भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 326, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 326

७८ जगद्धरकृता [ अङ्कः ६ पृ० पं० १४८ १ ॰णिद्दद्धमाणसं पु०। ४ ॰जं दाणिं०। ६ श्रुतमसंतोषश्च हृदयस्य । १२ ॰माहवसिरिणो मुहा० । १३ सिणं अवलोअइस्ससि । १४९ ६ ॰दाइणो जणस्स अव० । १० ॰सहीए प्पसादादो मा- लदी किदत्था भोदि । १५० १ ॰करुणं वर्तते । यस्य सः । मकरन्दः । माधवे दुर्लभां वाञ्छां मलाह—सखे श्रुत- मिति । माधवः । श्लिष्टे वचनस्यानिष्टाशङ्कितमाह—असन्तोष इति । मालती । अत्र परमार्थेत्यादिना विश्वासपात्रत्वमुक्तम् । विरूढ उपचितः । सदृशं यथा तथा परिष्वज्येत्यन्वयः । अनुवर्तनीयोपकर्तव्या । समग्रसौ- भाग्यपदेनारविन्दस्पर्धिनी शोभोक्ता । यदाह—'उत्तमैर्गुणभिः स्पर्धा या सा शोभा प्रकीर्तिता' । मां हृदये धारयन्तीत्यनेन परंपरया ममापि दर्शनं स्यादित्युक्तम् । माधवप्रिय इत्यत्र प्राकृते पूर्वनिपातानियमाच्छ्रीमाधवस्येत्यर्थः । आनन्दमसृणत्वेन स्निग्धा दृष्टिरुक्ता । म्लानस्येत्यादि । वचांस्येवामृतानि मयापि दिष्ट्या निर्णीतानि । त्वया श्रुतमित्यादिना निर्णीतानि मया लघूनेत्यपि प- दार्थः । अमृततुल्यलमाह—म्लानस्य प्रत्याशाभङ्गज्ञानेन संकोचितस्य जीवपुष्पस्य प्रकाशनानि । अमृतेऽपि सर्वप्रकाशकतया म्लानपुष्पप्रकाशकत्वम् । संतर्पणानि तृप्तिकरणानि । अमृतेऽप्येवम् । संतर्पणे सति बाह्येन्द्रियतर्पकानि । अमृतेऽप्ये- वम् । आनन्दनान्यन्तर्मोदकानि । आद्यत आनीयतेऽनेनेत्यायनम् । रसस्यायनं रसायनम् । वचसां । चित्तोल्लासकत्वेन नवत्वजननादिवामृतस्य जरादिनाशकत्वेन नवलजननादिदमिति भावः । यद्वा अमृतपदेन जलमोक्षपीयूषाण्युच्यन्ते । तत्राद्यपदेन जलसाम्यम् । मोक्षसाम्यार्थमितरपदत्रयम् । मोक्षे हि सम्यक्त्वृ- त्तिविषये निराकाङ्क्षतैव । इन्द्रियमोहोऽपि विषयग्रहाभावात् । 'आनन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम्' इति श्रुतेरानन्दमयता मोक्षे । यद्वा आद्यपदाभ्यां जलसाम्यमितरपदाभ्यां मोक्षसाम्यम् । पीयूषसाम्यार्थं शेषपदम् । 'अमृतं मो- क्षपीयूषसलिलेषु घृतेऽपि च' इति धरणिः ॥ ८ ॥ मालती । अत्रावसिता मृता तथाविधमनिर्वचनीयम् । न परिहीयते न नश्यति तथा करिष्यसीत्य- न्वयः । लोकयात्रा गार्हस्थ्यम् । अपत्नीकत्वं वा । माधवाप्तिप्रत्याशानाशादेवमे- वेत्यवधारणम् । मकरन्दः । हन्तानुकम्पायाम् । करुणमिति । आलस्या- दिसमुत्थो निरपेक्षभावः करुणः, औत्सुक्यचिन्तासमुत्थः सापेक्षभावो विप्रलम्भ इत्यनयोर्भेदः । अत एव निरपेक्षपदोपलक्षितनैराश्यमाह । माधवः—नैराश्ये- त्यादि । नैराश्येन प्रत्याशानाशेन कातरा विसंष्ठुला धीर्यस्या हरिणनेत्रायाः । वात्सल्यं प्रियविश्लेषे प्राणत्यागेच्छा । मोहो भ्रमः सप्रत्याशत्वेऽपि नैराश्याभिमानः । ताभ्यां यत्परिदेवितं विलपनं वृत्तवर्तमानभाव्यर्थचिन्तनमतिकरुणं मनोज्ञं च श्रुत्वा