मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 290, कुल 377 में से
संदर्भ में पढ़ेंपृ० प० ७६ ७ दृष्ट्वा लव० । १० जाड्येन च० ७८ १ ०वि अण्णारिसं अ० । ८ ०जातासि । तथाहि० । ८० ३ ०मामकीनस्य । ०यं निब० । जाड्येन जडिम्ना करणेन मम मनसा विकारः स्वरूपान्यथाभावः संधार्यते । की- दृशः । द्रवमय इव द्रवमयः । हृदयद्रवीकरणात्स्वेदादिमत्त्वाच्च । अन्यस्याः समाग- माद्द्रवमयोविकारोऽस्यास्तु सांनिध्यादेवेति कर्मातिशयदर्शनादाश्चर्यम् । यदाह भ- रतः—'कर्मातिशयनिर्वृत्तो भवेद्विस्मयसंभवः । सिद्धिस्थानेष्वसौ साध्यः प्रहर्षपुल- कादिभिः॥' यथामलेन्दुसंनिधौ जडिमानं शैत्यमासाद्य शैलेनैव चन्द्रकान्तेन शैलस्य द्रवमयो विकारो द्रवत्वं संधार्यते । अत्र महीधरसादृश्येन माधवस्य धीरत्वादिगुणा- वष्टम्भसंभार उक्तः । 'जात्येन' इति पाठे जात्येन जातिमत्ता । उत्कृष्टेनेति यावत्। चन्द्रकान्तेनेत्यस्य परं विशेषणं द्रष्टव्यम् । यद्वा मनोविशेषणमपि । जात्येनाभिज- नवतापि । अत्रापिरध्याहार्यः । अत एवाश्चर्यम् ॥ ५ ॥ संप्रतीति । पुरा का- मवेगस्याङ्कुरावस्थया रमणीया । अधुना तु तस्य पल्लवितत्वेन रमणीया ॥ इदमेव स्फोटयति—ज्वलयतीत्यादि । संप्रति मालत्यङ्गैः कामाग्निमुद्दीपयति । चित्तं सोन्मादं करोति । नेत्रं कृतप्रयोजनं विधत्ते । ममेति शेषः । कीदृशैः । परिमृ- दितचम्पकमालावद्विलासैर्ललितैश्चालसैर्मन्दैर्लज्जया निभृतत्वेनेति भावः । 'यान- स्थानासनादीनां नेत्रवक्त्रादिकर्मणाम् । उपयातविशेषो यः स विलासो मतो बुधैः ॥' इति भरतः । 'हस्तपादाङ्गविन्यासभ्रूनेत्रोष्ठप्रयोजितम् । सुकुमारविधानेन ललितं तन्निगद्यते ॥' इति भरतः । यद्वा परिमृदितचम्पकमालाविलासानि म्लानानि । ललितानीतस्ततः क्षिप्तानि । अलसानि मन्दानि । ततस्त्रिपदकर्मधारयः । ललधा- तुश्चञ्चल्यार्थेऽपि । धातोरनेकार्थत्वात् । 'लुलितैरलसैः' इति पाठे लुलितानीतस्ततः क्षिप्तानीत्यर्थः ॥ ६ ॥ प्रथमेत्यादि । संप्रति मया मेघमालाभवजलसेचनेन क्ष- णबद्धकलिकनीपस्य डम्बरः साम्यं प्रपञ्चो वावलम्ब्यते । कीदृशेन । प्रथमप्रियाव- चनसंश्रवणाद्व्यक्तरोमाञ्चेन । संस्तवेति पाठे संस्तवः परिचयः । तदनेन दृष्टान्तेन सर्वाङ्गीणं पुलकं तस्य च स्थैर्यमुक्तम् । 'घनजीमूतमुदिर' इत्यमरः ॥७॥ माधवः । अपरिमेयेत्यादि । पुष्पत्रोटनकाले मालतीस्तनमुकुलादिदर्शनादानन्दसंदोहेन माधवस्य संतोषप्रकाश इति भावः ॥ अज्ञातमाधवसंनिधानां मालतीं श्रमोपन्या- सव्याजेन कामन्दकी श्लिष्टनर्मवचनमाह—अयीत्यादि । निःसहा परिश्रान्तासि लमतो विरम त्यज । खेदमिति शेषः । यद्वा विरम पुष्पावचयात् । उपविशेति भावः । पक्षे निःसहा कामाद्ग्लाना त्वं जातासि ततो विशेषेण रमस्व । आशंकायां लोट् ॥ स्खलयतीत्यादि । हे सुभ्रु शोभनभ्रूयुते, वल्लभालोकनेन समं यथा तथा त्वयि खेदो विलसति स्वव्यापारं कुरुते । यथा वल्लभालोकनं तथा खेद इति भावः । पक्षे वल्लभेनावलोकनं खेदश्च । अत एव सर्वथेति तुल्यत्वम् । तदेवाह—