भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 290, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 290

पृ० प० ७६ ७ दृष्ट्वा लव० । १० जाड्येन च० ७८ १ ०वि अण्णारिसं अ० । ८ ०जातासि । तथाहि० । ८० ३ ०मामकीनस्य । ०यं निब० । जाड्येन जडिम्ना करणेन मम मनसा विकारः स्वरूपान्यथाभावः संधार्यते । की- दृशः । द्रवमय इव द्रवमयः । हृदयद्रवीकरणात्स्वेदादिमत्त्वाच्च । अन्यस्याः समाग- माद्द्रवमयोविकारोऽस्यास्तु सांनिध्यादेवेति कर्मातिशयदर्शनादाश्चर्यम् । यदाह भ- रतः—'कर्मातिशयनिर्वृत्तो भवेद्विस्मयसंभवः । सिद्धिस्थानेष्वसौ साध्यः प्रहर्षपुल- कादिभिः॥' यथामलेन्दुसंनिधौ जडिमानं शैत्यमासाद्य शैलेनैव चन्द्रकान्तेन शैलस्य द्रवमयो विकारो द्रवत्वं संधार्यते । अत्र महीधरसादृश्येन माधवस्य धीरत्वादिगुणा- वष्टम्भसंभार उक्तः । 'जात्येन' इति पाठे जात्येन जातिमत्ता । उत्कृष्टेनेति यावत्। चन्द्रकान्तेनेत्यस्य परं विशेषणं द्रष्टव्यम् । यद्वा मनोविशेषणमपि । जात्येनाभिज- नवतापि । अत्रापिरध्याहार्यः । अत एवाश्चर्यम् ॥ ५ ॥ संप्रतीति । पुरा का- मवेगस्याङ्कुरावस्थया रमणीया । अधुना तु तस्य पल्लवितत्वेन रमणीया ॥ इदमेव स्फोटयति—ज्वलयतीत्यादि । संप्रति मालत्यङ्गैः कामाग्निमुद्दीपयति । चित्तं सोन्मादं करोति । नेत्रं कृतप्रयोजनं विधत्ते । ममेति शेषः । कीदृशैः । परिमृ- दितचम्पकमालावद्विलासैर्ललितैश्चालसैर्मन्दैर्लज्जया निभृतत्वेनेति भावः । 'यान- स्थानासनादीनां नेत्रवक्त्रादिकर्मणाम् । उपयातविशेषो यः स विलासो मतो बुधैः ॥' इति भरतः । 'हस्तपादाङ्गविन्यासभ्रूनेत्रोष्ठप्रयोजितम् । सुकुमारविधानेन ललितं तन्निगद्यते ॥' इति भरतः । यद्वा परिमृदितचम्पकमालाविलासानि म्लानानि । ललितानीतस्ततः क्षिप्तानि । अलसानि मन्दानि । ततस्त्रिपदकर्मधारयः । ललधा- तुश्चञ्चल्यार्थेऽपि । धातोरनेकार्थत्वात् । 'लुलितैरलसैः' इति पाठे लुलितानीतस्ततः क्षिप्तानीत्यर्थः ॥ ६ ॥ प्रथमेत्यादि । संप्रति मया मेघमालाभवजलसेचनेन क्ष- णबद्धकलिकनीपस्य डम्बरः साम्यं प्रपञ्चो वावलम्ब्यते । कीदृशेन । प्रथमप्रियाव- चनसंश्रवणाद्व्यक्तरोमाञ्चेन । संस्तवेति पाठे संस्तवः परिचयः । तदनेन दृष्टान्तेन सर्वाङ्गीणं पुलकं तस्य च स्थैर्यमुक्तम् । 'घनजीमूतमुदिर' इत्यमरः ॥७॥ माधवः । अपरिमेयेत्यादि । पुष्पत्रोटनकाले मालतीस्तनमुकुलादिदर्शनादानन्दसंदोहेन माधवस्य संतोषप्रकाश इति भावः ॥ अज्ञातमाधवसंनिधानां मालतीं श्रमोपन्या- सव्याजेन कामन्दकी श्लिष्टनर्मवचनमाह—अयीत्यादि । निःसहा परिश्रान्तासि लमतो विरम त्यज । खेदमिति शेषः । यद्वा विरम पुष्पावचयात् । उपविशेति भावः । पक्षे निःसहा कामाद्ग्लाना त्वं जातासि ततो विशेषेण रमस्व । आशंकायां लोट् ॥ स्खलयतीत्यादि । हे सुभ्रु शोभनभ्रूयुते, वल्लभालोकनेन समं यथा तथा त्वयि खेदो विलसति स्वव्यापारं कुरुते । यथा वल्लभालोकनं तथा खेद इति भावः । पक्षे वल्लभेनावलोकनं खेदश्च । अत एव सर्वथेति तुल्यत्वम् । तदेवाह—

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क) · पृष्ठ 290, कुल 377 में से · BharatKosha