भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 288, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 288

तृतीयोऽङ्कः । पृ० प० ७१ ४-५ ०द्भासि । को वि अ कालो भ० । ८ ०संकरघरसंबद्ध । ७२ ३ ०संकरघरं ग० । ६ भोदु त्ति । तु० । ७३ २ ०आए दूरं आरोविदो परोक्खाणुराओ । एसो अ से मणो० । ७ (ततः प्रविशति कामन्दकी ।) । १० कति- पयाहेन स० । १३ प्रीत्या दायं द० । परिचयस्यान्योन्यदर्शनालापादिरूपसमागमात्मकतया तदारम्भस्य प्रतिज्ञात- त्वेन तन्निर्वाहिकाया मदयन्तिकायाः सूचनाय तत्संबन्धाद्बुद्धरक्षिताप्रवेशः । यद्वा नियुक्तैव मया बुद्धरक्षितेत्यनेन प्रथमाङ्के द्वितीये च मालतीं प्रति लघूकृतो भार इत्यनेन सूचितो बुद्धरक्षितायाः प्रवेशः ॥ अवलोकिता । अत्र प्रमुग्धा प्रसृता । पिण्डपातः सौगतान्नम् । कोऽप्यकालो निषिद्धकालः । तथा च सदैव मालतीस- मीपे भगवती वर्तत इत्यर्थः ॥ बुद्धरक्षिता । हुमनुमतौ स्मरणे वा ॥ अवलो- किता ॥ अत्र कुब्जकं 'कूआ' इति ख्यातस्तरुविटपः । कुब्जकव्यासक्ताशोकव- नस्य दुःसंचारत्वाद्विजनत्वं सूचितम् । पर्यन्तो मध्यम् । 'गहनं काननं वनम्' इत्य- मरः ॥ अवलोकिता । अत्र किलालीके । सौभाग्यवृद्धिप्रयोजनस्य व्याजलात् । एवमिति । स्वहस्तत्रोटितपुष्पैर्देवताः पूजयेत्यर्थः। आनेष्यतीति । मालती- माधवयोरतर्कितदर्शनेन विजने तयोरनुरागो वर्धतामिति भगवत्या आशय इति भावः ॥ बुद्धरक्षिता । अत्रामन्त्रिताहूता । गच्छामि । मदयन्तिकास्थानमिति शेषः ॥ अवलोकिता । मकरन्दमदयन्तिकापरिणये किं वृत्तमिति भावः । बुद्धरक्षिता । अत्र विश्रम्भो विश्वासः । ईदृशस्तादृश इति मकरन्दगुणप्रकाश- नमित्यर्थः । तस्या मदयन्तिकायाः । तं मकरन्दम् ॥ अवलोकिता । त्वया भगवतीभारो लघूकृत इति भावः ॥ तथेत्यादि । तथा तेन प्रकारेण विनयन- म्राद्युद्गताकारतया नम्रा मालती कतिपयदिनेरशयाच्छकुन्तलादिकथया मया स- ख्यामिव विश्वासबुद्धिप्रवर्तनेन सेव्यतां शालीनत्वादिपरिहारं नीता । अत्रापिशब्द एवार्थे । यद्वा अविनयनम्रापीत्यकारप्रश्लेषः कतिपयाहोभिरित्यत्राह्नो जातिपरतया न समान्तविधिः ॥ १ ॥ सखीचिह्नं दर्शयति—व्रजतीत्यादि । संप्रति य- तोऽस्माकं विरहे दौर्मनस्यं गच्छति नः संनिधौ प्रसन्ना भवति । विजने रमते मया सहेति शेषः । प्रीत्या दायं सोल्लुण्ठनमुत्तरं ददाति । यद्वा दायं कर्पूरादिदेयं ददाति । गमनसमये मामनुवर्ततेऽनुगच्छति । ततः कण्ठे लग्ना सती पुनःपुनर्नि- रुध्य मां शपथैः प्रणम्य तत्क्षणमेव प्रत्यावृत्तिं पुनरागमनं याचते च । सख्योऽप्येवं कुर्वन्ति । अतः सखीत्वं गता सा मे मनोगतं करिष्यतीति भावः । 'देये दाने