मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 311, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः ५ ] मालतीमाधवटीका । ६३ पृ० पं० ११९ ३ भवत्वाघोषयामि तावत् (उच्चैः ।) भोः । पूतं नि- र्व्याजं० । ७ ०दुत्तालवेतालमुक्तमु० । २२० ५ ०विघसैराघर्घरं क्र० । ८ ०शाचानाम् । एते हि० । ९ तपष्पृथुरस० । १० ०दार्य विवर्णदे० । सुवर्णरचितभाजनादाविव तत्तद्विषयाकारतया ज्ञानपरिणाम इति पातञ्जलमतम् । वज्रलेपघटितेवेति नैयायिकमतम् । तदीयतामात्ररूपो हि स्वभावभेदः प्रकाशस्य विषयविषयिभावः । अयं च तावद्वस्तुस्थिरतया वज्रलेपघटनातो न भिद्यते । अन्तर्निखातेवेति विज्ञानवादिमतोपदर्शनम् । अत्र हि विज्ञानस्यान्तर्निखननान्न बाह्यवस्तुस्थितिरिति । इहापि तथा । एते च विषयविषयिभावविकल्पाश्चिन्ता- प्रकारत्वान्माधवस्य चित्ते विपरिवर्तन्ते । एवं च चेतसा सह संबन्धः । पश्चा- त्कीलनेन वा सीवनेन वा गाढसंबद्धतां गता भवति लग्ना । ततश्च तद्दर्शनं महा- पुरुषानुभूतं तस्येति किमत्र चित्रमिति भावः । अत्र पञ्चभिरित्यनेन युगपत्काम- बाणविषयत्वमात्मनो निवेदयता दुःसहदशाशालित्वं सूचितम् । चेतोभुव इत्यनेन तत्प्रभवस्य तस्य मर्मज्ञता ध्वनिता । 'यथाशक्ति यथायुक्ति यथागति यथामति । यथाधीति यथानीति विवेचितमिदं मया' ॥ १० ॥ माधवः । कौणपनिकायो राक्षससमूहः । रौद्रता भीषणत्वम् ॥ पर्यन्तेत्यादि । तमः कर्तृ । चिताज्यो- तिषामौज्ज्वल्यं परभागतो गुणोत्कर्षाधानात्प्रकटयति व्यक्तीकरोति । तमसि संनिहिते सति तेजसां कान्त्युत्कर्षः स्फुट एवेति भावः । कीदृशं तमः । आ- भोगात्परिपूर्णतया भीमम् । चितालोकमण्डलस्य पर्यन्ते निकटदेशे प्रतिरोधन- शीलं मेदुरं स्निग्धं चयेन सङ्घेन स्त्यानं घनम् । यद्वा । पर्यन्ते यः प्रतिरोधोऽन्ध- कारस्य प्रसरणनिवारणं तेन मेदुरो मांसलो यश्चयस्तेन घनमित्यर्थः । कटाः शवाः पूतनाः श्मशानवासिनो राक्षसास्तत्प्रभृतयोऽन्येऽपि तत्रत्याः शृगालादयः किल्कि- लाकोलाहलैः किलकिलाहूपारावैः संराविणं परस्पराह्वानं कुर्वते । संमदाद्दर्पात् । उत्ताला उद्भटाश्चञ्चला वा । तालादुद्धता उत्तालाः । सुप्सुपेति समासः । तेनान्यो- न्यहस्ततालवन्त इति वा । संसक्ता मिलिता आकुलास्त्वरायुक्ताः केलयः क्रीडा येषां ते । यद्वा संसक्तत्वेनाकुला केलिर्येषां ते । संसक्त इति भावप्रधानम् । यद्वा संसक्ता कुलेन स्वयूथेन केलिर्येषां ते । त्रिपदबहुव्रीहावुत्तरपदत्वाभावान्न पुंवद्भावः । 'सान्द्रे स्निग्धे च मेदुरः' इत्यमरः । किलकिलेत्यव्यक्तशब्दः । अविभावितविशेषः श- ब्दसमूहः कोलाहलः । संपूर्वादीतेरभिविधौ भाव इन्गुण । तदन्तात्स्वार्थेऽण् । आदिष्ट- द्भिः । शवानां शब्दकरणं वेतालाधिष्ठानात् । रौद्ररस इह । तल्लक्षणं भरते—'इति रौद्रो रसो दृष्टो रौद्रैरेवाङ्गचेष्टितैः । शस्त्रप्रहारभूमिष्ठभयकम्पक्रियात्मकः ॥' इति ॥ ११॥ भो भो इत्यभिमुखीकरणरूपे संबोधने । निकेतनं गृहम् । अशस्त्रेत्यादि । अशस्त्रपूतं संमुखपतितस्य खर्गिणो मांसं शस्त्रपूतमतस्तेषामग्राह्यम् । इदमिति न