भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 317, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 317

अङ्कः ५ ] मालतीमाधवटीका । ६९ पृ० प० १२८ १ ०प्रमादः । ३ रम्भकयो० । ९ ०हा दइअ माह० । १२९ २ (शस्त्रमुद्यम्य ।) यदस्तु तदस्तु व्यापादयामि । चा० । १० ०त्यक्त्वा शङ्कां प्रलापनिर्गलं । पर्यासितः क्षिप्तः पर्वतो यत्र तत् । देव्या अनेकबाहुशालितया दोःखण्ड इत्यु- क्तम् । 'अब्जादिकदम्बे खण्डमस्त्रियाम्' इत्यमरः । तथा ज्वलतानलेन पिङ्गलं यन्नेत्रं ललाटलोचनं तस्य छटा ज्वालानिर्गमप्रसरस्तस्य साटेन विस्तारेण भीमं यदुत्तमाङ्गं शिरस्तस्य भ्रमिर्मण्डलाकारेण भ्रमणं तया प्रसृता प्रारब्धालातचक्र- क्रिया वह्निप्रज्वलितार्धकाष्ठविशेषकर्म तया स्यूता इवैकत्र प्रतिबद्धा इव दिग्भागा यत्र तत् । तथातिमहत्खट्वाङ्गाग्रध्वजोत्कम्पादिक्षिप्त इतस्तस्तारागणो यत्र तत् । तथा हृष्टकटपूतनोद्भूतवेतालानां तालेन कलकलेन स्फुटत्कर्णात एव संभ्रान्ता त्रसन्ती सत्वरा वा गौरी तस्या निबिडालिङ्गनेन हृष्यचित्तं त्र्यम्बकं शिवमत्यर्थमा- नन्दयति । आभीक्ष्ण्ये णिनिः । 'साटो निकुञ्जे विस्तारे' इति विश्वः । 'शङ्खमग्रे- ऽपि कीर्तितम्' इति शाश्वतः ॥ २३ ॥ माधवः । धिक्प्रमाद इत्यत्र वर्तत इति क्रियाध्याहारः । तत् 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इति धिग्योगे द्वितीयां बाधित्वा प्रथमेत्यवधेयम् । न्यस्तेत्यादि । सेयं भूरिवसोः सुता यस्याः कृते मयैवं दुःखमनुभूयते पाखण्डचाण्डालयोर्गोचरं संमुखं गता । पाखण्डेषु चा- ण्डालोऽसौ । तद्दर्शनविरुद्धक्रियाकारित्वात् । यदाह—'न भुञ्जीतार्कपत्रेषु स्त्रीबालं नैव घातयेत्' । यद्वा । पाखण्डौ च तौ चाण्डालौ च । निषिद्धक्रियत्वात् । यदाह—'अवध्यास्तु समाख्याताः सर्वयोनिगताः स्त्रियः' । चाण्डालत्वादेव पापा- रम्भवतोर्मारणप्रवृत्तयोः । न्यस्ते अलक्तकरसे माल्यवसने यस्यां सा । एतद्वध्य- चिह्नम् । यथा मृगी वृकयोः संमुखं गता तथैयं भीरुः । मृगीनयनेन भयचलनेत्र- तोक्ता । वसोर्देवताभेदस्य । एतेनास्य सुखित्वमुक्तम् । मृत्योर्यमस्य मुखे वर्तते । अत एव हाशब्दः परिदेविते स्त्रीरत्नमपि वध्यत इति । निन्दायां धिगिति । वि- षादे कष्टम् । कोपेऽनिष्टम् । अस्ता नष्टा करुणा दया यत्र एतादृशो विधेरा- रम्भः कोऽयम् । निन्दितोऽयम् । कीदृग्वा । 'किं वितर्के परिप्रश्ने क्षेपे निन्दा- प्रकारयोः' इति विश्वः । करुणोऽयं रसः । 'इष्टवधदर्शनाद्वा करुणरसो नाम संभवति' इति भरतः । 'चण्डालोऽपि च चाण्डालः' इति शब्दभेदः । 'पुष्प- पुष्पस्रजौ माल्यम्' इत्यमरः ॥ २४ ॥ त्वं भद्रेत्यादि । प्रहर्षिणीच्छन्दसा श्लो- कार्धम् । चामुण्डे भगवतीत्यामन्त्रणार्थम् । हे भद्रे, यस्तव दयितो वल्लभस्तेनेष्टस्तं [L