मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 324, कुल 377 में से
संदर्भ में पढ़ें७६ जगद्धरकृता [ अङ्कः ६ पृ० पं० १४२ १० ०चापखण्डवि० । ११ ०किणीजालरणि० । १४३ ३ ०रिमयूखमे० । ८ ०कलधौ अवत्तविचित्त० । १४४ १ ०मणहरा प्पण्डुर० । देहसोहा पढमुग्गअचन्दे० १४५ ३ ०दम्पत्योपयमने । ४ ०शिवदायी च भ० । भा येषां तैः । ‘मेचकश्चन्द्रके स्निग्धे श्यामलेऽपि च दृश्यते’ इति विश्वः । ‘भूरि क्लीबं सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकम्’ इति मेदिनीकारः । उन्मेष्युड्डीनो यश्चाषः पक्षिभेदस्तस्य च्छदच्छायया पक्षकान्त्या संवलितैरिव मिलितैः । कीदृशाः । उद्भूत- चित्रस्य चीनदेशभववस्त्रस्य प्रस्तारेण शय्यया प्रसारेण वा च्छन्ना इव । ‘प्रस्तार- स्तानितं शय्या’ इति हारावली । मणय इवाभरणस्थरत्नानि ॥ ५ ॥ कलहंसः । अत्रावर्जिता तिर्यक्क्लप्ता । कनकं हिरण्यम् । कलधौतं रजतम् । ‘कलधौतं हेमरौप्ययोः’ इति विश्वः । पङ्केन लेपेन । वेत्रलता वेत्रदण्डिका । परिक्षिप्ता रचिता । मण्डल इति । अस्मान्मण्डलात्केनापि न बहिर्गन्तव्यमिति भावः । दूरत एव मालत्या इत्यर्थात् । पृथुसिन्दूरपूर एव सन्ध्यारागस्तेनोपरक्ता किंचि- दारक्ता चटुला चपला घूर्णती लम्बमाना या नक्षत्रमाला सप्तविंशतिमौक्तिकमाला हस्तिप्रसाधनभेदो वा सैवाभरणं तद्धारिणीम् । रात्रिपक्षे नक्षत्रमाला तारका- माला । करेणुर्हस्तिनी सैव रात्रिस्ताम् । दृश्यमाना चासौ मनोहरा चेति समासः । पाण्डुरा धूसरा परिक्षामातिकृशाङ्गदीप्तिर्यस्याः सा । एतेन चन्द्रकलासाम्यमु- क्तम् । दृश्यमानेत्यनेनान्येषां दर्शनमात्रं तव परमुपभोगो मालत्या इति सूचि- तम् । पाण्डुरेत्यादिना मालत्यामान्तर उद्वेग उक्तः । किंचिदन्तरं कियद्दूरम् । प्रसृता गता । कलधौततष्टपत्रेति पाठे तष्टपत्रं पट्टिकेत्यर्थः । इयमित्यादि । इयं वरारोहा प्रशस्तश्रोणिका विवाहमहोत्सवसंपत्तिं प्रकृष्टां रम्यां च वहति । स- हजरमणीयत्वात् । उद्गाढां प्रबलां चित्तपीडां च प्रकाशयति । कीदृशी । पाण्डु- क्षामैरङ्गैरलंकृतभूषणा । अतिरम्यतयामीभिरेव भूषणान्यलंक्रियन्त इति भावः । अन्तरभ्यन्तरे परिशोषिणी । अत एवाङ्गानां पाण्डुक्षामत्वम् । कलितं परिहितं कुसुमं यया सा । बालां षोडशवर्षवयस्कां अवयवैरित्यनेन सर्वाङ्गीणं पाण्डुत्वा- युक्तम् । लतेव । यथा लता नवा वसन्तादिप्रभावात्सपुष्पापि कुतश्चिद्वैकृतादन्तः परिशोषं वहति तथेयमपीत्यर्थः । निपादिता उपवेशिता । अवतारणार्थमिदम् ॥ ६ ॥ कामन्दकी । सहर्षमित्यभीष्टसंपादनादिति भावः । विधातेत्यादि । नोऽस्माकं मनोज्ञाय हृद्याय विधये व्यापाराय प्रकृतविवाहाय भद्रं कुशलम- विघ्नं विधाता ददातु । विधय इत्यत्र तादर्थ्ये चतुर्थी । क्रियार्थोपपदस्येति वा । वृत्तेऽपि कार्ये राजविरोधादनिष्टमाशङ्क्याह—परमरमणीयामविरोधिनीं परिणति- मुत्तरविशुद्धिं देवाः कुर्वन्तु । स्वस्यापि फलमाह—अहं कृतकृत्या भूयासम् ।