भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 327, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 327

अङ्कः ६ ] मालतीमाधवटीका । ७९ पृ० प० १५३ १० ०चिरं महुसवो लोअणाणं० । १५४ २ ०दूसहारम्भदूमा० । ६ ०सिरिसह० । चिन्तया यो विषादस्त्रेन विपत्तिमुद्वहामि । चिन्ताविषादरूपां वा विपत्तिं महो- त्सवं चोद्वहामि । चकारो मिथो विरुद्धरसयोजने । इह हेतुफलभावेनान्वयः । तथा हि नैराश्यकातरबुद्धिलाद्वात्सल्यम् । ततः परिदेवनम् । तच्छ्रुत्वा मनोवि- षादः । तथा हरिणेक्षणत्वेनापहृतचित्तस्य ममालाभान्मनोज्ञपरिदेवितं श्रुत्वा महो- त्सवः । 'स पुनः क्रन्दनैर्मोहैः प्रलापैः परिदेवनैः । देहायासामिघातैश्च करुणा- मिनयो भवेत् ॥' इति भरतः ॥ ९ ॥ लवङ्गिका । अत्रामङ्गलप्रतिघातो वि- वाहादिति बाह्यम् । माधवसन्निधानादित्यान्तरम् । मालती । बाह्यार्थमाक- ल्याह—अत्र तच्छरीरावच्छिन्नात्मा मालती । जीवनं तदृष्टविशेषकारितदेहात्म- संयोग इति जीवनमालत्योर्भेदः । जीवनस्य सुखहेतुतया प्रियत्वं, तच्चेद दुःखसंत- तिजनकमतरत्याज्यमेव भवतीति भावः । मालती । अत्रान्यजनेत्यन्यपदेन माधवाभिधानम् । नन्दनापेक्षयान्यत्वात् । दुर्लभत्वेन परकीयत्वारोपाद्वा । बीभ- त्समिह नन्दनविवाहार्थमङ्गलस्यानिष्टस्य दर्शनात् । अनपराध्दामितीषदर्भे नञ् । आनन्दनविवाहपर्यन्तस्थायित्वे महापराधो यतः । अन्यस्य संभोगादेरभावादेष एवेत्युक्तम् । अपरिपन्थिन्यविरोधिनी । एतदात्मत्यागरूपम् ॥ संज्ञया संकेतेन ॥ माधवः । परवाननायत्त्रः । साध्वसेन जडतया । मकरन्दः । अल्यभीष्टलाभादि- यम् । नेदीयंसां निकटानाम् ॥ स्वैरं शनैः । मालती । अत्र भर्तु स्वीकुर्वित्यर्थः ॥ माधवस्य संस्कृतभाषया लवङ्गिकाश्रमो न स्यादिति भाषासमावेशेनाह—सरल इत्यादि । साहसं आत्मनिरपेक्षकार्यं रागमनुरागं परिहर । हे रम्भोरु, कदली- समोरुदेशे, संरम्भं मरणे त्वरां त्यज । जीवन्त्यां प्रत्याशापि स्यादिति भावः । विरसं रसशून्यं तव विश्लेषदुःखं सोढुं मे चित्तमक्षमं यतः । अतोऽयं वल्लभस्त्वयि दत्तोऽतस्त्यज मरणाभिनिवेशमिति लवङ्गिकामिप्रायः । अत एव सरले अहे, ऋ- जुप्रकृतिके वा । माधवपक्षे सरले हे अजानति, तव विरहायासं सोढुं मे चित्तम- सहमतस्तव समीपमागतोऽस्मि तन्मरणं त्यज । इतरत्सममेव । तदिह संस्कृतप्रा- कृतयोः साम्यात्प्राकृतसमकम् ॥ १० ॥ किं वेत्यादि । किं वा भणामि । त्वदा- रम्भनिषेधं न करोमीत्यर्थः । हे विरहदुःसहकष्टकारिणि सुश्रोणि, काममभीष्टं कुरु । यद्येवं तदा ममालिङ्गनं देहीति लवङ्गिकापक्षे । माधवपक्षे । तु किंवा भणामि किं वक्तव्येन कामं कामव्यापारं कुरु । अतः परिरम्भणं देहि । 'आरोहः श्रोणिका- च्योः' इति धरणिः । श्लोकद्वयमिदं सौरसेन्या । यदाह—'सप्तार्थ लक्षणं प्रोक्तं सौरसेन्याः प्रपञ्चतः । लक्षणं त्वेकमेवास्याः संस्कृतात्पदन्यूनता' ॥ ११ ॥ मा- लती । अत्र उत्पीडः प्रबलीभूया निर्गमः । उत्पीडः समूहो वा । अपश्चिमं चर- मम् । प्रियस्पर्शाद्दाहादाह्लादहर्षम् । कठोरमरालगर्भो बीजकोशः । पक्ष्मलो रोमाञ्च-