मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 310, कुल 377 में से
संदर्भ में पढ़ेंप्रकारानाह—लीनेव निहुतेव । यत्र यस्य संबद्धस्य न प्रत्यक्षोपलम्भस्तत्र तल्लीनामित्युच्यते । यथा पयसि लीनं लवणम् । सर्वत्रात्र लग्नस्य प्रकारभेदे- नोपमाभेदाः । पूर्वपूर्वापरितोषाद्वा । तथा हि । लीनस्याप्रतिभासात्स्पष्टप्रतिभा- सार्थमाह—प्रतिबिम्बितेव । यत्र स्वच्छद्रव्याभिहतं चक्षुः परिवृत्य द्रव्यानंतरं गृह्णाति तत्तत्र प्रतिबिम्बितमित्युच्यते । यथा स्फटिके रक्तपुष्पम् । प्रतिच्छायया वस्त्वन्तरसंसर्गाधीनत्वेनासाहजिकत्साहजिकत्वोपवर्णनायाह—लिखितेव । य- त्प्रशिथिलावयवसंयोगाश्रयेण द्रव्येण घनद्रव्योपरि संस्थानविशेषवनिर्मीयते तत्तत्र लिखितमित्युच्यते । यथा पत्रे लिपिः । लिखनस्य जलाद्युपनिपातविना- शितया न चिरस्थायित्वमतस्तदर्थमाह—उत्कीर्णरुपेव । यद्यत्र निबिडद्रव्ये तादृशेन किंचिदवयवविभागः क्रियते तत्तत्रोत्कीर्णम् । यथा टङ्कादिना शि- लादि । अस्याप्येकभागवृत्तितया सर्ववृत्तित्वार्थमाह—प्रत्युप्तेव प्रत्युप्तमर्धरोपि- तम् । यद्यत्र द्रव्यानंतरसंसर्गे तत्तत्र प्रत्युप्तम् । यथाङ्गुलीयके मण्यादि । अस्यापि शक्योद्धारत्वान्निबिडसंबन्धायाह—वज्रलेपघटितेव । यद्यत्र किंचिद्घ- नद्रव्याभिघातजन्यकर्मजन्यसंयोगविभागानाश्रयस्तत्तत्र वज्रलेपघटितम् । यथा हीरकादि । तथापि लेपस्य बहिर्वृत्तित्वादन्तःसंसर्गार्थमाह—अन्तर्निखातेव । यद्यत्र संबद्धमूर्ध्वाधःसंयोगादिना धृतं नोपलभ्यते तत्तत्र निखातमित्युच्यते । यथा भूमौ मूलकादि । निखातत्वं सर्वरोपणमुक्तमर्धरोपणमित्यनयोर्भेदः । निखात- स्यापि निर्बन्धातिशयेन शक्योद्धारतया विवेकादिदुःशक्यत्वार्थमाह—कामस्य पञ्चभिः शरैः कीलितेव । कीलितस्य प्रतिकीलनोद्धार्यतयाशक्योनमूलनायाह— चिन्तापरम्परासूत्रसमूहेन गाढं यथा स्यात्तथा स्यूतेव सीवनं प्रापितेव । जाल- निविडसीवनेनानुच्छेदनीयत्वमुक्तम् । इहोपाधेयाभेदेऽप्युपाधिभेदादपौनरुक्त्यमि- त्यवधेयम् । एकमेव हि वस्तु तत्तदुपाधिवैशिष्ट्याद्भिन्नबुद्धिविषयो यथा दण्डिकुण्ड- लिवादिः । यद्वा नोऽस्माकं चेतसि सा लग्ना दृढं संबद्धा । दृढसंबद्ध एव लग्न- पदार्थः । 'शरोलग्नः' इत्यादौ तथा दर्शनात् । दृढसंबद्ध एव नानाप्रकारेण स्थिरीक्रियते । कामबाणपञ्चकेन कीलितेव । चिन्ताप्रवाहरूपतन्तुसंतत्या स्यूतेव । ननु द्वयमप्यदो न युक्तम् । तया सद्धान्तस्य चैतन्यस्य संबन्धाभावात् । अतो विषयविषयिभावप्रकाशान्नमतभेदेनाह—लीनेवेति । लीनत्वं तदात्मतया संबद्धत्वम् । विषयविषयिणोस्तदात्मरूप एव संबन्ध इति योगाचारमतमनेनोक्तम् । प्रतिबि- म्बितेवेति सांख्यमतोपदर्शनम् । लिखितेवेति सौत्रान्तिकमतोपदर्शनम् । तत्र हि ज्ञानेन स्वीयाकारार्पणं विषये क्रियत इति तत्तदाकारस्याभिव्यक्तिः । शिलादौ तुरगादिवदिति लिखनसाम्यम् । उत्कीर्णरूपेति विषयाकारेण चैतन्यपरिणाम इहो- त्कीर्णरूपता । अत्र डिण्डिममतम् । प्रत्युप्तेवेति पूर्वरूपतिरोधानादन्यरूपार्विभावेन