मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 280, कुल 377 में से
संदर्भ में पढ़ें३२ जगद्धरकृता [अङ्कः २ पृ० पं० ५१ २ णीदा० मे इअं० । ५२ ३ पेरन्तपरिअत्तणावि० । ५३ २ दअं णच्चाविदासि । ५ ०सओ णाम का० । ५४ १ ०अत्तणो पहुस्स दं० । ४ ०णिवावअंतु० । ७ अणा- सङ्को । जे० । ०संभावेमि । ९ ०रदाए लक्खिअदि० । विरहोत्कण्ठितेयम् । यदाह—‘अनेककार्यसंयुक्तो यस्या नागच्छति प्रियः । तदनागमदुःखार्ता विरहोत्कण्ठिता तु सा’ प्रियकथापरत्वे मोद्धायितभावोऽयम् । यदाह—‘श्रुत्वा कथां प्रियजनस्य सखीमुखेभ्यः कर्णोदरस्थितचलत्तनुतर्जनी- कम् । यत्साङ्गभङ्गमिह जृम्भितमङ्गनानां मोद्धायितं तदुदितं कविभिः पुराणैः ॥’ मालती । प्रतिबद्ध घटिता ॥ मालती । मालती माधवचेष्टाकर्णनाकाङ्क्ष- याजानतीवाह—कथमिव । कथं ममापराध इत्यर्थः ॥ लवङ्गिका । अत्र दौर्बल्यादिना शृङ्गारित्वे तात्पर्यमुक्तम् । तथानिर्वचनीयप्रकारेण । विहस्तो व्याकुलः ॥ लवङ्गिका । सोवीति । अत्र स त्वयापि विलोचनाभ्यां पश्यन् प्रत्यक्षीकृतो दृष्ट एवेत्यन्वयः । अपिर्भिन्नक्रमः । उद्वेल्लकम्पमानम् । विभ्रमो विशिष्टा भ्रान्तिः सोऽयमित्याकारा । सादृश्यं वा विभ्रमः । माधवस्य पुण्डरी- काक्षत्वात् । विरचनापदेशेन घटनाव्याजेन यः संयमोऽन्यादर्शनं तं प्रापिताभ्यां बलामोड्या बलात्कारेण विस्तरं गच्छद्भ्याम् । बलामोडिर्बलात्कारे देशी । यद्यप्यवलोकयन्नित्यनेन लोचनाभ्यामिति प्राप्तं तथापि विशिष्टलोचनप्रतिपाद- नार्थं तदुक्तम् । विजृम्भमाणो वर्धमानः । स्तिमितः स्निग्धः । दीर्घपर्यन्तमति- दीर्घम् । परिवर्तना पुनःपुनर्गमनम्, तत्र विलासो विशिष्टदृष्टिव्यापारस्तेन ताण्डवितया नर्तितया भ्रूलतया विडम्बितः समीकृतोऽनङ्गशारङ्गविभ्रमः काम- धनुर्विलासस्ततो विदग्धमिति क्रियाविशेषणम् । ‘गमनासनपाणिपादचेष्टा सवि- शेषं नयनध्रुवां च कर्म । दयितोपगमे यदप्रयत्नात्क्रियते नूनमयं विलास उक्तः ॥’ इति भरतः । शारङ्गरङ्गत इति प्रयोगाच्चारङ्गेति भिन्नो रेफः ॥ ‘शारङ्गं धनुषि स्मृतम्’ इति शाश्वतः । ततस्तदवलोकनविकलता मालारम्यत्वे हेतुरिति तात्पर्यमिह—मालती । आमिति तदुक्तस्वीकारे । ‘अम्मो’ इति पाठे अम्मो हर्षे वितर्के वा । विप्रलम्भितो विप्रलम्भं प्रापितः ॥ तारकादित्वा- दितच् । ततः स्वार्थे कः । आहुशब्दोऽत्राहोस्विद्वाचकः । शीलस्य बहुकालपरि- चेयतया मुहूर्तमात्रसंनिधाने विप्रलम्भचिन्ता । किमिदं नयनविकारादिक्षाभा- विकमानुरागिकं वेति ज्ञातुं न शक्यत इति भावः । ‘विप्रळम्भइस्सकाः’ इति पाठे विप्रलम्भचिन्तका इति ज्ञेयम् ॥ लवङ्गिका । अत्र मन्मथेनेति शेषः । असंगीतकं निसृतनृत्यं यथा तथा नृत्यं कारितासीत्यर्थः । सासूयं परद्वेषसहि- तम् ॥ मालती । हुमिति प्रणयकोपे ॥ लवङ्गिका । अत्र तस्मिन्भाषणे । खल हेतौ । इत्तीकृतं न्यासीकृतम् ॥ लवङ्गिका । अत्र कामयत इ-