भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 305, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 305

तत इति । संप्रति प्रमथ्य क्रव्यादमित्यनेनाघोरघण्टकपालकुण्डलाप्रवेशे सू- चिते महामांसविक्रयप्रतिज्ञया च माधवस्य श्मशानप्रवेशे सत्यावतारः । आका- शयानेन प्रवेशो योगसिद्धिसूचनाय । भीषणा भयंकरी । उज्ज्वलवेषा विशुद्धश- रीरा । एतदपि योगिनीत्वादेव । षडधिकेत्यादि । स शक्तिनाथः शिवो ज- यति जययुक्तो भवति । कालसामान्ये भवदिति वक्तव्ये भाष्यकारवचनात्काल- त्रितयेऽपि वा लट् । श्मशाननाथस्य जयेन श्मशानसाधनसिद्धिः सूचिता । की- दृशः । अविचलितं निस्पन्दीभूतम् । विषयान्तरव्यावृत्तमिति यावत् । मनो येषां तैः साधकैर्मृग्यमाणोऽन्विष्यमाणः । अनेन ध्यानानुष्ठानमुक्तम् । यदाह—'रूप- वर्णप्रमाणाद्यं परिकल्प्य सुबुद्धिना । तथा ध्यायेत देवेशं यथा चित्तं स्थिरं भवेत् ॥' चित्तस्थैर्यं तु निर्विषयतयैव । यदाह—'मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धस्य विषयासङ्गि मुक्तेर्निर्विषयं मनः ॥' तथाच निराकारोऽप्ययं सहसैव न साक्षात्कारविषयो भवतीति न योग्यानुपलम्भमात्रेण निरस्य इत्यपि कटा- क्षितम् । शक्तिभिर्ब्राह्मीमाहेश्वरीकौमारीवैष्णवीवाराहीमाहेन्द्रीचामुण्डाचण्डिका- ख्याभिरष्टाभिः परितो नद्धो वेष्टितो भैरवमूर्तित्वात् । यद्वा शक्तिभिर्ज्ञानेच्छाप्रय- त्नात्मिकाभिः परिवृद्ध उपचितः । अत एव शक्तीनामणिमादीनां नाथः प्रभुः । अत एव जयति सर्वोत्कृष्टो वर्तते । कीदृशः । षट्सु कर्णनाभिहृत्कण्ठतालुभ्रू्म- ध्यवर्तिषु शिवशक्तिसंघट्टस्थानेषु नाडीसंघट्टेषु हृद्याद्यधिष्ठितप्राणविशेषचलनयोगा- च्चक्रेष्विव मध्येऽधिकं प्रधानं यद्दशनाडीचक्रमिडापिङ्गलासुषुम्णागान्धारीहस्तिजि- ह्वापूषालम्बुषाकुहूशङ्खिन्याख्या दशनाड्यो हृद्गतैकोत्तरशतसंख्यासु तिर्यगूर्ध्वो- धोगतनाडीषु प्रधानतमास्तासां चक्रं तस्य मध्ये पद्ममध्यवर्तिसूक्ष्माकाशदेशे प्रा- णाद्याधारे स्थित आत्मा कूटस्थो नित्यो यस्य स तथा । तत्र प्रमाणम्—'आशि- रःश्रवणं देहं यद्यपि व्याप्य तिष्ठति । तथाप्यस्य परं स्थानं हृत्पङ्कजसमुद्गकम् ॥' इति । स्थितिरपि तस्य तत्र परमात्मतत्त्वाविर्भाव एव । यद्वा । षड्भिरधिका दशनाड्यः षोडशसंख्यास्तासां चक्रं तत्रमध्ये स्थितश्चासावात्मा चात्मस्वरूपः । तदुक्तम्—'सर्वं शिवमयं मतम्' इति । यद्वा षडधिकं यद्दशनाडीचक्रम् । मतभेदे- नैते पक्षाः । हृदि हृत्पद्मे विनिहितरूपो ध्यानमूर्तिः सन्यस्तद्विदां शिवसाक्षात्का- रवतां सिद्धिदोऽणिमाद्यैश्वर्यप्रदः । अत्र मानम्—'ईश्वरः सर्वभूतानां हृद्देशे- ऽर्जुन तिष्ठति' । 'सकलं चिन्तयत्तस्मात्सिद्ध्यर्थं सततं शिवम् । ध्यानेन तत्परं गच्छेदैश्वर्यगुणाष्टकम् ॥ महिमा लघिमाणुत्वं प्राकाम्यं वशितेशिता । प्राप्तिः कामावसायित्वं शम्भोरैश्वर्यमष्टधा' । मृग्यमाणोऽप्ययं केनापि ज्ञायते न तु सर्वे- ण । यदाह—'यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः' इति । यद्वा तद्विदां ताः सिद्धीरुपायदेशकालप्रमाणेतिकर्तव्यताभिर्ये विदन्ति तेषां सिद्धिदोऽभिलषित- सिद्धिद इत्यर्थः ॥ १ ॥ आत्मनि योगसिद्धिमाह—नित्यमित्यादि । इयमह-