भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 318, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 318

७० जगद्धरकृता [ अङ्कः ५ पृ० प० १२९ १ ०कथं वर्तताम् । स्मरणमाह—यस्येत्यत्र 'अधीगर्थे' इति कर्मणि षष्ठी । यस्य गुणमिति वा । अन्तकाले माधवस्मरणं मुक्तिहेतुरिति कटाक्षितम् । कपालकुण्डला । हन्त खेदे । काम- न्दकीमित्रपुत्रत्वान्ममापि माधवस्तादृश एव । तदनुरक्ता चेयं कथं वध्येति खेद इति भावः । अत एव तपस्विन्यनुकम्पा । अघोरघण्टः । उद्दिष्ट्रां वाचा प्रति- ज्ञाताम् । उपनिहितामुपढौकिताम् ॥ २५ ॥ माधवः । कफोणेरधोभागो मणि- बन्धपर्यन्तः प्रकोष्ठः । विक्षिप्यापसार्य । खड्गहस्तत्वेन बाहुमध्येऽपसारणं जातिः । प्रतिहतो निराकृतः । अपसद निन्दित । मरणेत्यादि । सोऽयं तव मित्रं पुरत एव वर्तत इत्याक्षेपात् । यो बकुलवीथ्यादिषु सानुरागदर्शनप्रसन्नया त्वया स्वीकृतः । मरणसमय इत्यनेनानुराग उक्तः । यदाह—'साहसानुरक्तं हि स्त्रियो भजन्ते' इति । तत्र मुक्ताशङ्को निर्भयः । पाखण्डादिति भावः । अत एव प्रतापेन निर्गलोऽनभिभाव्यः । प्रलापेति पाठे हा नाथ, माधवेत्यादिमालतीप्रला- पेन निर्गल उच्छृङ्खल इत्यर्थः । त्यक्त्वा शङ्कामिति पाठे शङ्कां भयं लज्जादिकं वा त्यक्त्वा । प्रतापनिरानुकुलो वा । प्रतापनिरङ्कुशो वेत्यर्थः । यद्वा शङ्कां त्यक्त्वा यं प्रति त्वया प्रकटितो निजस्नेहः सोऽयमित्यर्थः । यद्वा अयं कीदृशः । प्रकाशितआत्मस्नेहः । मरणसमये रक्षणादिति भावः । हे सुतनु, अत उद्गतं कम्पं त्यज । असौ पापः सं- प्रत्येव पाप्मनो निषिद्धाचरणस्य फलं मरणरूपमुग्रं तीव्रमनुभविष्यति । संप्रतीत्यनेन प्रकृतोपयुक्तं निजाप्तत्वं पौरुषं च ध्वनितम् । कीदृशस्य । प्रतीपो विपरीतो वि- पाको विरुद्धपरिणतिर्यत्र तस्य । अनुभवतीत्यत्र 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यति लट् । शृङ्गारवीरसंभेदोऽत्र ॥ २६ ॥ अघोरघण्टः । अन्तरायो विघ्नः । कपालकुण्डला । भूमिः स्थानम् । मालती । त्रासातिशयाच्चिरानिः- श्वासः । अत्रोपरि सौधोपरि । अलिन्दे 'ओट' इति प्रसिद्धे । यूयमिति । अ- हमबला सुप्ता चान्येनानीता, यूयं धीरा विबुद्धा अपीदानीमिह किमर्थमागता इत्यर्थः । त्वदित्यादि । हे भीरु, महामांसविक्रयाय श्मशाने भ्रमंस्तव क्रन्दि- तान्याकर्ण्यागतोऽस्मि । महामांसविक्रयफलमाह—त्वदिति । तद्विवाहेन धन्यजन्मा पुण्यजन्माहं भवामीत्यभिनिवेशेनातिशयेनावेशेन वा कदर्यमानः पीड्यमानः । अतस्त्वां विना न मे जीवनमिति संभाव्यमानफलतया मांसविक्रये प्रवृत्तोऽस्मीति भावः । त्वत्पादपङ्कजेति पाठे प्रेयसीचरणग्रहणस्य मान एव कर्तव्यतया मानप्र- सादनमेवोत्सरोत्तरं चरितेत्याशंसितवान् । अत एव सलज्जमित्युक्तमिति भावः । 'धन्यः पुण्यवति स्मृतः' इति विश्वः । कुत्सितोऽर्थः कदर्यः । भीरु इत्यनेन रोद- नोपपत्तिरुक्ता । तदिह त्वन्निमित्तमहं साहसी त्वं पुनः कीदृशीति न जान इति तात्पर्यम् ॥ २७ ॥ मालती । अत एव हर्षविस्मयवशादाह मालती— कथमित्यादि । परिभ्रमणमितस्ततो गमनम् । आत्मनिरपेक्षः श्मशानभ्रमेण । माधवः । विस्मयेऽहो नु खलु भोः काकतालीयमचिन्तितोपनतम् । यथा