मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 289, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः ३ ] मालतीमाधवटीका । ४१ पृ० प० ७५ ७ मरालमंसलजह० ८ ०चलणसंचारमसिणगमणोवणी- दसे० । ९ बिन्दुज्जन्तमु० । १० ०इदो पविसह । ७६ २ (सहर्षम् ।) हन्त० । ५ संतापद्ग्धस्य शिख० । च दायः स्याद्दायः सोल्लुण्ठभाषणे' इति मेदिनीकारः ॥ २ ॥ साधीयः साधुः । नि- बन्धनं कारणम् ॥ शकुन्तलादीनित्यादि । इयं शकुन्तलादीनितिहासवादा- न्पुरावृत्तान्त्यन्यपरैर्वचोभिरन्यकथाप्रसङ्गेन प्रस्तावयति । शकुन्तलादिभिःपितृनि- रपेक्षमेवात्मा दत्त इति भगवति किं सत्यमिति मां पृच्छतीति भावः । अत्रान्यप- देनाखेटकाश्रमवर्णनशुश्रूषादेः साक्षादुद्देश्यत्वं साहसकरणं चाशयस्थमिति सूचि- तम् । एवमिति श्रुत्वा चेतोधृतनायकानुसरणान्मदीयक्रोडे निवेशितशरीरा भवति । ततः किमेवं करोमीति चिन्तास्तिमितत्वं निश्चलत्वं चिरकालमेति । चिन्तेत्युपल- क्षणम् । निश्वासादिनापि लक्षिता भवतीत्यर्थः । यद्वा मदिति पञ्चमी । मत्सका- शाच्छ्रुत्वैवं करोतीत्यर्थः ॥ ३ ॥ समक्षं प्रत्यक्षम्। उत्तरमनन्तरकृत्यम् ॥ इत आगच्छे- ति शेषः ॥ लवङ्गिका । अत्रैष खलु कुसुमाकरोद्यानमारुतस्त्वां परिष्वजतीति सं- बन्धः । कीदृशः । अतिमधुरमधुरसेनात्यार्द्राया मञ्जर्याः कवलने भक्षणे केलिः क्रीडा तया कलमकव्यक्तध्वानं यत्कोकिलकुलं तस्य कोलाहलेनाकुलितादतिसुरभीभूतशिख- रादुड्डीनषट्पदो मनोज्ञो यो भ्रमरसमूहस्तस्य संपर्केण विकसितपुटस्यात एव करालस्य दन्तुरस्य चम्पकस्याधिवासेन गन्धेन मनोहराः । एतेन शैत्यसौगन्ध्ये दर्शिते । सह- कारमञ्जरीणां कोकिलाकुलत्वं भ्रमरस्य तत्यागे हेतुः । मरालो हस्ती हंसो वा । तस्य मांसलजघनपरिणाहोद्वहनेन मन्थरावलसौ यावूरू । त्वदीयाविति भावः । तयोर्गौरवेण विसंष्ठुलं विषमं यथा तथा स्खलितस्य चरणस्य संचारेण मसृणं मन्दं यद्गमनं तेनोपनीतेन खेदशीकरेणामृतबिन्दुसदृशे मुग्धमुखचन्द्रे । अर्थात्तव । चन्दनायमानः शीतलः स्पर्शो यस्य सः । अनेन मान्द्यं शैत्यमपि ध्वनितम् । 'सह- कारोऽतिसौरभः' इत्यमरः । 'चञ्चरीकोऽलिगीतयोः' इति धरणिः । 'करालो दन्तुरः' इत्यमरः । 'मरालो हंसगजयोर्मरालो विस्तृते शुभे' इति विश्वः । तेन मरालस्य विस्तृतस्य शुभस्येति वा योज्यम् । 'मसृणं चिकणं समम्' इत्यमरः ॥ माधवः । हन्त हर्षे । परागता याता ॥ आविरित्यादि । इयं भगवती प्रि- यायाः पुरस्तादाविर्भवन्ती प्रथमं मम चित्तं सविकासं करोति । कीदृशस्य । संता- पदग्धस्य कामाग्निदग्धस्य । यथा विद्युद्वृष्टेः पुरस्तादाविर्भवन्ती मयूरतरुणस्य चित्तं सोच्छ्वासं करोति निदाघतप्तस्य । युवग्रहणंमुन्मादहेतुद्योतनाय । प्रियाया इत्यत्र 'षष्ठयतसर्थप्रत्ययेन' इति षष्ठी । अत एव प्रियायाः प्रथममिति न योजना । प्रथमपदयोगे षष्ठयभावात् । अनेन प्रियाप्यागमिष्यतीति सूचितम् ॥ ४ ॥ माल- तीत्यत्रापिशब्दो गौरवे । निपातानामनेकार्थत्वात् ॥ आश्चर्यमित्यादि । अस्याः पद्माक्ष्या मुखनिर्मलचन्द्रसंनिधौ वारंवारं जडिमानं सर्वकार्याप्रतिपत्तिरूपं प्राप्य