा सर्वहरा । तथा च ममावश्यकं दुःखम्, त्वं तु यथोचितं कुर्या इति भावः । आसकैल्यादापूर्वात् 'षच् समवाये' कः । सर्वंकषेति खच्प्रत्यये खित्वा- न्मुम् ॥ २६ ॥ मकरन्दः । माधवोक्तप्रीतेरनिमित्तकत्वमुपपादयति—स्नेह इति । निमित्तमिह द्वयं बाह्यमाभ्यन्तरं च । तदिह बाह्यहेत्वपेक्षः स्नेहोऽस्थिर