भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 297, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 297

अङ्कः ३ ] मालतीमाधवटीका । ४९ पृ० प० कुविअक० । ६ ०ता रक्खध जहासात्ति पिअसहीए मदअन्तिआए जीवि० । ९१ ६ माधवः—(ससंभ्रममुत्थाय ।) बुद्ध० । ९२ ४ माधवः—(साटोपं परिक्रामति ।) । ४-५ काम- न्दकी—अप्रमत्तो भूत्वा विक्रमस्व । ०खु जादो । (सर्वास्त्वरितं परिक्रामन्ति ।) ९३ ३ ०तदभिपाति० । ०युधः पूरुषात् । ६ ७ ८ काम- न्दकीमाधवौ—(सभयम् ।) दृढं च पशुना हतः । इतराः—अच्छाहिदं अच्छाहिदं । कामन्दकीमा- निम्नत्वात् । 'उरल्लिंर्गलगर्जितम्' इति रत्नकोशः । माधवः । मदयन्तिका- परिरक्षणत्वरयाह—कासाविति । मालती । अम्महे सभयहर्ष आश्चर्य वा । एषोऽपीहस्थ एव । अत्रापिर्विस्मये । यस्यावस्था भगवत्योक्ता, यन्निमित्ता वा ममेयमवस्था स एष इति भावः । स्वच्छन्दप्रियालोकनतुष्टस्य माधवस्योक्तिः— हन्तेत्यादि । अविरलेत्यादि । अयं श्लोको गद्यादिः । हन्त हर्षे । अचि- न्तिनोपस्थितदर्शनानन्दितलोचनयानया चक्षुषा पौण्डरीकेणेव दाम्ना स्रजाविरलं घनं यथा तथाहं नद्धो बद्धः । आवृत इति यावत् । कान्तालोकनेन सात्त्विकभावा- विर्भावात्सखीयास्तम्भं ज्ञात्वा नद्ध इत्युत्प्रेक्षितम् । अत्राविरलपदेन पौनःपुन्यं पुण्डरी- कपदेन श्वेतभागविभावनं च ध्वनितम् । दुग्धस्रोतसा दुग्धाम्भःप्रवाहेण निर्भरेण निरतिशयेन संसक्तेन वा स्रपित इवाहुत इवाहम् तथाविधालोकनजातो रोमाञ्च- तया स्रपितत्वेनोत्प्रेक्षितम् । अत्र निर्भरपदेन परिचयपर्यवसानतोक्ता । एवं च द्वाभ्यां नेत्रनैर्मल्यमुक्तम् । कृत्स्नो निःशेषोऽहं स्फारितेन विस्तारितेन चक्षुषा कब- लित इव पीत इव । स्फारितत्वेन कवलनयोग्यतोक्ता । कवलनेन बाह्यसंवेदना- भावात्प्रणय उत्प्रेक्षितः । सान्द्रेण निबिडेन सुधामयजलधरेण प्रसभं बलात्सिक्त- इवाहम् । आनन्दातिशयशालितयामृतसिक्तत्वेनोत्प्रेक्षा । तदिह माधवस्य परम- निर्वृतिसौख्यमुक्तम् । तत्र च प्रथमपदेन तारकातरलता, द्वितीयेन गोलकचाञ्च- ल्यम्, तृतीयेन पुटविस्तारो विलासश्च, चतुर्थेन चैतन्न्रयसंपत्तौ पुष्यवत्तोपपादनम्, तत्रापि मेघपदेन संतापशान्तिः, अमृतपदेन स्तम्भसंभावना, प्रसभपदेन तत्सं- गतिरेव विपत्प्रतीकार इति सूचितम् । सेचनपदेन तस्मिन्दरालोकनेऽसंपूर्णता- सान्द्रपदेन तात्कालिकसकलक्लेशविलयः सूचितः । स्रोतसां निर्झरेणेति पाठे निर्झ- रेण प्रवाहेणेत्यर्थः ॥ १६ ॥ बुद्धरक्षिता । कासाविति प्रश्नस्योत्तरमिदम् ॥ माधवः । साटोपं सावेगम् ॥ कामन्दकी । अप्रमत्तं सावधानम् । क्रियावि- शेषणमिदम् ॥ माधवः । रुधिरादिकं वीक्ष्य सभीभत्सं सगृध्रम् । अहह विस्मये