मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 305, कुल 377 में से
संदर्भ में पढ़ेंतत इति । संप्रति प्रमथ्य क्रव्यादमित्यनेनाघोरघण्टकपालकुण्डलाप्रवेशे सू- चिते महामांसविक्रयप्रतिज्ञया च माधवस्य श्मशानप्रवेशे सत्यावतारः । आका- शयानेन प्रवेशो योगसिद्धिसूचनाय । भीषणा भयंकरी । उज्ज्वलवेषा विशुद्धश- रीरा । एतदपि योगिनीत्वादेव । षडधिकेत्यादि । स शक्तिनाथः शिवो ज- यति जययुक्तो भवति । कालसामान्ये भवदिति वक्तव्ये भाष्यकारवचनात्काल- त्रितयेऽपि वा लट् । श्मशाननाथस्य जयेन श्मशानसाधनसिद्धिः सूचिता । की- दृशः । अविचलितं निस्पन्दीभूतम् । विषयान्तरव्यावृत्तमिति यावत् । मनो येषां तैः साधकैर्मृग्यमाणोऽन्विष्यमाणः । अनेन ध्यानानुष्ठानमुक्तम् । यदाह—'रूप- वर्णप्रमाणाद्यं परिकल्प्य सुबुद्धिना । तथा ध्यायेत देवेशं यथा चित्तं स्थिरं भवेत् ॥' चित्तस्थैर्यं तु निर्विषयतयैव । यदाह—'मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धस्य विषयासङ्गि मुक्तेर्निर्विषयं मनः ॥' तथाच निराकारोऽप्ययं सहसैव न साक्षात्कारविषयो भवतीति न योग्यानुपलम्भमात्रेण निरस्य इत्यपि कटा- क्षितम् । शक्तिभिर्ब्राह्मीमाहेश्वरीकौमारीवैष्णवीवाराहीमाहेन्द्रीचामुण्डाचण्डिका- ख्याभिरष्टाभिः परितो नद्धो वेष्टितो भैरवमूर्तित्वात् । यद्वा शक्तिभिर्ज्ञानेच्छाप्रय- त्नात्मिकाभिः परिवृद्ध उपचितः । अत एव शक्तीनामणिमादीनां नाथः प्रभुः । अत एव जयति सर्वोत्कृष्टो वर्तते । कीदृशः । षट्सु कर्णनाभिहृत्कण्ठतालुभ्रू्म- ध्यवर्तिषु शिवशक्तिसंघट्टस्थानेषु नाडीसंघट्टेषु हृद्याद्यधिष्ठितप्राणविशेषचलनयोगा- च्चक्रेष्विव मध्येऽधिकं प्रधानं यद्दशनाडीचक्रमिडापिङ्गलासुषुम्णागान्धारीहस्तिजि- ह्वापूषालम्बुषाकुहूशङ्खिन्याख्या दशनाड्यो हृद्गतैकोत्तरशतसंख्यासु तिर्यगूर्ध्वो- धोगतनाडीषु प्रधानतमास्तासां चक्रं तस्य मध्ये पद्ममध्यवर्तिसूक्ष्माकाशदेशे प्रा- णाद्याधारे स्थित आत्मा कूटस्थो नित्यो यस्य स तथा । तत्र प्रमाणम्—'आशि- रःश्रवणं देहं यद्यपि व्याप्य तिष्ठति । तथाप्यस्य परं स्थानं हृत्पङ्कजसमुद्गकम् ॥' इति । स्थितिरपि तस्य तत्र परमात्मतत्त्वाविर्भाव एव । यद्वा । षड्भिरधिका दशनाड्यः षोडशसंख्यास्तासां चक्रं तत्रमध्ये स्थितश्चासावात्मा चात्मस्वरूपः । तदुक्तम्—'सर्वं शिवमयं मतम्' इति । यद्वा षडधिकं यद्दशनाडीचक्रम् । मतभेदे- नैते पक्षाः । हृदि हृत्पद्मे विनिहितरूपो ध्यानमूर्तिः सन्यस्तद्विदां शिवसाक्षात्का- रवतां सिद्धिदोऽणिमाद्यैश्वर्यप्रदः । अत्र मानम्—'ईश्वरः सर्वभूतानां हृद्देशे- ऽर्जुन तिष्ठति' । 'सकलं चिन्तयत्तस्मात्सिद्ध्यर्थं सततं शिवम् । ध्यानेन तत्परं गच्छेदैश्वर्यगुणाष्टकम् ॥ महिमा लघिमाणुत्वं प्राकाम्यं वशितेशिता । प्राप्तिः कामावसायित्वं शम्भोरैश्वर्यमष्टधा' । मृग्यमाणोऽप्ययं केनापि ज्ञायते न तु सर्वे- ण । यदाह—'यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः' इति । यद्वा तद्विदां ताः सिद्धीरुपायदेशकालप्रमाणेतिकर्तव्यताभिर्ये विदन्ति तेषां सिद्धिदोऽभिलषित- सिद्धिद इत्यर्थः ॥ १ ॥ आत्मनि योगसिद्धिमाह—नित्यमित्यादि । इयमह-