मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 295, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः ३ ] मालतीमाधवटीका । ४७ पृ० पं० ८६ ६ ॰णीसाससेसजीविदा किं० । ॰दामूढदाए पढमप्प० । ८ वावारं अह्मारिसं जणं क० । ९ ॰प्परिवेलवेसुअङ्गे । ८७ १ ॰स्स भविस्सदि । क० । २ ॰कोवोवराअप० । ४ ॰परिमलुग्गारसंवलणम० । ५-६ ॰मुहा वसन्तरअणी- परिणाहा अण० । ७ कामन्दकी—लवङ्गिके, यदि० । ८८ १ ॰एव हृदयोद्वेगो भ० ।
गलितो निःसृतः । अनेन युगपन्नासापुटनिःसरणमाह । मूर्च्छाविच्छेदे तथैव श्वा- सप्रवृत्तेः । जीवितेति । मोहे सखीजनसेकादिना मूर्च्छापगमे दीर्घनिःश्वासेन जीवतीत्यवधार्यत इत्यर्थः । किंकर्तव्येति । जीविता सती किं करोमीति न वेत्तीत्यर्थः । प्रथमेति । वयमेव प्रथमं म्रियामह इत्यर्थः । स्वयमनध्यवसायाल्ल- वङ्गिका कामन्दकीं पृच्छति—तस्मात्प्रेक्षतां भवतीति । पेलवं कोमलम् । दारुणत्वं देहदाहादिकारित्वात् । इमानि विभावरीमुखानि प्रियसख्याः कथ- मेवं भविष्यन्तीत्यन्वयः । उपरागो लौहित्यम् । पल्लवितः पल्लवाकारीकृतः । केरली केरलदेशस्त्री । तस्या अतिगौरत्वेन लौहित्यार्थ ग्रहणम् । उद्वेलन्पतन् । उद्दामदलितमतिदारितम् । इह दृष्टकेरलीकपोलसाम्येनोदितचन्द्रेण तिमिरावरण- नाशे रात्रेरुपक्रमः कथितस्ततश्चन्द्रस्य दुःसहता मालत्या ध्वनिता । परिमलितं कृ- तम् । निर्मन्थनं मर्दनम् । उद्गार उद्गमः । संवलनं मिश्रीभावः । मसृणं मन्दम् । मांसलः पुष्टः । धूमायितं धूमेनेवाकुलीकृतम् । परिणाह आभोगः ॥ काम- न्दकी । एवं श्रुत्वा कामन्दकी तटस्थेवाह—यदीत्यादि । यदि तद्विषयोऽनु- रागस्तदा गुणज्ञतायाः प्रत्युक्तमेतद्विशिष्टं फलम् । तदा सैव गुणं जानातीत्यर्थः । एतद्धीति पाठ एतद्गुणज्ञतायाः फलमेवेत्यर्थः । हिरवधारणे । इति नन्दितमानन्दं प्रापितमपि मे हृदयमस्या अवस्थया विदार्यते । एतदवस्थतया मरणमप्यस्याः संभाव्यत इति भावः ॥ १३ ॥ माधवः । स्थाने युक्तम् । स्थानेशब्दोऽत्र योग्य- वाची । ह्लासो हृदयशोषः । कामन्दकी । प्रकृतीत्यादि । अस्या वपुरिदं स्वभावसुन्दरं सौकुमार्यमेवैकः सारः स्थिरांशो यत्र तत् । एतत्सत्यं निश्चितम् । अयमेव कामचरितानुभावात्कामोऽप्ययं निर्दयः । अदोऽपि सत्यम् । पञ्चबाण इत्यनेनैकबाणापेक्षया दुःसहत्वमुक्तम् । अयमपि कालश्चलन्मलयानिलकम्पि- तचूतपुष्पशारचन्द्रभूषणश्च । कथमिति शिरश्चालने । हिमादेरपगमाच्चारु- चन्द्रत्वम् । तदीदृशेऽनर्थहेतौ कथमियं जीविष्यतीत्यहो प्रमादः । अत्र नाथपदेन चित्रगतस्यापि माधवस्य मालतीनाथत्वं ध्वनितम् ॥ १४ ॥ लवङ्गिका । विरचितेति हेतोः । जीवितफलक्लृप्ताज्जीवितम् । कार्यकारणयो-