भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 325, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 325

अङ्कः ६] मालतीमाधवटीका । ७७ पृ० प० १४६ ३ (प्रविश्य पेटकहस्ता) । ६ युक्तमाहामात्यः । माङ्गलिकं हि तत्स्थानमतो दर्शय । ११ ०व्यति मदयन्तिका । (प्र०)० । भवत्वोमित्युच्य० । १४७ ८ ०इतस्तावत्स्तम्भापवारितौ तिष्ठावः । यतो मालतीमाधवयोर्विवाहे समस्तोऽयं प्रयत्नः फलतु । उत्तरकालशुद्ध्या फलदायी भवत्वित्यर्थः । परिणतिशुद्ध्या शिवदापी भवतु । कल्याणकरोऽस्त्वित्यर्थः । शिवतातिश्च भवत्विति पाठे शिवतातिः शिवकरः । 'सर्वदेवात्तातिल्' इत्यनुवर्तमाने 'शिवशमरिष्टस्य करे' इति तातिल् । अत्र मरणमेव सर्वदुःखनाशकतया निर्वाणं मोक्षस्तस्यान्तरमवसरः । यद्वा मरणमेव निर्वाणं निर्वृतिः सुखम् । 'निर्वाणं निर्वृतौ मोक्षे' इति विश्वः । 'अन्तरमवसराध्वात्मसहशेषु' इति मेदिनीकारः ॥ ७ ॥ मालती । संभावयिष्ये सम्यक् प्राप्स्यामि । भूप्राप्तावित्यस्यात्मनेपदिनो रूपम् । सांप्रतमित्यनेन माधवालाभान्नन्दनलाभादिलम्बनाच्चेति दर्शितम् । मन्दभाग्यतया माधवप्राप्तिवन्मरणमपि न स्यादिति भावः । लवङ्गिका । अत्र क्तामिता क्रमं श्रमं प्रापिता । अनुकूलेन माधवेन सह विप्रलम्भो विरहस्तेन । यद्वा अनुकूलो नन्दनस्तस्य विप्रलम्भेन वञ्चनया । प्रतीहारी । पेटकं मञ्जूषा । 'पेटकं पुस्त- कादीनां मञ्जूषायां कदम्बके' इति मेदिनीकारः । पेटकग्रहणं तु नन्दनप्रसाधना- र्थम् । अत्र नेपथ्यं प्रसाधनम् । कामन्दकी । युक्तमिति । एतत्प्रसाधना- न्मकरन्दमलंकृत्य मदयन्तिकां विवाहयिष्यामीति भावः । माङ्गलिकं मङ्गलहेतुः। प्रतीहारी । अत्र धवलं यत्पट्टं सूत्रमयमंशुकं तेन निर्मितश्चोलकः कूर्पासकः । 'चोलः कूर्पासकोऽस्त्रियाम्' इत्यमरः । उत्तरीयद्रूपं रक्तांशुकं सिन्दूरीवस्त्रम् । 'आपीडः शेखरोऽस्त्रियाम्' इति मेदिनीकारः । भवतीति संबोधनम् ॥ काम- न्दकी । गुरुसमक्षं मालत्यनुरागानुभवो माधवस्य न स्यादत उक्तम्-प्र- विश त्वमिति । कामन्दकी । विविक्ते विजने ॥ मालती । हृद्गतमरणा- वकाशप्राप्त्या सानन्दोक्तिरियम् । बाह्यसंवेदनाभावान्मलतीं न पश्यतीति भावः॥ मकरन्दः । अपवारितं व्यवहितम् ॥ लवङ्गिका । अत्राङ्गरागः कुङ्कु- मादिः । मालती । तत्प्रयोजनमपश्यन्तीवाह-ततः किं मयानेन कर्तव्य- मित्यर्थः । लवङ्गिका । अत्र पाणिग्रहणेति सामान्योक्त्या माधवनन्दसयोर्विवा- हश्लेषेण नर्मस्फोटोऽयमिति भावः । यदाह-'श्लेषेणोक्तिस्तु भावानां नर्मस्फोटो इतीरितः ।' मालती । अत्र दुर्विलासपरिणामः प्रियत्यागाप्रियप्राप्तिलक्षणः । दुःसहमिति क्रियाविशेषणम् । अनया क्लिष्टं मदूचो न ज्ञातमत इयमेव वदत्वित्यत आह-मालती । अत्राभिनिवेशिनो मनोरथेन बिसंवादं प्रतिकूलं भाग्यं