भारतकोश
मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)

Malatimadhavam of Mahakavi Bhavabhuti with Commentary

महाकवि भवभूति द्वारा

DevanagariHindipublished377 पृष्ठ

पृष्ठ 346, कुल 377 में से

संदर्भ में पढ़ें
पृष्ठ 346

९८ : अवचूरिका [ अङ्कः ८ पृ० पं० १९४ ४ °अप्पमत्ता परि° । कहं बेला गमीअदुत्ति । होदु° । ५ °मे वामेत्तरेण लोअणेण । ११ त्वद्वत्सलः क स तप° । १९५ १ चकिता वनवर्ति° । २ र्कि चेष्टसे ननु शिरात्कव° । ३ °तमुत्तीर्य लवशो लवश एनां निकृत्य दुःखमरणं क° । अनुगमिस्स° । १० °सुणिअ साभिक्खेवं दूरणिक्खेराविद्धविअडोरुदण्ड° । १९६ २ °मच्छरादिक्खेवो तक्स° । ३ ०पोढपाइकणिवहो चन्दादवेण सोहसिह° । ८ ०पेक्खामि । अवि णाम उज्जा° । स्त्रीणामनिष्टसूचकमिति भावः । अनेन कपालकुण्डलाप्रवेशोऽपि सूचितः ॥ त्व- दित्यादि । ननु हे, स त्वत्प्रियः क्व वर्तते । तापसजनस्याघोरघण्टस्य घातकः कन्याया विटोऽतिकामुकोऽसौ त्वां रक्षतु । अत एव पातीति पतिः । यच्चिराय कवलितासि किं चेष्टसे ननवर्तिकेव । श्येनः ‘सेंवान’ इति ख्यातः पक्षी तस्यावपातो- ऽतिवेगेन त्रस्तारण्यवर्तिका यथेत्यर्थः । ‘वर्तको वर्तिकादयः’ इत्यमरः । अत्र वनग्रहणेन वर्तिकायाः खकुलवेष्टितत्वमुक्तम् । एतस्यास्तद्वैपरीत्यमिति भावः । यद्वा वनेनारक्षितत्वेन वर्तिकाया अतिभीरुत्वमुक्तम् । यद्वा वनावस्थानेन वर्ति- काया एकाकिनीत्वमुक्तम् । अत एव मालत्यपि तथेति साम्यम् । नववर्तिकेत्यपि पाठः ॥ ८ ॥ लवशो लवशोऽनेककणान् कृत्वा ॥ आक्षिप्य गृहीत्वा । मदयन्तिका । अत्रापिः प्रश्ने । संभावितो लब्धः । लवङ्गिका । अत्र उपनि- र्गमः समीपगमनम् । एतेन मार्गस्य शून्यत्वमुक्तम् । अवक्षेपोऽवहेला । अपविद्ध- माक्रान्तम् । विशालोरुयुगलदण्डाभ्यां निर्भरं गाढं यथा तथा धावित्वेत्यर्थः । अनीकं सैन्यम् । पिधा दुहिता । विप्रलम्भो वञ्चनम् । चन्द्रातपश्चन्द्रप्रकाशः । मालत्या वियोगदशायां तापकतवेनानुभवादातप इत्युक्तम् । मङ्गयते पौरलोकेनैव । मदयन्तिका । अत्र प्रसूता निर्गता । अहं प्रसूतेत्यन्वयः । अपीत्यादि शङ्का- याम् । लवङ्गिका । अत्र नन्वहम् । अव्ययलादनेकार्थत्वम् । तथा च मद्वचन- मपि न शृणोषीत्यर्थः । कलहंसकः । अत्र हीमाणहे इति हे मातरितिवन्नीचस्य हर्षाश्चर्ये । पश्यामीव परबलमित्यन्वयः । धौतो निशितः । तरवारिः खङ्गः । विद्दुरिल्लं भीषणम् । कलितः स्वीकृतः । 'कलिवली कामधेनू' इति शाब्दिकाः । 'कामपालो हलायुधः' इत्यमरः । आबिद्धा वक्रं प्रेरिता । हेला क्रीडा । कलिन्द- तनया यमुना । संनिभमिति यथा बलेन हलकृष्ट्रा यमुना प्रतीपमागता तथा पर- बलमपीति भावः । विस्तारेण वा बलस्य तादृग्यमुनासाम्यम् । विकटं विस्तीर्णं यथा तथा । विस्रृङ्खलः स्वच्छन्दः । आपतितः संमुखागतः । निर्दयो निष्करुणः ।