भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 319, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 319

अङ्कः ५ ] मालतीमाधवटीका । ७१ पृ० प० १३३ ५ छिन्नस्कन्ध० । काकागमनतालपतनयोरेकदा संभवो दैवाधीनस्तयेदमपीत्यर्थः। राहोरित्यादि । दैवाद्विधिवशादासाद्य प्राप्य । अर्थात्प्रियाम् । अस्य दस्योश्चौरस्य खङ्गपातविषया- त्प्रेयसीमाकर्षतो मम चेतः कथं वर्तताम् । नवनवरसोदयात्तन्न जान इत्यर्थः । कामिव । राहोराननचरीमिन्दुकलामिव । कृपाणपातविषयामिति पाठे खङ्गप- तनस्य विषय आश्रयो यत्र तामेतादृशीं प्रेयसीं प्राप्य कथं मम चेतो वर्ततामिति योजना । यद्वा अस्य कीदृशस्य । आच्छिन्दतो द्विधाकर्तुमुद्यतस्य । प्रियामि- त्यर्थात् । ततो जीवनाभाव एवास्या इति भावः । चौरिकयापहरणेन दस्युत्वम् । तदिह प्रथमार्धेन हेतुरुक्तः । द्वितीयेन फलमाह—आतङ्काञ्चितचमत्काराद्विकलं नन्वस्य निसर्गसात्त्विकस्य भयमिति यद्यपि तथापि प्रियप्राप्त्या जीवनसव्यपेक्षतया भयमुचितमेव । पूर्वं तु जीवननिरपेक्षतया निर्भयत्वमित्यातङ्को भयमेव । राहो- रित्युपमानं भयहेतुः । चन्द्रकलोपमया जगन्नेत्रोत्सवकरीयं व्यसनमुपगतेति करु- णया द्रवीभूतम् । दैवादासाद्येति विस्मयाद्विचलितम् । दस्योरित्यनेन मालतीमयं हन्तुमुद्यतश्चौर इति कोपेन दीप्तम् । आच्छिन्दतः प्रेयसीमिति प्रियाजीवननि- र्वाहेण हर्षेण प्रसन्नम् ॥ २८ ॥ अघोरघण्टः । ब्राह्मणेति सिद्धानुगुणशुचित्वार्थं यज्ञोपवीतधारणात् । डिम्भो बालकः । ब्राह्मणकपालभोजिनो मम ब्राह्मणवधेऽपि न दोष इत्युक्तमनेनेत्यपि भावः ॥ व्याघ्रेत्यादि । हे पाप, मालत्युपहारकृत्य- परस्य मे गोचरं समीपं यत्प्राप्तोऽसि । अत एव विघ्नकारितया पापेति । कीदृशस्य मे । व्याघ्रगृहीतहरिणीकृपयाकुलो यो मृगस्तन्यायेन मृगीमनुसरन्व्याघ्रसंनिधौ पतन्मृगस्तस्य वध्यो भवेत्येवं हिंसारुचेः एनां न रक्षसि त्वं तु म्रियस्व इति भा- वमाश्रित्य । पाठान्तरं हिंसारुचे इति संबोधन वा । सोऽहं भवतैव प्रागग्रे भूत- जननीं जगन्मातरं चण्डिकामृध्नोमि प्रीणयामि । ‘ऋधु वृद्धौ’ इति स्वादिरपीति धातुप्रदीपः । कीदृशेन खङ्गाहत्या व्यस्तस्कन्धश्छिन्नग्रीवः अत एव कबन्धस्तस्य रन्ध्राद्रुधिरप्राग्भारं श्च्योतनं समूहं वा निःखन्दितुं शीलं यस्य तेन । रुचेरिति पञ्चम्यन्तपाठे रुचेर्हेतोर्मे गोचरं प्राप्तोऽसीत्यर्थः । पापस्थाने प्रायःपाठे समस्तमेव पदम् । ‘केतनं कृत्ये केतावुपनिमन्त्रणे’ इत्यमरः । ‘गोचरस्तु समीपे स्यात्’ इति धरणिः । यत एव च्छिन्नग्रीवोऽत एव कबन्ध इति हेतुहेतुमद्भावेनोक्तिपोष एव वीररसोऽयम् ॥ २९ ॥ मारणेऽपराधमाह—असारमित्यादि । हे पाखण्ड, जगदसारं सारशून्यं विधातुं कर्तुं कथं व्यवसितः कृतप्रारम्भोऽसि । ‘अशक्यानि दुरन्तानि समव्ययफलानि च । असत्यानि च कार्याणि नारभेत विचक्षणः ॥’ इति । न श्रुतं त्वया । तथा च संसारसारभूतेयमेव । अनया विनासार एव स इति । यदाह—‘सारं तु महिलारत्नं संसार इति निश्चयः ।’ इति । ‘जातौ जातौ यदु- त्कृष्टं तद्धि रत्नं प्रचक्षते ।’ इति । तत्सर्वमाकृष्येयं निर्मिता । अतो रत्नमि- यम् । मनोहरत्वदीप्तित्वतरलत्वादिनेयं वा रत्नम् । अत एव तदभावात्प्रमु-