मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 318, कुल 377 में से
संदर्भ में पढ़ें७० जगद्धरकृता [ अङ्कः ५ पृ० प० १२९ १ ०कथं वर्तताम् । स्मरणमाह—यस्येत्यत्र 'अधीगर्थे' इति कर्मणि षष्ठी । यस्य गुणमिति वा । अन्तकाले माधवस्मरणं मुक्तिहेतुरिति कटाक्षितम् । कपालकुण्डला । हन्त खेदे । काम- न्दकीमित्रपुत्रत्वान्ममापि माधवस्तादृश एव । तदनुरक्ता चेयं कथं वध्येति खेद इति भावः । अत एव तपस्विन्यनुकम्पा । अघोरघण्टः । उद्दिष्ट्रां वाचा प्रति- ज्ञाताम् । उपनिहितामुपढौकिताम् ॥ २५ ॥ माधवः । कफोणेरधोभागो मणि- बन्धपर्यन्तः प्रकोष्ठः । विक्षिप्यापसार्य । खड्गहस्तत्वेन बाहुमध्येऽपसारणं जातिः । प्रतिहतो निराकृतः । अपसद निन्दित । मरणेत्यादि । सोऽयं तव मित्रं पुरत एव वर्तत इत्याक्षेपात् । यो बकुलवीथ्यादिषु सानुरागदर्शनप्रसन्नया त्वया स्वीकृतः । मरणसमय इत्यनेनानुराग उक्तः । यदाह—'साहसानुरक्तं हि स्त्रियो भजन्ते' इति । तत्र मुक्ताशङ्को निर्भयः । पाखण्डादिति भावः । अत एव प्रतापेन निर्गलोऽनभिभाव्यः । प्रलापेति पाठे हा नाथ, माधवेत्यादिमालतीप्रला- पेन निर्गल उच्छृङ्खल इत्यर्थः । त्यक्त्वा शङ्कामिति पाठे शङ्कां भयं लज्जादिकं वा त्यक्त्वा । प्रतापनिरानुकुलो वा । प्रतापनिरङ्कुशो वेत्यर्थः । यद्वा शङ्कां त्यक्त्वा यं प्रति त्वया प्रकटितो निजस्नेहः सोऽयमित्यर्थः । यद्वा अयं कीदृशः । प्रकाशितआत्मस्नेहः । मरणसमये रक्षणादिति भावः । हे सुतनु, अत उद्गतं कम्पं त्यज । असौ पापः सं- प्रत्येव पाप्मनो निषिद्धाचरणस्य फलं मरणरूपमुग्रं तीव्रमनुभविष्यति । संप्रतीत्यनेन प्रकृतोपयुक्तं निजाप्तत्वं पौरुषं च ध्वनितम् । कीदृशस्य । प्रतीपो विपरीतो वि- पाको विरुद्धपरिणतिर्यत्र तस्य । अनुभवतीत्यत्र 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यति लट् । शृङ्गारवीरसंभेदोऽत्र ॥ २६ ॥ अघोरघण्टः । अन्तरायो विघ्नः । कपालकुण्डला । भूमिः स्थानम् । मालती । त्रासातिशयाच्चिरानिः- श्वासः । अत्रोपरि सौधोपरि । अलिन्दे 'ओट' इति प्रसिद्धे । यूयमिति । अ- हमबला सुप्ता चान्येनानीता, यूयं धीरा विबुद्धा अपीदानीमिह किमर्थमागता इत्यर्थः । त्वदित्यादि । हे भीरु, महामांसविक्रयाय श्मशाने भ्रमंस्तव क्रन्दि- तान्याकर्ण्यागतोऽस्मि । महामांसविक्रयफलमाह—त्वदिति । तद्विवाहेन धन्यजन्मा पुण्यजन्माहं भवामीत्यभिनिवेशेनातिशयेनावेशेन वा कदर्यमानः पीड्यमानः । अतस्त्वां विना न मे जीवनमिति संभाव्यमानफलतया मांसविक्रये प्रवृत्तोऽस्मीति भावः । त्वत्पादपङ्कजेति पाठे प्रेयसीचरणग्रहणस्य मान एव कर्तव्यतया मानप्र- सादनमेवोत्सरोत्तरं चरितेत्याशंसितवान् । अत एव सलज्जमित्युक्तमिति भावः । 'धन्यः पुण्यवति स्मृतः' इति विश्वः । कुत्सितोऽर्थः कदर्यः । भीरु इत्यनेन रोद- नोपपत्तिरुक्ता । तदिह त्वन्निमित्तमहं साहसी त्वं पुनः कीदृशीति न जान इति तात्पर्यम् ॥ २७ ॥ मालती । अत एव हर्षविस्मयवशादाह मालती— कथमित्यादि । परिभ्रमणमितस्ततो गमनम् । आत्मनिरपेक्षः श्मशानभ्रमेण । माधवः । विस्मयेऽहो नु खलु भोः काकतालीयमचिन्तितोपनतम् । यथा