मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 288, कुल 377 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः । पृ० प० ७१ ४-५ ०द्भासि । को वि अ कालो भ० । ८ ०संकरघरसंबद्ध । ७२ ३ ०संकरघरं ग० । ६ भोदु त्ति । तु० । ७३ २ ०आए दूरं आरोविदो परोक्खाणुराओ । एसो अ से मणो० । ७ (ततः प्रविशति कामन्दकी ।) । १० कति- पयाहेन स० । १३ प्रीत्या दायं द० । परिचयस्यान्योन्यदर्शनालापादिरूपसमागमात्मकतया तदारम्भस्य प्रतिज्ञात- त्वेन तन्निर्वाहिकाया मदयन्तिकायाः सूचनाय तत्संबन्धाद्बुद्धरक्षिताप्रवेशः । यद्वा नियुक्तैव मया बुद्धरक्षितेत्यनेन प्रथमाङ्के द्वितीये च मालतीं प्रति लघूकृतो भार इत्यनेन सूचितो बुद्धरक्षितायाः प्रवेशः ॥ अवलोकिता । अत्र प्रमुग्धा प्रसृता । पिण्डपातः सौगतान्नम् । कोऽप्यकालो निषिद्धकालः । तथा च सदैव मालतीस- मीपे भगवती वर्तत इत्यर्थः ॥ बुद्धरक्षिता । हुमनुमतौ स्मरणे वा ॥ अवलो- किता ॥ अत्र कुब्जकं 'कूआ' इति ख्यातस्तरुविटपः । कुब्जकव्यासक्ताशोकव- नस्य दुःसंचारत्वाद्विजनत्वं सूचितम् । पर्यन्तो मध्यम् । 'गहनं काननं वनम्' इत्य- मरः ॥ अवलोकिता । अत्र किलालीके । सौभाग्यवृद्धिप्रयोजनस्य व्याजलात् । एवमिति । स्वहस्तत्रोटितपुष्पैर्देवताः पूजयेत्यर्थः। आनेष्यतीति । मालती- माधवयोरतर्कितदर्शनेन विजने तयोरनुरागो वर्धतामिति भगवत्या आशय इति भावः ॥ बुद्धरक्षिता । अत्रामन्त्रिताहूता । गच्छामि । मदयन्तिकास्थानमिति शेषः ॥ अवलोकिता । मकरन्दमदयन्तिकापरिणये किं वृत्तमिति भावः । बुद्धरक्षिता । अत्र विश्रम्भो विश्वासः । ईदृशस्तादृश इति मकरन्दगुणप्रकाश- नमित्यर्थः । तस्या मदयन्तिकायाः । तं मकरन्दम् ॥ अवलोकिता । त्वया भगवतीभारो लघूकृत इति भावः ॥ तथेत्यादि । तथा तेन प्रकारेण विनयन- म्राद्युद्गताकारतया नम्रा मालती कतिपयदिनेरशयाच्छकुन्तलादिकथया मया स- ख्यामिव विश्वासबुद्धिप्रवर्तनेन सेव्यतां शालीनत्वादिपरिहारं नीता । अत्रापिशब्द एवार्थे । यद्वा अविनयनम्रापीत्यकारप्रश्लेषः कतिपयाहोभिरित्यत्राह्नो जातिपरतया न समान्तविधिः ॥ १ ॥ सखीचिह्नं दर्शयति—व्रजतीत्यादि । संप्रति य- तोऽस्माकं विरहे दौर्मनस्यं गच्छति नः संनिधौ प्रसन्ना भवति । विजने रमते मया सहेति शेषः । प्रीत्या दायं सोल्लुण्ठनमुत्तरं ददाति । यद्वा दायं कर्पूरादिदेयं ददाति । गमनसमये मामनुवर्ततेऽनुगच्छति । ततः कण्ठे लग्ना सती पुनःपुनर्नि- रुध्य मां शपथैः प्रणम्य तत्क्षणमेव प्रत्यावृत्तिं पुनरागमनं याचते च । सख्योऽप्येवं कुर्वन्ति । अतः सखीत्वं गता सा मे मनोगतं करिष्यतीति भावः । 'देये दाने