भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 329, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 329

Text from Jagaddhara: "लवङ्गिका । अत्राप्रतिहतः परिगृहीतः । अयं जनो मालती । स्वयमेवास्याः करं गृहाणेत्याशयः । मालती । अत्र धम्मका कुलकन्यका । विरुद्धमिति । कुलकन्यकाविवाहा दैवार्षप्राजा एव शुभा दृश्यन्त इति भावः । कामन्दकी । स्वयंग्राहविवाहं कर्तुमनर्हमिति मन्यमानां मालतीमाह-पुत्रीति । अत्र गौरादित्वान्ङीषित्यवधेयम् । कातरे विह्वले ॥ मालती । करग्रहणभयेन तदङ्गस्पर्शेन माधवस्य दर्शनहर्षेण च मालत्याः कम्पः । यदाह-'शीतभयहर्षरोषस्पर्शजरासंभवः कम्पः' । नर्मस्फोटोऽयम् । यदाह-'नर्मस्फोटो लघु भावानां देहस्थानां प्रकाशनम्' । कामन्दकी । चिबुकमुन्नमय्योष्ठाधःप्रदेशमुत्तोल्य । 'अधस्ताच्चिबुकम्' इत्यमरः ॥ पुरावृत्तं संकलय्याह-पुर इत्यादि । प्रथमं नेत्रप्रीतिरय मनसस्तद्भूतस्त्वं शरीरग्लानिश्च त्वद्विषये यस्याभूत्त्वय्यप्येतादृशा अभूवन् । हे सुमुखि, सोऽयं युवा प्रेयान् प्रियतमः । अतो जड

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क) · पृष्ठ 329, कुल 377 में से · BharatKosha