भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 321, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 321

अङ्कः ५ ] मालतीमाधवटीका । ७३ पृ० पं० १३७ २ ॰षिणः सैनिकाः इय० । ३ ॰प्रज्ञागतिर्भंग० । ॰म- न्दकी बः समा० । ५ ॰घण्टादन्यस्य कर्मैतद्भीषणाङ्ग- तम् । १० ॰बान्धवसमाजसुस्थितां मालतीं विधाय० । १४ ॰व्यतिकररणत्कार० । १५ ॰वेगव्युपशमः । १३८ १ ॰पिशितपिण्डेषु विलस-० । इति श्मशानवर्णनं नाम पञ्चमोऽङ्कः । हरणात् ॥ ३३ ॥ कपालकुण्डला । स्त्रीत्वाद्भयेन पलायनेच्छुराह—भगव- न्निति । अघोरघण्टः । संग्रामादपसरणस्याधर्महेतुतया सात्त्विकतया चाह— संप्रतीति । पौरुषं पुरुषस्य व्यापारस्तेजो वा । 'पौरुषं पुरुषस्योक्तं भावे क- र्मणि तेजसि' इति विश्वः । मालती । मालती त्रासावेगातिशयादाह—हा तात, हा भगवति, इति । माधवः । मालतीरक्षार्थं कापालिको मया हत इत्यमात्यो जानात्वित्याशयेन मालतीं च कातरां वीक्ष्याह—भवत्विति । बान्धवेत्यादिना भाविकार्योपयोग उक्तः । अन्यतः कापालिकादन्यदेशं स्वसंमुखमिति यावत् । माधवाघोरघण्टौ द्वावप्येकश्लोकेन प्रहारव्यापारमाहतुः—कठोरेत्यादि । हे पाप, ममासिः खड्गस्तव प्रत्यङ्गं लवशः खण्डं खण्डं सपदीदानीमेव विक्षिपतु । कर्दमेष्विव मांसपिण्डेषु निरातङ्को यथारुचि विचरन्सन् । कीदृशः कठिना- स्थिग्रन्थिघटनेन यो रणत्कारो व्यक्तध्वनिस्तेन मुखरः सशब्दः । कठिनस्नायु- च्छेदेषु मुहूर्तं कृतवेगोपरमश्च ॥ ३४ ॥ कतीह पञ्चमाङ्के स्फुरन्ति नोद्भटा रसाः । मदीयबुद्धिरल्पिका क्व वेद तानशेषतः ॥ प्रासोष्ट यं रत्नधरोऽतिभव्योऽऽतिभव्यरूपो दमयन्तिकापि । जगद्धरं तत्कृतटिप्पणेऽङ्कोऽगमन्मनोहारिणि पञ्चमोऽयम् ॥ इति पञ्चमोऽङ्कः ।