मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 326, कुल 377 में से
संदर्भ में पढ़ें७८ जगद्धरकृता [ अङ्कः ६ पृ० पं० १४८ १ ॰णिद्दद्धमाणसं पु०। ४ ॰जं दाणिं०। ६ श्रुतमसंतोषश्च हृदयस्य । १२ ॰माहवसिरिणो मुहा० । १३ सिणं अवलोअइस्ससि । १४९ ६ ॰दाइणो जणस्स अव० । १० ॰सहीए प्पसादादो मा- लदी किदत्था भोदि । १५० १ ॰करुणं वर्तते । यस्य सः । मकरन्दः । माधवे दुर्लभां वाञ्छां मलाह—सखे श्रुत- मिति । माधवः । श्लिष्टे वचनस्यानिष्टाशङ्कितमाह—असन्तोष इति । मालती । अत्र परमार्थेत्यादिना विश्वासपात्रत्वमुक्तम् । विरूढ उपचितः । सदृशं यथा तथा परिष्वज्येत्यन्वयः । अनुवर्तनीयोपकर्तव्या । समग्रसौ- भाग्यपदेनारविन्दस्पर्धिनी शोभोक्ता । यदाह—'उत्तमैर्गुणभिः स्पर्धा या सा शोभा प्रकीर्तिता' । मां हृदये धारयन्तीत्यनेन परंपरया ममापि दर्शनं स्यादित्युक्तम् । माधवप्रिय इत्यत्र प्राकृते पूर्वनिपातानियमाच्छ्रीमाधवस्येत्यर्थः । आनन्दमसृणत्वेन स्निग्धा दृष्टिरुक्ता । म्लानस्येत्यादि । वचांस्येवामृतानि मयापि दिष्ट्या निर्णीतानि । त्वया श्रुतमित्यादिना निर्णीतानि मया लघूनेत्यपि प- दार्थः । अमृततुल्यलमाह—म्लानस्य प्रत्याशाभङ्गज्ञानेन संकोचितस्य जीवपुष्पस्य प्रकाशनानि । अमृतेऽपि सर्वप्रकाशकतया म्लानपुष्पप्रकाशकत्वम् । संतर्पणानि तृप्तिकरणानि । अमृतेऽप्येवम् । संतर्पणे सति बाह्येन्द्रियतर्पकानि । अमृतेऽप्ये- वम् । आनन्दनान्यन्तर्मोदकानि । आद्यत आनीयतेऽनेनेत्यायनम् । रसस्यायनं रसायनम् । वचसां । चित्तोल्लासकत्वेन नवत्वजननादिवामृतस्य जरादिनाशकत्वेन नवलजननादिदमिति भावः । यद्वा अमृतपदेन जलमोक्षपीयूषाण्युच्यन्ते । तत्राद्यपदेन जलसाम्यम् । मोक्षसाम्यार्थमितरपदत्रयम् । मोक्षे हि सम्यक्त्वृ- त्तिविषये निराकाङ्क्षतैव । इन्द्रियमोहोऽपि विषयग्रहाभावात् । 'आनन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठितम्' इति श्रुतेरानन्दमयता मोक्षे । यद्वा आद्यपदाभ्यां जलसाम्यमितरपदाभ्यां मोक्षसाम्यम् । पीयूषसाम्यार्थं शेषपदम् । 'अमृतं मो- क्षपीयूषसलिलेषु घृतेऽपि च' इति धरणिः ॥ ८ ॥ मालती । अत्रावसिता मृता तथाविधमनिर्वचनीयम् । न परिहीयते न नश्यति तथा करिष्यसीत्य- न्वयः । लोकयात्रा गार्हस्थ्यम् । अपत्नीकत्वं वा । माधवाप्तिप्रत्याशानाशादेवमे- वेत्यवधारणम् । मकरन्दः । हन्तानुकम्पायाम् । करुणमिति । आलस्या- दिसमुत्थो निरपेक्षभावः करुणः, औत्सुक्यचिन्तासमुत्थः सापेक्षभावो विप्रलम्भ इत्यनयोर्भेदः । अत एव निरपेक्षपदोपलक्षितनैराश्यमाह । माधवः—नैराश्ये- त्यादि । नैराश्येन प्रत्याशानाशेन कातरा विसंष्ठुला धीर्यस्या हरिणनेत्रायाः । वात्सल्यं प्रियविश्लेषे प्राणत्यागेच्छा । मोहो भ्रमः सप्रत्याशत्वेऽपि नैराश्याभिमानः । ताभ्यां यत्परिदेवितं विलपनं वृत्तवर्तमानभाव्यर्थचिन्तनमतिकरुणं मनोज्ञं च श्रुत्वा