मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 327, कुल 377 में से
संदर्भ में पढ़ेंअङ्कः ६ ] मालतीमाधवटीका । ७९ पृ० प० १५३ १० ०चिरं महुसवो लोअणाणं० । १५४ २ ०दूसहारम्भदूमा० । ६ ०सिरिसह० । चिन्तया यो विषादस्त्रेन विपत्तिमुद्वहामि । चिन्ताविषादरूपां वा विपत्तिं महो- त्सवं चोद्वहामि । चकारो मिथो विरुद्धरसयोजने । इह हेतुफलभावेनान्वयः । तथा हि नैराश्यकातरबुद्धिलाद्वात्सल्यम् । ततः परिदेवनम् । तच्छ्रुत्वा मनोवि- षादः । तथा हरिणेक्षणत्वेनापहृतचित्तस्य ममालाभान्मनोज्ञपरिदेवितं श्रुत्वा महो- त्सवः । 'स पुनः क्रन्दनैर्मोहैः प्रलापैः परिदेवनैः । देहायासामिघातैश्च करुणा- मिनयो भवेत् ॥' इति भरतः ॥ ९ ॥ लवङ्गिका । अत्रामङ्गलप्रतिघातो वि- वाहादिति बाह्यम् । माधवसन्निधानादित्यान्तरम् । मालती । बाह्यार्थमाक- ल्याह—अत्र तच्छरीरावच्छिन्नात्मा मालती । जीवनं तदृष्टविशेषकारितदेहात्म- संयोग इति जीवनमालत्योर्भेदः । जीवनस्य सुखहेतुतया प्रियत्वं, तच्चेद दुःखसंत- तिजनकमतरत्याज्यमेव भवतीति भावः । मालती । अत्रान्यजनेत्यन्यपदेन माधवाभिधानम् । नन्दनापेक्षयान्यत्वात् । दुर्लभत्वेन परकीयत्वारोपाद्वा । बीभ- त्समिह नन्दनविवाहार्थमङ्गलस्यानिष्टस्य दर्शनात् । अनपराध्दामितीषदर्भे नञ् । आनन्दनविवाहपर्यन्तस्थायित्वे महापराधो यतः । अन्यस्य संभोगादेरभावादेष एवेत्युक्तम् । अपरिपन्थिन्यविरोधिनी । एतदात्मत्यागरूपम् ॥ संज्ञया संकेतेन ॥ माधवः । परवाननायत्त्रः । साध्वसेन जडतया । मकरन्दः । अल्यभीष्टलाभादि- यम् । नेदीयंसां निकटानाम् ॥ स्वैरं शनैः । मालती । अत्र भर्तु स्वीकुर्वित्यर्थः ॥ माधवस्य संस्कृतभाषया लवङ्गिकाश्रमो न स्यादिति भाषासमावेशेनाह—सरल इत्यादि । साहसं आत्मनिरपेक्षकार्यं रागमनुरागं परिहर । हे रम्भोरु, कदली- समोरुदेशे, संरम्भं मरणे त्वरां त्यज । जीवन्त्यां प्रत्याशापि स्यादिति भावः । विरसं रसशून्यं तव विश्लेषदुःखं सोढुं मे चित्तमक्षमं यतः । अतोऽयं वल्लभस्त्वयि दत्तोऽतस्त्यज मरणाभिनिवेशमिति लवङ्गिकामिप्रायः । अत एव सरले अहे, ऋ- जुप्रकृतिके वा । माधवपक्षे सरले हे अजानति, तव विरहायासं सोढुं मे चित्तम- सहमतस्तव समीपमागतोऽस्मि तन्मरणं त्यज । इतरत्सममेव । तदिह संस्कृतप्रा- कृतयोः साम्यात्प्राकृतसमकम् ॥ १० ॥ किं वेत्यादि । किं वा भणामि । त्वदा- रम्भनिषेधं न करोमीत्यर्थः । हे विरहदुःसहकष्टकारिणि सुश्रोणि, काममभीष्टं कुरु । यद्येवं तदा ममालिङ्गनं देहीति लवङ्गिकापक्षे । माधवपक्षे । तु किंवा भणामि किं वक्तव्येन कामं कामव्यापारं कुरु । अतः परिरम्भणं देहि । 'आरोहः श्रोणिका- च्योः' इति धरणिः । श्लोकद्वयमिदं सौरसेन्या । यदाह—'सप्तार्थ लक्षणं प्रोक्तं सौरसेन्याः प्रपञ्चतः । लक्षणं त्वेकमेवास्याः संस्कृतात्पदन्यूनता' ॥ ११ ॥ मा- लती । अत्र उत्पीडः प्रबलीभूया निर्गमः । उत्पीडः समूहो वा । अपश्चिमं चर- मम् । प्रियस्पर्शाद्दाहादाह्लादहर्षम् । कठोरमरालगर्भो बीजकोशः । पक्ष्मलो रोमाञ्च-