भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 286, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 286

३८ जगद्धरकृता [ अङ्कः २ पृ० प० ६७ ६ ०वैक एव । १२ ०विद्याधारः शि० । १३ ०चन्द्रमधुरः । ६८ ८ ०उग्गमो । (नेपथ्ये शङ्खध्वनिः ।) । ११ ०मवासोत्कण्ठानां० । ६९ १० ०दिणा सोवाणेण ओ० । १२ ०ष्टार्थदूतीवृत्तस्य ल० । लायुक्तः । 'नायके वर्णयेद्दूती कलावत्त्वं च रम्यताम्' इति भरतः । नयवतां चक्षुष्मतां महोत्सवस्य कारणम् । नेत्रप्रीतिजनकत्वात् । यथोदयगिरेरेको बालच- न्द्रोऽभिनवशश्युदेति सोऽपि स्फुरितगुणोन्मीलन्नैर्मल्यादिका या द्युतिः प्रभा तया सुन्दरः कान्तः कलावान्नेत्रानन्दहेतुश्च भवति ॥ १० ॥ बालत्वादितस्तदनागम- नमाशङ्क्याह—असावित्यादि । असौ शिशुरपि बालोऽपि संप्रतीहागतः । अस्तीति शेषः । कीदृशः । विद्याधारः त्रयीतदङ्गविद्यावित् । बालः पञ्चदशवर्षव- यस्कः । 'बालो वाप्यूनषोडशः' इति वचनात् । भवनान्निर्गत्य बहिर्भूय । अनेन पथिकलमपास्तम् । यौवनमाह—अविकलः पूर्णो यः शारदशशी तस्मान्मनोज्ञ- स्तद्वद्वा मनोज्ञः । यद्दृष्टिविषये पुरं नारीणां कटाक्षैः संजातनीलनलिनगवाक्षमिव भवति । कुवलयितमित्यत्र तारकादित्वादितच् । कीदृशैः । उन्मादतरलैः कामा- वेशचपलैः । यदयं रथ्यया याति तदोन्मादान्विता युवत्यो वातायनेनैनं पश्यन्ति । तन्न तन्नयनैः संजातकुवलयमिव लक्ष्यत इत्याशयः । अनेन विद्यावत्त्वनूतनत्वरम्य- त्वादिकमुक्तम् ॥ ११ ॥ विद्यामित्यनेन विद्यावशेनायात इत्यनौद्धत्यं संबन्धार्थदेवरा- तप्रस्थापनगोपनं च कृतम् ॥ मालती । सखि । श्रुतं त्वया । एतेनाभिलाषं दर्श- यति ॥ लवङ्गिका । लवङ्गिकैतद्घटयति । अनेन महाकुलिनत्वं न तु कामन्दक्याः कल्पनेति दर्शितम् ॥ कामन्दकी । कालातिपातः कालक्षेपः ॥ क्षिपन्नि- त्यादि । संप्रति गगनेऽयं संध्याशङ्खध्वनिः संध्याकालसूचकः शङ्खशब्दो विच- रति श्रूयते । किं कुर्वन्, विहगमिथुनानां चक्रद्वन्द्वानां प्रत्यासन्नविरहात्सोत्कण्ठा- नाम् । निद्रैव मुद्रा । संभाषणप्रतिरोधात् । तां प्रथमतः क्षिपन्हरन् । कीदृ- शीम् । मदनकलहः सुरतं तस्य छेदोऽवसानं तेन सुलभाम् । यद्वा मदनकलह- श्छिद्यतेऽनेनेति घञ् । 'पुंसि संज्ञायाम्' इति वा घः । मदनकलहच्छेदो रतं ततः सुलभाम् । सुरतश्रमजनितामित्यर्थः । संप्रति धवलगृहाणां महत्सु गह्वरप्रदेशेषु प्रतिध्वनितो घनतां दधानः । अत एवानिभृतः प्रौढः संन्विचरति । यद्वा प्रथ- मतः खे विचरति तदनु दिवा केलिकलहच्छेदात्सौधसमीपतरुनिवासकलविङ्कमि- थुनानां निद्रामुद्रां क्षिपन्विचरति । ते हि प्रबलशङ्खध्वनिनिबोधिताः कलकलं कुर्वन्तीति भावः ॥ १२ ॥ मालती । अपवार्य निभृतम् । 'निगूढभावसंयु- क्तमपवारितकं भवेत्' इति भरतः । अधुना मनःप्रविष्टसाहसवाञ्छया ब्रूते— लवङ्गिका । 'संजणणं' इति पाठे संजननं सोपानमेव ॥ कामन्दकी । तटस्थतया घटितकत्वेन साधूक्तम् । निसृष्टार्थेति । 'स्त्रीपुंसयोराशयमादधाना स्वयं च कार्यं प्रतिपादयन्ती । सृष्टार्थिका सा परदारयोगे दूती नियोज्या बहुधा सुधीभिः ॥' इति भरतः । मालतीं प्रतीत्यनेन मदयन्तिकां प्रति विघ्नत एवेति भावः ॥