भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 313, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 313

अङ्कः ५ ] मालतीमाधवटीका । ६९ पृ० प० १२३ ॰कथं द्रागतिप्रशान्तमी॰ । २ ॰षिकाप्रकारै॰ । निः- सत्त्वता पिशाचानाम् । ४ ॰घूत्कारसंवल्गित॰ । ५ ॰चण्डडात्कृति॰ । १२४ १ अन्तःशीर्णकरङ्ककर्करतर॰ । १० देहोत्कम्पः स्व॰ । घनानि दृढान्यस्थ्नां पञ्जराणि येषां तादृशा जरन्तो जीर्णाः कङ्काला मांसादिशून्या- स्थिभागा यस्य तत् । वृकपशं शृगालाद्युपलक्षणपरम् । 'कोकस्त्वीहामृगो वृकः' इत्यमरः । यद्वा 'शालावृकाः कपिक्रोष्टुश्वानः' इति नानार्थेऽमरदर्शनादेतस्यै- वैकदेशो वृकशब्दः । तेन भीमभीमसेनादिवदस्यापि तावदर्थप्रतिपादकतेत्यव- धेयम् । यद्वा वृको 'घोष' इति ख्यातः । 'विघसो भोजनशेषेऽपि' इत्यमरः । 'स्याच्छरीरास्थि कङ्कालः' इत्यमरः ॥ १४ ॥ विहस्येति । अतिसात्त्विकेऽपि मयि भीषणत्वममी पूतनाः कुर्वन्तीत्यसंबद्धक्रियया हासः । यदाह—'असंबद्धैस्तु हासः स्यादाग्नेयप्यक्रियादिभिः' इति । प्रकारो वैलक्षण्यम् । ततेत्यादि । एते पूर्वोक्तादन्ये पिशाचा विस्तृतदीर्घजिह्वाभीषणमुखविवरं विदार्य व्यादाय दग्धपुराणरोहिणानामिव द्युतिं दधति धारयन्ति । दग्धत्वेन श्यामत्वं पुराण- त्वेन जीर्णत्वं दर्शितम् । रोहणो 'रोहिण' इति ख्यातस्तरुः । 'घोधराति' इति ख्यातो वा । रोहितोऽपि स एव । अत एव 'रोहितः प्लीहनाशकः' इत्यमरोऽपि । रोहणानामिति पाठे रोहन्तीति रोहणास्तरवस्तेषामित्यर्थः । ललता चलताज- गरेण सर्पेण भीषणच्छिद्राणाम् । 'निष्कुहः कोटरं वा ना' इत्यमरः । तदिह कोटरेणास्यमजगरेण रसना रोहिणेन पिशाच उपमीयन्ते । भयानको रसः । यदाह—'विकृतरवसत्त्वदर्शनसंत्रासारण्यशून्यगृहागमनात् । गुरुनृपयोरपराधात्कृत- श्व(?) भयानको ज्ञेयः ॥' १५ ॥ बीभत्सं घृणाकरम् । निर्भिद्येत्यादि । अयं प्रेतरङ्कः प्रेतरूपो रङ्कः क्षुधाविशुष्यच्छरीरोऽव्यग्रमनाकुलं यथा तथा क्रव्यं मांसमत्ति खा- दति । किं कृत्वा । प्रथममादौ कृत्तिं चर्म निर्भिद्य निर्भिन्नीकृत्य पश्चादुत्कृत्य छित्त्वा उत्कृत्येति पाठे चर्मकोषाकर्षणमुत्कर्तनं तत्पुनः पुनः कृत्वेत्यर्थः । अथानन्तरं पृथुना महतोच्छोफेन भूयांसि बहूनि मांसानि जग्ध्वा भक्षयित्वा । कीदृशानि । अंसयोः स्कन्धयोः स्फिचोः कटिमांसपिण्डयोः पृष्ठे कायपश्चाद्भागे पिण्डयो जङ्घापाश्चात्यभागयोरुद्दिपदात्कक्षामूलाद्यवयवेषु सुलभानि । उच्छूनत्वात्तेषाम् । उग्रपूतीन्युत्कटगन्धीनि । पृथूत्सेधेति पाठे पृथुनोत्सेधेन कायेन बहुतां गतानी- त्यर्थः । यद्वा उत्सेधेनोन्नत्या भूयांसीत्यर्थः । 'उत्सेधः काय उन्नतिः' इत्यमरः । कीदृशो रङ्कः । आर्तस्वारावान् । पर्यस्तमितस्ततः क्षिप्तं नेत्रं येन सः । एतदुभयं रङ्केषु प्रसिद्धमेव । 'अन्तःपर्यस्तनेत्रः' इति पाठेऽन्तर्मध्ये स्थितनेत्रः । रङ्कत्वेन कोटराक्षत्वादित्यर्थः । 'आसन्नाग्रवच्चनेत्रः' इति पाठ आसन्नानि गृहीतानि स्राद्यवच्च- नेत्राणि येन सः । अत एवास्राद्युत्पाटनाय प्रकटितदन्तः । दौर्बल्यप्रकर्षणा-

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क) · पृष्ठ 313, कुल 377 में से · BharatKosha