मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 296, कुल 377 में से
संदर्भ में पढ़ें१८ जगद्धरकृता [ अङ्कः ३
पृ० ५० ८९ १ माधवः—(सस्पृहम् ।)० । ७ ॰संकरघराधिवासिणो जणवदा० । ॰रम्भणवसंभरि० । ८ ॰पञ्जरणिबद्धसिङ्ख- लाणिरोहपडिभङ्गसंकलिदणिअलीला० । ९ ॰सुवेल्लन्त- बहलुत्तुङ्ग० । १० ॰न्तिअडम्बरुद्दा० । ९० १-२ ॰कन्दरो पअण्डवज्जणिघाददारुणचवेडामोडणपा- डिदाणेअणरतु० । ३ ॰दम्भपडिरवाभीअसाविदणट्ठ- विद्वाविदा० । ४ ॰कप्परक्रमणणिद्ददारिदज० । ५ ॰डूलो
रमेदात् । माधवः । स्तनांशुकापनयनेन व्यक्तस्तनदर्शनात्सस्पृहम् । जितमि- त्यादि । सखि बकुलमाले, त्वयेह भुवने जितम् । यतः प्रौढमृणालदण्डपा- ण्डुरमनोहरस्तनविस्तारविलासपताकेवास्या मालत्या वल्लभा जातासि । मालती- वल्लभत्वात्सखीत्युक्तम् । हृदयधारणेन वल्लभेत्युक्तम् । तथा च मालत्यालिङ्गनं तव संपन्नं न ममेति भावः ॥ १५ ॥ कलकलः कोलाहलः । पुनर्नेपथ्य इति । अत्रैष व्याघ्रः क्षुद्वयमविलासं कुरुते । सर्वं भक्षयतीत्यर्थः । मठाच्छात्रादिगृहात्रि- र्गत्य । कीदृशः । यौवनारम्भेण प्रवृद्धौ यौ दुःसहावक्षान्तिक्रोधौ तयोर्मिलनेन यो बलात्कारस्तेन विघटितं त्यक्तबन्धीकृतमुद्घाटितं मोटितं च यल्लोहपञ्जरं तत्र प्रतिबद्धशृङ्खलानिरोधप्रतिभङ्गो विपरीतभङ्गस्तेन संकलिता मिलिता या निजलीला तद्विलासपर्यन्तमुद्वेल्लन्कम्पमानोऽत एवोच्छलन्नूर्ध्वं गच्छन्यो बहल- तुङ्गलाङ्गूलः स्थूलोच्छितलाङ्गूलस्तस्य विस्तीर्णवैजयन्तिकासदृशप्रपञ्चेनोड्डामर उ- त्कटकठोराक्रियः शरीरसंनिवेशो यस्य सः । परगुणासहिष्णुतामर्षः । रोषः क्रोध एव । यद्वा स्थिरः क्रोध एवामर्षः । यदाह—'क्रोधः कृतापराधेषु स्थिरोऽमर्ष इति स्थितः । प्रतिकूलेषु तैक्ष्ण्यस्य प्रबोधः क्रोध उच्यते ॥' यद्वा अमर्षोऽक्षान्तिः । तत्क्षणं सतृष्णं कवलिता येऽनेकप्राणिशरीरावयवास्तेषां मध्ये कठोराणि यान्य- स्थीनि तेषां खण्डे खण्डने यटङ्कारो ध्वनिर्भेदस्तेन कटकटायमानाः करपत्रवत्क- ठिना या दंष्ट्रास्ताभिः कराळो भीषणो मुखकन्दर आस्यकुहरं यस्य सः । टङ्कारेण दुर्भेद्यत्वमुक्तम् । दुर्भेद्यप्रवृत्तौ दन्तानां कटकटाशब्दकरणं स्वभावः । विस्तीर्णला- ङ्गूलकन्दर इव कन्दरः । प्रचण्डवज्रप्रहारदारुणो यश्चपेटः पाणितलप्रहारस्तेन यदामो- टनं चूर्णनं तेन कवलिता आस्वादिता येऽनेकनराखुरङ्गाश्च तेषां जाङ्गलं मांसं तस्यो- द्गारेण प्रपूरणेन भरितो यो गलगुहागर्भस्तत्र गम्भीरो घर्घरो दीर्घमधुरो य उरलिर्ग- ल्गर्जितं तेन यो गल्हपूरणशब्दस्तस्य संदर्भेण समूहेन प्रतिरवाभोगः प्रतिशब्दवि- स्तारस्तेन भीषितो भयं नीतो नष्टो विद्राणो निष्ठापितो निष्ठापर्यन्तं लम्भितोऽशेषज- ननिवहो येन सः । कठोरनखकर्पराक्रमणेन निर्दयं दारितं यज्जन्तुशरीरं ततः प्रवृत्त- रक्तेन संजातरुधिरेण कर्दमीकृतो गतिपथो गमनवाटो येन सः । कर्पर इव कर्परः ।