मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 268, कुल 377 में से
संदर्भ में पढ़ें३० जगद्धरकृता [ अङ्कः १ पृ० पं० २५ ५ अथ सा प्रण० । ०अनुचरिभिरविरलकुसुमसंचयावच- यलीलादोहदिनीभिर्० । ,, ८ यतोऽस्याः । २६ २ छेदपाण्डुः क० । ४ ०अन्तःकरणमाकृष्टवती । किं० । २७ १ वयस्य माधव, स्ने० । ,, ९ ०सोऽयमितीरयित्वा । प्रणयिनी स्निग्धा । अनुचरी दासी । संचयः समूहः । अवचयत्रोटनम् । दो- हदोऽभिलाषः । सहर्षमाह—तमेवेति । खोद्देशेनाह—कस्मिन्नपीति । 'भा- गधेयं भाग्यम्' इत्यमरः । इह्यानुमानरूपो गर्भसंधिः कस्मिंश्चिदित्यनेनोक्तः । यदाह—'व्याप्येन व्यापकज्ञानमनुमानमुदीरितम्' इति ॥ विकारचिह्नमाह— परिमृदितेति । यधास्या अङ्गं परिमृदिता मर्दनविषयीकृता या मृणाली बि- सलता तद्वन्म्लानम् । क्रियासु ताम्बूलभक्षणादिषु परिजनयाचनाभिरस्याः कथ- मपि प्रवृत्तिः । इह मृणालीपदेन तनुता, ग्लान्या निद्राच्छेदः, कथमपीत्यादिना विष- यनिवृत्तिः कथिता । तनुत्वम्लानत्वमान्थैर्ग्नानिरुक्ता । यदाह—'ग्लानौ तनुत्ववैव- र्ण्यमन्दतादिनिदर्शनम्' । ननु तनुत्वादिना व्यभिचारिणा कथं कामविकारोन्नयन- मत आह । कलयतीति । तस्याः कपोलो हिमांशोः शोभां कलयति । अनेन पा- ण्डुता दर्शिता । कीदृशः । नूतनदन्तिदन्तखण्डगौरः । छिद्यत इति छेदः खण्डः । इहाभिनवपदेन सपुलकत्वं ध्वनितम् । तथा च कपोलपाण्डुलसपुलकलादिना का- मविकारव्यासेन तदुन्नयनमिति भावः । विरहे पाण्डुतापि । यदाह—'अङ्गस्याशौ- ष्ठवं तापः पाण्डुता कृशता रतिः' ॥ २५ ॥ वर्तिर्नेत्राञ्जनलेखा । अयस्कान्तो लोहाकर्षणो मणिः । लोहधातुर्लोहरूपं द्रव्यम् । अन्तःकरणं मनः । ममान्तःक- रणमाकृष्टवतीत्यर्थः । किं बहुनेत्यनेन सखेदनिःश्वाससूचनम् । संतापेत्यादि । ममैतच्चेतस्तस्यां विषय आसक्तम्, समन्ताल्लभमस्तीत्यर्थः । संतापपरंपरैव महाव्यसनं तदर्थम् । तादर्थ्ये चतुर्थी । संततिपदेन मालतीलाभमन्तरेण याव- ज्जीवमविच्छेदस्तदलाभे प्राणहानिश्चोक्ता । कीदृशम् । अनपेक्षितनिमित्तम् । एतेन विषयालाभेऽप्यस्य स्वाभाविकी प्रीतिरुक्ता । यदाह—'अभ्यासादभिमा- नाच्च तथा संप्रत्ययादपि । विषयेभ्यश्च तत्त्वज्ञा विदुः प्रीतिं चतुर्विधाम् ॥' अनेन निजमृच्छुलुङ्गलमपि निरस्तम् । अत एवाह—प्राय इति । बाहुल्येन भगवती भवितव्यतावश्यंभावि प्राक्तनकर्म जीवानां शुभमशुभं च विदधाति । अत एव सा सर्वकषा सर्वहरा । तथा च ममावश्यकं दुःखम्, त्वं तु यथोचितं कुर्या इति भावः । आसकैल्यादापूर्वात् 'षच् समवाये' कः । सर्वंकषेति खच्प्रत्यये खित्वा- न्मुम् ॥ २६ ॥ मकरन्दः । माधवोक्तप्रीतेरनिमित्तकत्वमुपपादयति—स्नेह इति । निमित्तमिह द्वयं बाह्यमाभ्यन्तरं च । तदिह बाह्यहेत्वपेक्षः स्नेहोऽस्थिर