मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 320, कुल 377 में से
संदर्भ में पढ़ें७२ जगद्धरकृता [ अङ्कः ५ पृ० प० १३६ १ ० नन्वयं भवसि । ३ ०अणथ्थसंसआदो । षितरत्नं त्रिभुवनं कर्तुं व्यवसितोऽसि । तदेतत्सर्वविषयं चौर्यं दुरन्तमिति भावः । इयमतिकान्त्या जगदुद्द्योतयतीत्यालोकभूता । एतदभावान्निरालोकं तमः प्रविष्टं लोकं जनं कर्तुं व्यवसितोऽसि । अत एवोत्कृष्टं प्रति लोकोक्तिस्तेन विनान्धका- रस्तत्सत्त्व उद्योत इति । बान्धवजनानामेतत्सखीनामियं जीवनहेतुः । अत एतन्ना- शान्मरणशरणं सखीजनं विधातुं व्यवसितोऽसि । अन्यस्त्रीनाशे तत्सख्यो दुः- खिताः । एतन्नाशे तु म्रियन्त एवेति भावः । अत्रासारं संसारमित्यादिना नायिका- गतरा मणीयकातिशयवर्णनमुपक्रम्य मरणशरणमित्यादिस्नेहविषयताप्रतिपादना- देकवाक्यतयैकरसनिर्वाह इत्यदेश्यम् । मात्रादिबन्धुव्यतिरिक्तोदासीनबान्धवसंग्र- हपदान्जनशब्दात्स्वस्यैव माधवावस्था विपत्तिं सूचयतीत्यदोषात् , तदीयनानागुण- चिन्तनादेव मरणशरणता ममेत्यारब्धनिर्वाहाच्च । कन्दर्पश्चैतया मोहनास्त्रेण दर्पं करोति । एतदभावाददर्पं कन्दर्पम् । जननयनस्यैतद्दर्शनमेव फलम् । अत एत- न्नाशात्तदफलं जगदनयालंकृतमेव । एतदभावाज्जीर्णारण्यतुल्यं तदिति । अत्र प्रियाप्रशंसया शृङ्गारो बन्धुमरणात्करुणा पाखण्डाक्षेपाद्वीरः कथमित्यद्भुतमिति नाना रसाः ॥ ३० ॥ पुनरपि दोषमुद्भाव्य दण्डं चिकीर्षुराह—प्रणयीत्यादि । हे पाप, तव शिरस्येष भुज आकस्मिकयमदण्ड इव पततु । आकस्मिकत्वेनाप्र- तिक्रियत्वमुक्तम् । कीदृशस्य । तन्न वपुषि वधाय शस्त्रमुत्तोलयतः । अत्र भुजप- देन बाहुव्यापारमात्रेणैव हन्तव्योऽसीति शौर्यातिशय उक्तः । यद्वपुः सुकुमारशि- रीषपुष्पाघातैरपि ताम्यति म्रियति । कीदृशैः । सप्रश्रयसखीसविलासपरिहासरस- प्राप्तैः । अत्रापि शृङ्गारवीरकारुण्यसंभेदः ॥ ३१ ॥ मालती । अत्र त्वज्जीवने मम जीवनमपि सफलम् । अन्यथा तु मरणमेव वरमिति भावः । कपालकु- ण्डला । मालतीव कपालकुण्डलापि स्वनाथमाह—भगवन्निति । अवष्टम्भा- र्थमप्रमत्त इति । द्वयोर्भयं ज्ञात्वोभावाहतुः—धैर्यमित्यादि । हे भीरु, त्वं हृदये धैर्यं कुरु । एष पापो हतः । अस्य वधे कुतः संशय इति वृथा भयं त इति भावः । अत्र युक्तिमाह—सारङ्गेण मृगेण सह युद्धविधाने हरेः सिंहस्य प्रमादोऽनवधानता किं वा केनचित्कदाप्यनुभूतः । कीदृशस्य । इभकुम्भरूपं यत्कूटमुच्चप्रदेशस्तत्कुट्टनशीलं हस्त एव वज्रं यस्य । यद्वा हरेरिन्द्रस्य हस्तिना सह युद्धे नास्ति प्रमादः । कीदृशस्य । हस्तिकुम्भवत्पीवरशुण्डकुट्टाकं पाणिस्थकुलिशं यस्य । कुम्भकूटपाणिकुलिशपदे शाकपार्थिवादिः । ‘सारङ्गः पुंसि हरिणे चातके च मतङ्गजे’ इति मेदिनीकारः । वीरो रस इह ॥ ३२ ॥ मालतीगृहकथाकथ- नागाह—भो भो इति । अप्रतिहतेति सत्यवचनेत्यर्थः । एतेनाघोरघण्टकृतो मालत्यपहार इति कामन्दकीवचनं सत्यम् । मालतीमाधवयोश्च विवाहः सत्य इति षष्ठाङ्कावतार इति सूचितम् । पर्यवष्टम्भनं सर्वतो वेष्टनम् । नेत्यादि । एतत्कर्म मालत्यपहरणात्मकं भीषणं सिंहकौशलहरणात् । अद्भुतं बहुरक्षरक्षिताया अपि