मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 313, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः ५ ] मालतीमाधवटीका । ६९ पृ० प० १२३ ॰कथं द्रागतिप्रशान्तमी॰ । २ ॰षिकाप्रकारै॰ । निः- सत्त्वता पिशाचानाम् । ४ ॰घूत्कारसंवल्गित॰ । ५ ॰चण्डडात्कृति॰ । १२४ १ अन्तःशीर्णकरङ्ककर्करतर॰ । १० देहोत्कम्पः स्व॰ । घनानि दृढान्यस्थ्नां पञ्जराणि येषां तादृशा जरन्तो जीर्णाः कङ्काला मांसादिशून्या- स्थिभागा यस्य तत् । वृकपशं शृगालाद्युपलक्षणपरम् । 'कोकस्त्वीहामृगो वृकः' इत्यमरः । यद्वा 'शालावृकाः कपिक्रोष्टुश्वानः' इति नानार्थेऽमरदर्शनादेतस्यै- वैकदेशो वृकशब्दः । तेन भीमभीमसेनादिवदस्यापि तावदर्थप्रतिपादकतेत्यव- धेयम् । यद्वा वृको 'घोष' इति ख्यातः । 'विघसो भोजनशेषेऽपि' इत्यमरः । 'स्याच्छरीरास्थि कङ्कालः' इत्यमरः ॥ १४ ॥ विहस्येति । अतिसात्त्विकेऽपि मयि भीषणत्वममी पूतनाः कुर्वन्तीत्यसंबद्धक्रियया हासः । यदाह—'असंबद्धैस्तु हासः स्यादाग्नेयप्यक्रियादिभिः' इति । प्रकारो वैलक्षण्यम् । ततेत्यादि । एते पूर्वोक्तादन्ये पिशाचा विस्तृतदीर्घजिह्वाभीषणमुखविवरं विदार्य व्यादाय दग्धपुराणरोहिणानामिव द्युतिं दधति धारयन्ति । दग्धत्वेन श्यामत्वं पुराण- त्वेन जीर्णत्वं दर्शितम् । रोहणो 'रोहिण' इति ख्यातस्तरुः । 'घोधराति' इति ख्यातो वा । रोहितोऽपि स एव । अत एव 'रोहितः प्लीहनाशकः' इत्यमरोऽपि । रोहणानामिति पाठे रोहन्तीति रोहणास्तरवस्तेषामित्यर्थः । ललता चलताज- गरेण सर्पेण भीषणच्छिद्राणाम् । 'निष्कुहः कोटरं वा ना' इत्यमरः । तदिह कोटरेणास्यमजगरेण रसना रोहिणेन पिशाच उपमीयन्ते । भयानको रसः । यदाह—'विकृतरवसत्त्वदर्शनसंत्रासारण्यशून्यगृहागमनात् । गुरुनृपयोरपराधात्कृत- श्व(?) भयानको ज्ञेयः ॥' १५ ॥ बीभत्सं घृणाकरम् । निर्भिद्येत्यादि । अयं प्रेतरङ्कः प्रेतरूपो रङ्कः क्षुधाविशुष्यच्छरीरोऽव्यग्रमनाकुलं यथा तथा क्रव्यं मांसमत्ति खा- दति । किं कृत्वा । प्रथममादौ कृत्तिं चर्म निर्भिद्य निर्भिन्नीकृत्य पश्चादुत्कृत्य छित्त्वा उत्कृत्येति पाठे चर्मकोषाकर्षणमुत्कर्तनं तत्पुनः पुनः कृत्वेत्यर्थः । अथानन्तरं पृथुना महतोच्छोफेन भूयांसि बहूनि मांसानि जग्ध्वा भक्षयित्वा । कीदृशानि । अंसयोः स्कन्धयोः स्फिचोः कटिमांसपिण्डयोः पृष्ठे कायपश्चाद्भागे पिण्डयो जङ्घापाश्चात्यभागयोरुद्दिपदात्कक्षामूलाद्यवयवेषु सुलभानि । उच्छूनत्वात्तेषाम् । उग्रपूतीन्युत्कटगन्धीनि । पृथूत्सेधेति पाठे पृथुनोत्सेधेन कायेन बहुतां गतानी- त्यर्थः । यद्वा उत्सेधेनोन्नत्या भूयांसीत्यर्थः । 'उत्सेधः काय उन्नतिः' इत्यमरः । कीदृशो रङ्कः । आर्तस्वारावान् । पर्यस्तमितस्ततः क्षिप्तं नेत्रं येन सः । एतदुभयं रङ्केषु प्रसिद्धमेव । 'अन्तःपर्यस्तनेत्रः' इति पाठेऽन्तर्मध्ये स्थितनेत्रः । रङ्कत्वेन कोटराक्षत्वादित्यर्थः । 'आसन्नाग्रवच्चनेत्रः' इति पाठ आसन्नानि गृहीतानि स्राद्यवच्च- नेत्राणि येन सः । अत एवास्राद्युत्पाटनाय प्रकटितदन्तः । दौर्बल्यप्रकर्षणा-