भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 281, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 281

अङ्कः २ ] मालतीमाधवटीका । ३३ पृ० ५० ५५ १ ॰ताओ अम्मकाओ जाओ० । ॰पहवन्ति । (इति रोदिति ।) (सांस्रम् ।) १० विसेसदो अज्ज पिअसहि, (संस्कृतमाश्रित्य ।) ५६ १ ॰रागस्तीव्रं वि० । विसर्पत्यविरतं० । २ ॰निर्धूमो ज्व० । ५ ॰एव्वं जेव्व पच्च० । ७ ॰णेण सविसेससमि० । ८ ॰सं- मत्त० । ९ ॰दंसणा भविअ अज्ज० । च्छति ॥ लवङ्गिका । अत्र दुर्लभायां त्वयि मनोरथाभिनिवेशस्तेन यो दुःसहाया- स्तेन दह्यमाने चित्ते क्षणमात्रनिर्वापकमिति ॥ मालती । अत्रानासङ्गोऽनाश्वासः । लवङ्गिका स्वयं लिखित्वा माधवलेखितत्वेन बोधयतीति भावः ॥ सदृशमिति । मधुरतया निर्माणस्य सदृशं वचनमित्यर्थः ॥ तवाकृतिर्मधुरा यथा तथा वचोऽपि मधुरमित्यर्थः । यस्येदृशं वचस्तस्य कथमेवं दर्शनमित्युपालम्भपूर्विका पृच्छा । य- दाह—‘यत्र भावनयोपेतमात्मानमथवा परम् । पृच्छन्निवाभिधत्तेऽर्थं सा पृच्छेत्य- भिधीयते ॥’ नाट्यधर्मत्वेन परोक्षस्यापि प्रत्यक्षीकरणम् । यदाह—‘परोक्षेऽपि च वक्तव्यो नार्या प्रत्यक्षवत्प्रियः’ ॥ अम्मकाशब्दः स्त्रियां कन्यायां वा देशी ॥ लवङ्गिका । अत्रोत्खण्डितं छिन्नम् । बन्धनं वृन्तशाखासंयोगः । कष्ठेलिशोकः । निःसहाऽक्षमा । परिखिद्यसे परीहीयसे । एतेन कामावस्था तनुतोक्ता ॥ मालती । अस्रं नेत्रजलम् ॥ संस्कृतमिति । आसन्नमरणतया प्रकृतिविपर्ययद्योतनाय स्त्रियाः संस्कृताश्रयणम् । यद्वा मरणसमये प्राकृतस्मरणस्य हीनयोनिजन्मफलक- त्वेन बोधनात्तत्काले स्त्रियाः संस्कृताश्रयणम् । यद्वा वैदग्ध्यद्योतनाय तत् । य- दाह—‘संस्कृतभाषावाचः प्रायो नाट्येषु खलु स्त्रियाः श्लाघ्याः । क्वचिदपि विदग्ध- तायाः प्रबोधनार्थं प्रशस्यन्ते ॥’ मनोराग इत्यादि । प्रियसखि, मामथ त्रातुं न तातः प्रभवति न वा माता न वा त्वम् । कुतः । मनोराग आधिरविरतं प्रमाथी क्षोभकारी यथा तीव्रं विषं तथा विसर्पति व्याप्नोति । यथा धातुत्वगादिषु विषं व्याप्नोति तथाङ्गानि म उद्वेग इत्यर्थः । यद्वा सविशेषदर्शनाच्चित्तानुरोग इच्छा- भेदस्तीव्रं यथा तथा मनो विसर्पति व्याप्नोति दाहकारित्वाद्विषमिव । तथा विधुतः संधुक्षितोऽग्निर्यथा ज्वलति विधूननान्निर्धूमं यथा तथा स एव रागो ज्वलति ज्वा- लामालाकुलीभवति । इत इतः सर्वत्र प्रत्यङ्गं हिनस्ति पीडयति गरीयाञ्ज्वर इव । तं त्यक्त्वा ममाधिस्त्वया समाधातुं न शक्यत इति भावः । यद्वा तातस्त्रातुं न शक्नोति । नन्दननिरासेन माधवाय मददानात् । अम्बापि न तथा । तथानुवर्तमानस्य तातस्यानषेधात् । लवङ्गिकायाश्च तयोः समशीर्षिकया गणनं स्वाच्छन्द्येन स्वम- तप्रकाशनाय ॥ १ ॥ लवङ्गिका । अत्र भणितव्यं युज्यत एवेत्यर्थः । यस्याव्यक्तं दर्शने चन्द्रस्यामित्त्वं जीवितसंशयं च कुरुते तस्य व्यक्तं दर्शनं त्वदुपन्यस्तप्रकारं तापं कुरुत इति किमत्र चित्रम् । चन्द्रेऽमित्तत्वेन ज्ञानाभिधाच्छेद उक्तः । सुकु- २५ माल०