मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
पृष्ठ 36, कुल 377 में से
संदर्भ में पढ़ें२८ मालतीमाधवे अन्योन्यमेव चतुरेण सखीजनेन मुक्तास्तदा सितसुधामधुराः कटाक्षाः ॥ २८ ॥ मकरन्दः—(स्वगतम् ।) कथं प्रत्यभिज्ञापि नाम । माधवः—अथ ताः सलीलमुत्तालकरकमलतालिकातरलवलयाव- लीकमुद्ग्रस्तकलहंसविभ्रमाभिरामचरणसंचरणरणायमानमञ्जुमञ्जीर- रणितानुविद्धमेखलाकलापकिङ्किणीरणरणत्कारमुखरं प्रतिनिवृत्य 'भ- र्तृदारिके, दिष्ट्या वर्धामहे । यदत्रैव कोऽपि कस्या अपि वल्लभ- स्तिष्ठति' इति मामङ्गुलीदलविलासेनाख्यातवत्यः । धामधुरा दरहसितामृतसाहचर्यमनोहराः कटाक्षा आकृतद्योतका दृष्टिविशेषा अन्योन्यं मुक्ताः प्रहिताः । मां दृष्ट्वा स्मितपूर्वकं परस्परमवलोकनं कृतवत्य इत्यर्थः । अथ मामवलोक्येत्यवलोकवक्रियां विशिनष्टि—सप्रत्यभिज्ञमिवेति । प्रत्यभिज्ञा नाम पूर्वानुभूतस्य पुरोवर्त्यैक्यावगाहिनी धीः । सा च परबुद्धित्वान्न मया प्रत्य- क्षीकृता, किंतूत्प्रेक्षितेति इवशब्देन द्योतयति । कथं त्वयैतदुत्प्रेक्षितमित्याशङ्क्य- बीजमाह—सोऽयमितीव नामेति । नाम प्रसिद्धौ । यो मालतीजीवितवल्लभो माधवो नाम प्रसिद्धः सखीजनकथासु स एवायमितीव तत्तेदन्तांशावच्छेदः प्रत्यभिज्ञोत्प्रेक्षाबीजम्, तस्यापि तदिदंशब्दाभिलापरूपस्य तदानीमभावात् । ज्ञाना- कारस्य अप्रत्यक्षत्वात् सोऽप्युत्प्रेक्षित एवेतीवशब्देन सूचयति । तदपि कथ- मुन्नीतमित्याशङ्क्य स्फुटं तल्लिङ्गमाह—सभ्रूविलासमिति । भ्रुवोर्विलासो विक्षेपः । योऽस्माभिर्भर्तृदारिकाचित्तचोरो माधवो नाम गोष्ठीषु प्रसज्यते स एवायमित्येवं- रूपार्थद्योतिका चेष्टाभ्रूलतोन्नमनचातुरी तत्सहितं यथा भवति तथा पूर्वानुभू- तपुरोवर्तिलक्षणतत्तेदन्ताभिव्यञ्जिका भ्रूचेष्टा, पदार्थाभिनयरूपत्वाच्चेष्टायाः । तेन तया तत्तेदन्तावच्छेदनेनासाधारणधर्मेण मद्विषया तासां प्रत्यभिज्ञाभ्यूहिते- त्यर्थः। भाविकमलंकारः ॥ २८॥ मकरन्दः—स्वगतम् । कथमिति । नामेति संभावनायाम् । अननुभूतपूर्वे कथं तासां प्रत्यभिज्ञासंभव इति वितर्कः। इदं चात्म- गतं वेदितव्यम् । अन्यथा माधवेनोत्तरस्य वक्तव्यतापत्तेः। माधवः—अथेति । अनन्तरं तस्याः पुरत एव मत्समीपमागतास्ताः परिचारिका मां दृष्ट्वा प्रतिनिवृत्य पश्चादागच्छन्त्यै तस्यै । अङ्गुल्य एव दलानि। अङ्गुलीनां दलत्वरूपणं करस्य कमलत्वं द्योतयति । तेषां विलासोऽप्रागल्भ्यललितक्रिया तेन मां कथितवत्यः । कथं प्रतिनिवृत्येत्यपेक्षायां त्रीणि क्रियाविशेषणानि । तत्र सलीलं लीलया सहितं यथा भवति तथा । लीला नामाङ्गव्यापारेणाभीष्टार्थानुकरणम् । यथा—'मनो- मधुरवागङ्गचेष्टितैः प्रीतिचोदितैः । प्रियानुकरणं लीला सा स्यात्स्त्रीपुंसयोरपि ॥' उत्ताला उन्नताः करकमलयोस्तालिका ऊर्ध्वप्रसारिताङ्गुलीककरतलद्वयपरस्परा- स्फालनं तेन तरला वलयावली कङ्कणश्रेणिर्यथा स्यात्तथा । उद्ग्रस्ता उद्दिग्ना मत्ताश्च ये कलहंसास्तेषां विभ्रमो विशिष्टभ्रमणं मनोज्ञा गतिस्तद्वदभिरामं चरणसंचरणं