भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 320, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 320

७२ जगद्धरकृता [ अङ्कः ५ पृ० प० १३६ १ ० नन्वयं भवसि । ३ ०अणथ्थसंसआदो । षितरत्नं त्रिभुवनं कर्तुं व्यवसितोऽसि । तदेतत्सर्वविषयं चौर्यं दुरन्तमिति भावः । इयमतिकान्त्या जगदुद्द्योतयतीत्यालोकभूता । एतदभावान्निरालोकं तमः प्रविष्टं लोकं जनं कर्तुं व्यवसितोऽसि । अत एवोत्कृष्टं प्रति लोकोक्तिस्तेन विनान्धका- रस्तत्सत्त्व उद्योत इति । बान्धवजनानामेतत्सखीनामियं जीवनहेतुः । अत एतन्ना- शान्मरणशरणं सखीजनं विधातुं व्यवसितोऽसि । अन्यस्त्रीनाशे तत्सख्यो दुः- खिताः । एतन्नाशे तु म्रियन्त एवेति भावः । अत्रासारं संसारमित्यादिना नायिका- गतरा मणीयकातिशयवर्णनमुपक्रम्य मरणशरणमित्यादिस्नेहविषयताप्रतिपादना- देकवाक्यतयैकरसनिर्वाह इत्यदेश्यम् । मात्रादिबन्धुव्यतिरिक्तोदासीनबान्धवसंग्र- हपदान्जनशब्दात्स्वस्यैव माधवावस्था विपत्तिं सूचयतीत्यदोषात् , तदीयनानागुण- चिन्तनादेव मरणशरणता ममेत्यारब्धनिर्वाहाच्च । कन्दर्पश्चैतया मोहनास्त्रेण दर्पं करोति । एतदभावाददर्पं कन्दर्पम् । जननयनस्यैतद्दर्शनमेव फलम् । अत एत- न्नाशात्तदफलं जगदनयालंकृतमेव । एतदभावाज्जीर्णारण्यतुल्यं तदिति । अत्र प्रियाप्रशंसया शृङ्गारो बन्धुमरणात्करुणा पाखण्डाक्षेपाद्वीरः कथमित्यद्भुतमिति नाना रसाः ॥ ३० ॥ पुनरपि दोषमुद्भाव्य दण्डं चिकीर्षुराह—प्रणयीत्यादि । हे पाप, तव शिरस्येष भुज आकस्मिकयमदण्ड इव पततु । आकस्मिकत्वेनाप्र- तिक्रियत्वमुक्तम् । कीदृशस्य । तन्न वपुषि वधाय शस्त्रमुत्तोलयतः । अत्र भुजप- देन बाहुव्यापारमात्रेणैव हन्तव्योऽसीति शौर्यातिशय उक्तः । यद्वपुः सुकुमारशि- रीषपुष्पाघातैरपि ताम्यति म्रियति । कीदृशैः । सप्रश्रयसखीसविलासपरिहासरस- प्राप्तैः । अत्रापि शृङ्गारवीरकारुण्यसंभेदः ॥ ३१ ॥ मालती । अत्र त्वज्जीवने मम जीवनमपि सफलम् । अन्यथा तु मरणमेव वरमिति भावः । कपालकु- ण्डला । मालतीव कपालकुण्डलापि स्वनाथमाह—भगवन्निति । अवष्टम्भा- र्थमप्रमत्त इति । द्वयोर्भयं ज्ञात्वोभावाहतुः—धैर्यमित्यादि । हे भीरु, त्वं हृदये धैर्यं कुरु । एष पापो हतः । अस्य वधे कुतः संशय इति वृथा भयं त इति भावः । अत्र युक्तिमाह—सारङ्गेण मृगेण सह युद्धविधाने हरेः सिंहस्य प्रमादोऽनवधानता किं वा केनचित्कदाप्यनुभूतः । कीदृशस्य । इभकुम्भरूपं यत्कूटमुच्चप्रदेशस्तत्कुट्टनशीलं हस्त एव वज्रं यस्य । यद्वा हरेरिन्द्रस्य हस्तिना सह युद्धे नास्ति प्रमादः । कीदृशस्य । हस्तिकुम्भवत्पीवरशुण्डकुट्टाकं पाणिस्थकुलिशं यस्य । कुम्भकूटपाणिकुलिशपदे शाकपार्थिवादिः । ‘सारङ्गः पुंसि हरिणे चातके च मतङ्गजे’ इति मेदिनीकारः । वीरो रस इह ॥ ३२ ॥ मालतीगृहकथाकथ- नागाह—भो भो इति । अप्रतिहतेति सत्यवचनेत्यर्थः । एतेनाघोरघण्टकृतो मालत्यपहार इति कामन्दकीवचनं सत्यम् । मालतीमाधवयोश्च विवाहः सत्य इति षष्ठाङ्कावतार इति सूचितम् । पर्यवष्टम्भनं सर्वतो वेष्टनम् । नेत्यादि । एतत्कर्म मालत्यपहरणात्मकं भीषणं सिंहकौशलहरणात् । अद्भुतं बहुरक्षरक्षिताया अपि