भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 33, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 33

प्रथमोऽङ्कः । २५ सा रमणीयकनिधेरधिदेवता वा सौन्दर्यसारसमुदायनिकेतनं वा । तस्याः सखे नियतमिन्दुकलामृणाल- ज्योत्स्नादि कारणमभून्मदनश्च वेधाः ॥ २४ ॥ अथ प्रणयिनीभिरनुचरीभिः कुसुमसंचयावचयलीलाभिलाषवती- भिरभ्यर्थ्यमाना तमेव बकुलपादपोद्देशमागतवती । तस्याश्च कस्मिंश्चि- दपि महाभागधेयजन्मनि बहुदिवसोपचीयमानमिव मन्मथव्यथावि- कारमुपलक्षितवानस्मि । यतः । परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु । लोचनपथगोचरं तस्याः स्वरूपमिदानीमपि प्रत्यक्षमिव विभाव्यमानं निर्वर्णयति— सेति । रमणीयस्य भावो रमणीयकम् । 'योपधाद्गुरूपोत्तमात्' इति वुञ् । आ- भिरूप्यमिति यावत् । तस्य निधिर्निक्षेपः शङ्खपद्मादिमान् । तस्याधिष्ठातृदेवता वा । सौन्दर्यस्य सर्वावयवसौष्ठवस्य निकेतनं मन्दिरं वा । सखे, तस्या निर्माणे कारणमु- पादानमिन्द्वादि । न तु भौतिकम् । मदनश्च वेधाः । न तु साधारणो वेदाभ्यासजडः । यदाह—'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः' इत्यादि । अनेन नायिकागुणवर्णनेन तद्विषयो महानुरागोऽपि श्रेयानिति बीजगुणप्रशंसनाद्विलोभनं नाम मुखसंधेरङ्गमुक्तम् । यथा—'तद्गुणाख्या विलोभनम्' इति । गुणस्वरूपनिरूप- णाद्गुणस्तुतिरूपा चतुर्थ्यवस्था माधवस्य प्रदर्शिता । यथा—'रूपौदार्यगुणैर्लीला- चेष्टाहासितवीक्षितैः । दर्शनालापमाधुर्यैर्नास्यस्तत्ससमा वधुः ॥' इति । 'यत्रेदृशी शिवा वाणी भवेत्सैव गुणस्तुतिः' इति । वितर्कश्च व्यभिचारी व्यज्यते । यथा— 'ऊहो वितर्क इत्युक्तः परार्थेषु यथामति' इति । संशयापह्नवयोः संसृष्टिः ॥ २४ ॥ अथेति । प्रणयिनीभिः प्रेमविषयाभिरनुचरीभिः परिसरवर्तिनीभिः । कुसुम- संचयस्यावचय एव लीला तस्यामभिलाषवतीभिरभ्यर्थ्यमाना स्वयमेव गन्तुका- मापि शालीनतया कुण्ठितेच्छा सती तदपनोदाय मनोविनोदिनीभिः प्रार्थ्य- माना तमेव यत्राहं स्थितः । तस्याश्च कस्मिंश्चिदपि लोकोत्तरे । महाभागधेयाद- श्वमेधाद्यपि तत्कर्मकलापं यदुत्पादने वराकप्रायं तादृशसुचरितविशेषाज्जन्म यस्य तस्मिन् । अन्यादृशस्य तदभिलाषपात्रतालक्षणत्रिभुवनसाम्राज्यसिंहासनाधिरो- हणसौभाग्यानर्हत्वात् । बहुदिवसोपचीयमानमिव चिरकालाप्रवर्धमानमिव मन्मथा- ज्जाता या व्यथा तज्जन्यं विकारमुपलक्षितवानस्मि । उभयथा लिङ्गान्याह—यतः । परिमृदितेति । परिमृदितापचयेन म्लायमाना मृणाली बिसतन्तुरिव । 'जाते- रस्त्रीविषयादयोपधात्' इति ङीप् । म्लानं ग्लानिमुपगतम् । कार्श्यं नाम मदन- दशा सूचिता । क्रियासु स्नानपानादिकासु परिवारप्रार्थनाभिः परिजनस्य चाटुवा-

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क) · पृष्ठ 33, कुल 377 में से · BharatKosha