भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 328, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 328

८० जगद्धरकृता । [ अङ्कः ६ पृ० पं० १५५ २ निःस्यन्दशैव० । ४ ०मात्रनिवेदि० । ०परव्यथानभि० ॥ १५६ ८ ०दार्णि कङ्कणाभरणं करं विआ० । १५७ ८ मकरन्दः—साधु लवङ्गिके, साधु । अवसरे खलु रागो० । योगात् । समाधिना सुकुमारः । अन्यादृश इवानुभूतसखीस्पर्श विधर्मा श्मशानानु- भूतस्पर्शंतुल्यः । निर्वापयति तापं शमयति । तथा तादृशः स्पर्शः शङ्काविषयो- ऽप्यत्र नेति निर्वेदात्साश्रुता । अत्र विकसन्ति शतं पत्राणि यस्य तत् । अन्य- थेदं व्यर्थं स्यात् । मण्डलपदं संपूर्णार्थम् । चिरमित्यनेन स्वाधीनभर्तृका- त्वमुक्तम् । 'सुरतादिरसैैर्यस्या बद्धः पार्श्वगतः प्रियः । प्रमोद्गुणसंप्राप्ता भवेत्सा- धीनभर्तृका ॥' निवेद्य दुःखं सुखी भवेदिति । पूर्वानुभूतदुःखं निवेदयति—अ- चिरतेत्यादि । उद्धर्तमानमुन्मूलितं बन्धनं स्थैर्यं यस्य तत् । बन्धनं स्वस्थाना- वस्थानं तस्योद्धर्तनमुन्मूलनारम्भ इति पाठान्तरव्याख्या । गमिताश्चेत्यादिना व्याध्यवस्थोक्ता । अतिवाहितातिक्रान्ता । चन्द्रातप इति तापकारित्वादातपः । एतेषामनर्थत्वमाह भरतः—'संभोगे ये सुखं कुर्युस्ते दुःखं विरहे भृशम्' इति । स्मर्तव्येत्यनेन करुणव्यभिचारिभावं स्मरणमाह । यदाह—'व्यभिचारिणोऽस्य निर्वेदो ग्लानिर्मरणव्याधिर्दैन्यभ्रमादयः' । नैराश्याच्च मरणोदयः । यदाह— 'सर्वैरैतैः प्रतीकारैर्यदि नास्ति समागमः । कामाग्निना प्रदीप्ताया जायते मरणं ततः' ॥ विप्रलम्भकरुणानन्तरं स्थायिनः शृङ्गारस्योपक्रममाह—एषा चेति । साध्वसं भयम् । माधवः । हन्त । हन्त हर्षे । एकीत्यादि । अनया माल्य‌ा कर्पूरादिवर्ग एकीकृतः सन्बालिङ्ग्य मे त्वचि निषिक्त इव । स्पर्शस्य त्वगिन्द्रियप्रा- ह्यतया त्वचीत्युक्तम् । निर्भिन्नौ निरन्तरावलग्नौ पीनौ स्तनकुड्मलौ यस्यास्तया । हरिचन्दनं चन्दनविशेषः । निःस्यन्देन द्रव्याभिधानम् । 'कृदभिहितो भावो द्र- व्यवतप्रकाशते' इति न्यायात् । निःस्यन्दीति पाठे निस्यन्दिनः सरसाः शैवालादय इत्यर्थः । अनेन प्रशान्तो मे कामजस्ताप इत्युक्तम् । बहूपमेयम् ॥ १२ ॥ आत्मा- नुरागप्रकाशनायानुभूतवेदनामाह—अयीति । उद्दामेत्यादि । एतादृशानि दिनानि मयापि किं वा नातिक्रान्तानि । अपि लतिक्रान्तान्येव । किं वेति संभा- वनायाम् । यद्वा किं निषेधे वैवार्थे । कीदृशानि । उद्दाम उद्भटो देहदाह एव महा- ज्वरो येषु । एतेनोद्वेग उक्तः । संकल्पसंगमेनापनीता व्यथा येषु । अनेनोन्माद उक्तः । यदाह—'बाहू प्रसार्य गमनं संकल्पाकल्पिते प्रिये । निवृत्तिः सहसान्य- स्मिन्नुन्मादे हि प्रजायते' ॥ यद्वा । संकल्पसंगमेनान्यस्त्रीद्वेषः सूचितस्तेन च निः- सपत्नीकत्वं कन्याहरणबीजमाह । यदाह—'असक्तिं वा दर्शयेत्सुखमनुपहतमेक- पत्नीकत्वे वा वर्णयेत्' इति । लदीयत्वेहङ्क।नेनावलम्बितं जीवितं येषु । तत्स्नेहाज्ञाने मम मरणमेव स्यादित्याशयः । 'उपलब्धिश्चित्संवित्' इत्यमरः॥१३॥ लवङ्गिका।