मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 35, कुल 377 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः । २७ मकरन्दः—स्नेहश्च निमित्तसव्यपेक्षश्चेति विप्रतिषिद्धमेतत् । पश्य । व्यतिषजति पदार्थानान्तरः कोऽपि हेतु- र्न खलु बहिरुपाधीनप्रीतयः संश्रयन्ते । विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥ २७ ॥ ततस्ततः । माधवः—ततश्च तत्र सभ्रूविलास मथ सोऽयमितीव नाम संप्रत्यभिज्ञमिव मामवलोक्य तस्याः । श्वासादिकमपि कार्यं भवितुं प्रभवति । तादृशी भवितव्यता प्राक्तनादृष्टपरिपक्ति- रेव जन्तोः प्राणिमात्रस्य शुभमशुभं च विदधाति । यद्बुद्धिसंपादने न वयं स्वत- न्त्रास्तद्वदनिष्टप्रतीकारेऽपि । कर्मवशाद्यद्यदुपमतं तत्तदवश्यमनुभोक्तव्यमित्यर्थः । अर्थान्तरन्यासोऽलंकारः ॥ २६ ॥ मकरन्दः—स्नेहश्चेति । निमित्तसव्यपेक्षो बाह्योपाधिसापेक्षः । स्नेहत्वमौपाधिकत्वं चेत्येतद्द्वयमेकत्र धर्मिणि विरुद्धमि- त्यर्थः । यत्तु भावप्रकाशे स्नेहद्वैविध्यमुक्तम् , यथा—'मनसो यद्यार्द्रत्वं विष- येषु च तत्त्वतः । भयशङ्कावसानात्मा स एष स्नेह उच्यते ॥ द्विधा द्रवः स्यान्म- नसः स्पर्शनाद्दर्शनादपि । जतुवद्वह्निसंस्पर्शाद्दर्शनाच्चन्द्रकान्तवत् ॥ आर्द्रता निश्चि- रत्वं यत्सर्वावस्थासु मानसम् । ययोः परस्परस्यास्ते तदपि स्नेह ईरितः ॥ द्विधा भवेत्स च स्नेहः कृत्रिमाकृत्रिमात्मकः । सोपाधिः कृत्रिमः स्नेहो निरुपाधि- रकृत्रिमः ॥ उपाधौ विनिवृत्ते तु तज्जन्योऽपि निवर्तते । स्नेहः स्वभावजो याव- द्द्रव्यभावी भविष्यति ॥' इत्यादिना, तत्सोपाधिके स्नेहे स्नेहत्वोपचारात्स्नेहशब्दप्र- योग इति मन्तव्यम् । स्वाभाविकस्नेहस्य बाह्योपाधिनैरपेक्ष्यमेवोपपादयति— पश्येत्यादि । दृष्टान्तमुखेनेममर्थमवधारयेत्यर्थः । व्यतिषजतीति । पदा- र्थांन्भावानचेतनांश्चेतनांश्च । आन्तरो गूढः । कार्यैकसमधिगम्यः कोऽपीदन्तया निरूपयितुमशक्यो हेतुर्व्यतिषजति परस्परं संघटयति । पुनः प्रीतयः स्नेहा बहिरुपाधीन्बाह्यानि निमित्तानि न संश्रयन्ते । दृष्टान्तमाह—पतङ्गस्य रवेरुदये पुण्डरीकं विकसति । हिमरश्मौ चन्द्रे चोद्गत उदिते चन्द्रकान्तमणिर्द्रवति । नचात्र परिदृश्यते बाह्योपाधिः कश्चिदृते स्वभावसौहार्दात् । तद्वत्कस्यचित्कुत्रचिदवलो- कनमात्रेणान्तःकरणं विकसति द्रवीभवतीति स्वाभाविकस्नेहस्य महिमायमित्यर्थः । दृष्टान्तालंकारः ॥ २७ ॥ ततस्तत इति । अनन्तरवृत्तान्तं ब्रूहीति शेषः ॥ माधवः—ततश्चेति । तदनन्तरं तत्र तस्मिन्नेवावसरे । सभ्रूविलासेति । तस्याश्चतुरेण विदग्धेन सखीजनेन मामवलोक्य । अथ मदवलोकनानन्तरं स्मितसु- ४ मालतीमा०