मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
DevanagariHindipublished377 पृष्ठ
पृष्ठ 306, कुल 377 में से
संदर्भ में पढ़ेंपृष्ठ 306
५८ जगद्धरकृता [ अङ्कः ५ पृ० प० ११० ५-६ अपि च । ६ ॰उल्लोलस्खलि॰ । मिदानीमभ्यागताभीष्टस्थानाभिमुखमागता श्रीपर्वतादित्याक्षेपात् । कीदृशी । बिम्बस्वरूपमात्मानं पश्यन्ती । लयवशाच्चित्तैकाग्रतया । अनेन सर्वेषां तत्प्रकाशो- ऽपास्तः । कीदृशम् । निलयमविनाशिनम् । न्यस्तानि देहे मन्त्रन्यासेनार्पितानि यानि षडङ्गानि हृदयशिरःशिखानेत्रकवचास्त्राणि तेषां चक्रे समूहे निहितमारोपितं मन्त्रन्यासेन । यदाह—'षडङ्गमेतत्कथितं सर्वसिद्धिप्रदायकम् । न्यसेद्वै भक्तियु- क्तात्मा साधको ज्ञानचिन्तकः ॥ त्रिकालमेककालं वा शरीरे विन्यसेद्बुधः' । अनेनाङ्गावरणमुक्तम् । नित्यन्यस्तेति पाठे निलयं प्रत्यहं न्यस्तानीत्यर्थः । हृत्पद्म- मध्ये हृत्कमलकर्णिकायां ध्यानाभ