मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 297, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः ३ ] मालतीमाधवटीका । ४९ पृ० प० कुविअक० । ६ ०ता रक्खध जहासात्ति पिअसहीए मदअन्तिआए जीवि० । ९१ ६ माधवः—(ससंभ्रममुत्थाय ।) बुद्ध० । ९२ ४ माधवः—(साटोपं परिक्रामति ।) । ४-५ काम- न्दकी—अप्रमत्तो भूत्वा विक्रमस्व । ०खु जादो । (सर्वास्त्वरितं परिक्रामन्ति ।) ९३ ३ ०तदभिपाति० । ०युधः पूरुषात् । ६ ७ ८ काम- न्दकीमाधवौ—(सभयम् ।) दृढं च पशुना हतः । इतराः—अच्छाहिदं अच्छाहिदं । कामन्दकीमा- निम्नत्वात् । 'उरल्लिंर्गलगर्जितम्' इति रत्नकोशः । माधवः । मदयन्तिका- परिरक्षणत्वरयाह—कासाविति । मालती । अम्महे सभयहर्ष आश्चर्य वा । एषोऽपीहस्थ एव । अत्रापिर्विस्मये । यस्यावस्था भगवत्योक्ता, यन्निमित्ता वा ममेयमवस्था स एष इति भावः । स्वच्छन्दप्रियालोकनतुष्टस्य माधवस्योक्तिः— हन्तेत्यादि । अविरलेत्यादि । अयं श्लोको गद्यादिः । हन्त हर्षे । अचि- न्तिनोपस्थितदर्शनानन्दितलोचनयानया चक्षुषा पौण्डरीकेणेव दाम्ना स्रजाविरलं घनं यथा तथाहं नद्धो बद्धः । आवृत इति यावत् । कान्तालोकनेन सात्त्विकभावा- विर्भावात्सखीयास्तम्भं ज्ञात्वा नद्ध इत्युत्प्रेक्षितम् । अत्राविरलपदेन पौनःपुन्यं पुण्डरी- कपदेन श्वेतभागविभावनं च ध्वनितम् । दुग्धस्रोतसा दुग्धाम्भःप्रवाहेण निर्भरेण निरतिशयेन संसक्तेन वा स्रपित इवाहुत इवाहम् तथाविधालोकनजातो रोमाञ्च- तया स्रपितत्वेनोत्प्रेक्षितम् । अत्र निर्भरपदेन परिचयपर्यवसानतोक्ता । एवं च द्वाभ्यां नेत्रनैर्मल्यमुक्तम् । कृत्स्नो निःशेषोऽहं स्फारितेन विस्तारितेन चक्षुषा कब- लित इव पीत इव । स्फारितत्वेन कवलनयोग्यतोक्ता । कवलनेन बाह्यसंवेदना- भावात्प्रणय उत्प्रेक्षितः । सान्द्रेण निबिडेन सुधामयजलधरेण प्रसभं बलात्सिक्त- इवाहम् । आनन्दातिशयशालितयामृतसिक्तत्वेनोत्प्रेक्षा । तदिह माधवस्य परम- निर्वृतिसौख्यमुक्तम् । तत्र च प्रथमपदेन तारकातरलता, द्वितीयेन गोलकचाञ्च- ल्यम्, तृतीयेन पुटविस्तारो विलासश्च, चतुर्थेन चैतन्न्रयसंपत्तौ पुष्यवत्तोपपादनम्, तत्रापि मेघपदेन संतापशान्तिः, अमृतपदेन स्तम्भसंभावना, प्रसभपदेन तत्सं- गतिरेव विपत्प्रतीकार इति सूचितम् । सेचनपदेन तस्मिन्दरालोकनेऽसंपूर्णता- सान्द्रपदेन तात्कालिकसकलक्लेशविलयः सूचितः । स्रोतसां निर्झरेणेति पाठे निर्झ- रेण प्रवाहेणेत्यर्थः ॥ १६ ॥ बुद्धरक्षिता । कासाविति प्रश्नस्योत्तरमिदम् ॥ माधवः । साटोपं सावेगम् ॥ कामन्दकी । अप्रमत्तं सावधानम् । क्रियावि- शेषणमिदम् ॥ माधवः । रुधिरादिकं वीक्ष्य सभीभत्सं सगृध्रम् । अहह विस्मये